संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १९५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १९५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १९५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अहो नु संप्रबुद्धोऽसि राघवाघविघातिनी ।वागियं तव संपन्ना प्रबुद्धेष्ववहासिनी ॥१॥विभातीवासदेवेदमसंकल्पेन शाम्यति ।एतच्छान्तिस्तु निर्वाणमित्येव परमार्थता ॥२॥कल्पनाकल्पने रूपं परस्यैवेतरस्य नो ।स्पन्दनास्पन्दने वायोर्यथा नात्रैकताद्विते ॥३॥प्रबुद्धस्यैव या पुंसः शिलाजठरवत्स्थितिः ।शान्तौ व्यवहृतौ वापि सामला मुक्ततोच्यते ॥४॥वयमस्मिन्पदे स्थित्वा राघवाघविघातिनि ।शान्तत्वे व्यवहारे च सममित्थमवस्थिताः ॥५॥अस्मिन्नेव पदे नित्यं ब्रह्मविष्णुहरादयः ।तिष्ठन्ति व्यवहारस्था अपि शान्ता ज्ञरूपिणः ॥६॥शैलोदरस्थितिमतां प्रबुद्धानामनामयम् ।अस्माकं पदमेवं तदालभ्यैतदिहोष्यताम् ॥७॥श्रीराम उवाच ।ब्रह्मण्येवमसद्रूपमनुत्पन्नमभासुरम् ।अनारम्भमनाकारमेवेदं भासते जगत् ॥८॥मृगतृष्णाम्बुसदृशं तरङ्गावर्तिवारिवत् ।रुचकादीव कनके स्वप्नसंकल्पशैलवत् ॥९॥श्रीवसिष्ठ उवाच ।बुद्धवानसि चेद्राम तत्स्वबोधविवृद्धये ।कुरु संशयविच्छेदं पृच्छतः प्रच्छकस्य मे ॥१०॥इत्थं नित्यानुभूतोऽपि शिरस्थोऽप्यतिभासुरः ।जगदाख्योऽयमाभासः कथं नाम न विद्यते ॥११॥श्रीराम उवाच ।पूर्वमेवेदमुत्पन्नं न किंचन कदाचन ।तेन वन्ध्यासुतस्यास्य न सत्ता कल्पनादृते ॥१२॥किमिवास्या जगद्भ्रान्तेः कारणं प्रोत्थिता यतः ।न कारणं विना कार्यं किंचित्संभवति क्वचित् ॥१३॥न चाविकारमजरं सविकारं क्षयादृते ।कारणं क्वचिदेवेह किंचिद्भवितुमर्हति ॥१४॥ब्रह्मैवेदमनाख्यात्म कारणं प्रविजृम्भते ।तत्क्व कस्य कथं नाम जगच्छब्दार्थसंविदः ॥१५॥तदनाख्ये पदे शान्ते चिरात्प्रथमचेतनम् ।कंचित्काललवं तिष्ठत्यातिवाहिकदेहभृत् ॥१६॥क्षणे वत्सरसंवित्तिं स्वप्ने त्वमिव चेतति ।काकतालीयवत्तत्र चन्द्रार्कादींश्च पश्यति ॥१७॥संकल्पैकात्मनस्तस्य देशकालक्रियान्वितम् ।अत्यन्तमेव व्योम्न्येव भुवनं भासते स्वयम् ॥१८॥तस्मिन्मिथ्योपसंपन्ने स मिथ्यापुरुषस्ततः ।मिथ्यैव तत्समाचारं कुर्वन्विपरिवर्तते ॥१९॥अधस्तादूर्ध्वमायाति पुनरूर्ध्वाद्ब्रजत्यधः ।कल्पितानन्तसंभारपदार्थानर्थसंभ्रमः ॥२०॥काकतालीयवत्तस्य संकल्पस्य भवेद्यदि ।यद्यथा तत्तथाद्यापि सुस्थिरामात्तवान्स्थितिम् ॥२१॥शिला वन्ध्यासुतमुखे व्योमचूर्णेन रञ्जनम् ।करोतीत्यादिवदिदं मिथ्या जगदुपस्थितम् ॥२२॥सत्यमेवेदमथवा मिथ्यात्वं तु कुतः किल ।न मिथ्यात्वं न सत्यत्वं किमपीदमजं ततम् ॥२३॥आकाशकोशवत्स्वच्छं शिलाजठरवद्धनम् ।पाषाणमौनवच्चेदं शान्तमेवाक्षयं जगत् ॥२४॥चिन्मात्रसर्वसंकल्पे विराडात्मातिवाहिके ।देहे संवेदनं व्योम जगदित्यवभासते ॥२५॥एवं ब्रह्म महाकाशमेवेदं क्व जगत्कथा ।शान्तं समसमाभोगमेकमाद्यन्तवर्जितम् ॥२६॥यथा पयसि वीचीनामुन्मज्जननिमज्जनैः ।न जलान्यत्वमेवं हि भावाभावैः परैः परे ॥२७॥परावरविदः केचिदेतस्मिन्परमे पदे ।शुद्धे परिणमन्त्यन्तर्वारिबिन्दुरिवाम्भसि ॥२८॥परेऽपरमिदं भाति परस्येव परात्मकम् ।संभवन्त्यमले शान्ते न जगन्ति न तत्क्रियाः ॥२९॥स्वप्ने स्वप्न इति ज्ञाते दृश्ये ब्रह्मतयापि च ।मृगाम्बुनि परत्वेन को भावयति भावनाम् ॥३०॥परमार्थचमत्कारमन्तःस्थानुभवं विना ।अन्यस्यान्यं न जानाति सीधुस्वादुमिव द्विजः ॥३१॥निर्वाय निज आत्मायं परिवृत्यावलोकितः ।चेत्योन्मुखत्वमुत्सृज्य संतिष्ठेच्छान्त आत्मनि ॥३२॥श्रीवसिष्ठ उवाच ।दृश्यं बीजाङ्कुर इव स्थितं ब्रह्मणि कारणे ।इति सर्गादिसद्भावः कस्मान्नेहोपपद्यते ॥३३॥श्रीराम उवाच ।बीजेऽङ्कुरोऽङ्कुरतया संश्रितो नोपलभ्यते ।बीजोदरे तु या सत्ता बीजमेव हि सा भवेत् ॥३४॥ब्रह्मणोऽन्तर्जगत्तैवं जगत्तैवोपलभ्यते ।अस्ति चेत्तद्भवेन्नित्यं सा ब्रह्मैवाविकारि तत् ॥३५॥अविकारादनाकाराद्विकार्याकृतिभासुरम् ।उदेतीति किलास्माभिर्नैव दृष्टं न च श्रुतम् ॥३६॥अनाकृतावाकृतिमन्न चैतत्स्थातुमर्हति ।परमाणौ न चैवान्तरिव संभान्ति मेरवः ॥३७॥समुद्गके रत्नमिव जगद्ब्रह्मणि तिष्ठति ।महाकारं निराकार इत्युन्मत्तवचो भवेत् ॥३८॥शान्तं परं च साकारस्याधार इति राजते ।न वक्तुं राजते क्वेव साकारस्याविनाशिता ॥३९॥बोध एवायमाकार इति कल्पनयापि धीः ।अपूर्वैः स्वप्नवद्रूढैः संसारैर्नोपलभ्यते ॥४०॥अपूर्व एव स्वप्नोऽयं यद्वै सर्गोऽनुभूयते ।स्वप्नः किलानुभूतार्थः स्वभ्यस्त इव दृश्यते ॥४१॥यदेव जाग्रत्तत्स्वप्न इति नात्रोपपद्यते ।स्वप्ने प्रदग्धः पुरुषः कथं प्रातर्विलोक्यते ॥४२॥अशरीरस्य न स्वप्न इत्येतदपि नोचितम् ।संभवन्ति पिशाचाद्यास्तेषां च स्वप्नवत्स्थितिः ॥४३॥तस्मात्स्वप्नवदाभासः संविदात्मनि संस्थितः ।सर्गादिनानाकृतिना परमात्मा निराकृतिः ॥४४॥स्वप्ने चिदेव शैलादिरूपेणात्मनि तिष्ठति ।ब्रह्मात्माखिलमुक्तोऽसावन्येनासौ कृतो यदि ॥४५॥नेहास्तित्वं न नास्तित्वमुपलब्धेऽनुभूयते ।नैवानुभवितृत्वं च न चानुभवनक्रमः ॥४६॥किमपीदमनाख्येयं बुद्धेनैवानुभूयते ।स्वसंवेदनसंवेद्यं सत्तासत्ताविजृम्भितम् ॥४७॥अभावरूपिणो भावा अभावा भावरुपिणः ।सर्वदा सर्वथा सर्वे भान्ति भासुरतां गताः ॥४८॥बृंहति ब्रह्मणि ब्रह्म व्योम व्योमनि वर्धते ।न चोपपद्यते किंचिद्ब्रह्म व्योम्नि विबृंहणम् ॥४९॥द्रष्टृदृश्यदृगात्मायमहं सर्गादिविभ्रमः ।शान्तश्चिद्व्योमविस्तारो न कुड्याद्युपपद्यते ॥५०॥यथा न सन्न कुड्यादि स्वसंकल्पनपत्तनम् ।तथैवायं जगदिति शान्तमेकमनामयम् ॥५१॥पूर्णं हि परमं शान्तमिदं सर्वमखण्डितम् ।अनिङ्गनमनाभासमनाद्यन्तमचेतितम् ॥५२॥अजन्ममरणं शान्तमनादिनिधनं महत् ।अनुपाधि निराकारं स्वपदं बुद्धवानहम् ॥५३॥या संविदन्तः स्फुरति सैवोपायाति वाक्यताम् ।यद्बीजं लीनमवनौ तद्यात्यङ्कुरतां किल ॥५४॥शुद्धज्ञानामयैकात्मा द्वैतैक्यपरिवर्जितः ।मनागपि न जानामि द्वैतैक्यकलनाकलाम् ॥५५॥सर्वे तूष्णींमया एव जीवन्मुक्ता इमे जनाः ।संशान्तसर्वसंरम्भाः खे खभाव इव स्थिताः ॥५६॥जगत्स्पर्शमहारम्भमपि तूष्णीमिदं स्थितम् ।चित्रं भित्ताविव कृतं मनोराज्य इवोदितम् ॥५७॥शैलादिवोत्कीर्णसमं कथायामिव वर्णितम् ।शम्बरेणेव रचितं व्योम्नि स्वप्न इवोदितम् ॥५८॥किल स्वप्नवदेवेदं सर्गादावेव भाति यत् ।अभित्तिकं निष्प्रतिघं जगत्केवास्य सत्यता ॥५९॥जगद्बुद्धाविदं सत्यं परिज्ञानवतो मृषा ।ब्रह्मात्मक इदं ब्रह्म शान्ते शान्तं पराम्बरम् ॥६०॥सर्व एव इमे भावाः सह स्थावरजङ्गमाः ।अस्मदादय आकाशं जगज्ज्ञविषयं तथा ॥६१॥खमहं खं भवांश्चित्खं जगत्खं खं खमेव च ।चिदाकाशैकतामेत्य भजैकाकाशरूपताम् ॥६२॥ज्ञानेनाकाशकल्पेन सर्वात्म गगनोपमम् ।ज्ञेयाभिन्नेन संबोधात्तं वन्दे द्विपदां वरम् ॥६३॥चिद्रूपत्वादुदेतीदं जगत्तत्रैव लीयते ।अकारणकमेवान्तः परं व्योमैव निर्मलम् ॥६४॥एतत्सर्वपदातीतं सर्वंशास्त्रकलातिगम् ।पदमासाद्य निर्द्वन्द्वं त्वमाकाशात्मकोऽभवः ॥६५॥अहं जगच्च नो पादपाण्यादि न घटादि च ।सर्वमाकाशमाकाशमेवाच्छ सूक्ष्यचिद्भवेत् ॥६६॥सर्वापह्नव एवायं मया यो दर्शितस्तव ।स निन्द्यो वादिनां वादेष्वात्मज्ञानेषु राजते ॥६७॥काष्ठमौनात्मको वादे न सर्वापह्नवो यदा ।क्रियते तेन वादेषु नात्मज्ञानं प्रसीदति ॥६८॥प्रत्यक्षादिप्रमाणानां यदगम्यमचिह्नितम् ।स्वानुभूतिभवं ब्रह्म वादैस्तल्लभ्यते कथम् ॥६९॥सर्वागमार्थसमतीतमचिह्नमच्छ-माकाशमेकमजमाद्यमनामरूपम् ।शुद्धं चिदात्मकमिहास्त्यनुभूतिमात्रंशान्ताभिधानकलनं मलशङ्कयालम् ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० बोधप्रकाशीकरणयोगोपदेशो नाम पञ्चनवत्यधिकशततमः सर्गः ॥१९५॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP