संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १६७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १६७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १६७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।आत्मख्यातिरसत्ख्यातिः ख्यातिरख्यातिरन्यथा ।शब्दार्थदृष्टयस्तज्ज्ञं प्रत्येताः शशश्रृङ्गवत् ॥१॥कदाचनापि नामाङ्ग संभवन्ति न काश्चन ।शान्तमव्यपदेश्यात्मा ज्ञ आस्तेऽस्तङ्गतेङ्गनः ॥२॥एता उद्यन्ति चिन्मात्रादात्मख्यात्यादिका दृशः ।तच्च शुद्धतरं व्योम तन्मय्येव च दृश्यते ॥३॥अयमात्मा त्वियं ख्यातिरित्यन्तःकलनाभ्रमः ।न संभवत्यतश्चैनं शब्दं त्यक्त्वा भवार्थभाक् ॥४॥गच्छंस्तिष्ठन्नददपि सर्वे शान्तमतो जगत् ।आकाशमौनमेवाच्छमच्छिन्नं वाऽप्रवृत्तिमत् ॥५॥नानामहाशब्दमपि शिलामौनमवस्थितम् ।अनारतं गच्छदपि व्योमवच्छैलवत्स्थितम् ॥६॥नानाविधारम्भमपि महाशून्यमनङ्कितम् ।पञ्चभूतात्मकमपि खमिवालब्धपञ्चकम् ॥७॥पदार्थसंकुलमपि शून्यं संवित्तिमात्रकम् ।स्वप्ने महापुरमिव दृष्टमप्यच्छचिन्मयम् ॥८॥सारम्भमप्यनारम्भं संकल्पनगरं यथा ।आकाशमात्रं भ्रान्त्यात्म स्वप्नस्त्रीसंगमोपमम् ॥९॥अनुभूतमपि व्यर्थं प्रतिबिम्बाङ्गनासमम् ।नानानुभवनिर्माणं वस्तु शून्यं तु वस्तुतः ॥१०॥श्रीराम उवाच ।जाग्रत्स्वप्नात्मकमिदं मन्ये स्मृत्यैव दृश्यते ।सद्रूपबाह्यार्थकृता स्मृतिरेवेह कारणम् ॥११॥श्रीवसिष्ठ उवाच ।यत्तच्चित्काचकच्येन काकतालीयवद्वपुः ।व्योमात्माऽऽभाति भावानां सत्तामात्रमभित्तिमत् ॥१२॥तदेतदविनाशात्म सर्वत्र परमात्मनि ।सर्वदा विद्यते शान्ते पयसीव तरङ्गकाः ॥१३॥निर्निमित्तं स्वरूपात्म तदेतत्परमात्मनि ।सर्वात्मन्यपि निर्वाणे व्योमात्मनि निरात्मनि ॥१४॥यदा यदावभात्यन्तर्येन तेन यथा तथा ।सर्वदा न कदाचिद्वा यत्र तत्र न किंचन ॥१५॥तस्यैव ब्रह्मभानस्य तेनैवं ब्रह्मणात्मना ।स्वच्छस्यैव स्वभावस्य स्वस्वभावमनुज्झता ॥१६॥इदं जाग्रदयं स्वप्नः सुषुप्तं तुर्यमित्यपि ।कृतं नाम स्वयं चित्वाद्ब्रह्म वात्मेति चात्मनि ॥१७॥वस्तुतस्त्वस्ति न स्वप्नो न जाग्रन्न सुषुप्तता ।न तुर्यं न ततोऽतीतं सर्वं शान्तं परं नभः ॥१८॥अथवा सर्वमेवेदं जाग्रद्रूपं सदैव च ।सर्वदैव च वा स्वप्नः सुषुप्तं सर्वदैव च ॥१९॥सर्वदैव च वा तुर्यं तदन्तः सर्वदैव वा ।तदिदं वा न यद्विद्मो वयमाशान्तरूपिणः ॥२०॥इदं फेनो न किंचिद्वा बुद्बुदो वा न कश्चन ।शून्यताम्भसि चिद्व्योम महार्णवमहोदरे ॥२१॥यथा संवेद्यते यद्यत्तथा तदनुभूयते ।सद्वासद्वा भवत्स्वप्ने व्योम्नीव सदसच्च तत् ॥२२॥संवित्कचनमेवेदं यथा भानं विभासते ।व्योम व्योमनि चिद्रूपं चिद्रूपे विततात्मनि ॥२३॥संविच्च चिन्नभोमज्जा सैवंरूपैव सर्वदा ।नास्तमेति न चोदेति तस्याः स्वाङ्गमिदं जगत्॥२४॥महाप्रलयसर्गाद्या महाप्रलयरात्रयः ।तस्या एवावयवतां याताः केशनखादिवत् ॥२५॥तस्या भानमभानं तद्भास्वरं जिह्ममेव वा ।नान्यत्स्वभाववत्स्पन्द इव वायोर्महाचितेः ॥२६॥तस्मात्किं नाम जाग्रत्स्यात्कः स्वप्नः का सुषुप्तता ।किं तुर्यं का स्मृतिः केच्छा तुच्छा एताः कुदृष्टयः ॥२७॥अन्तःसंवेदनं भाति स्वं बाह्यार्थतया यतः ।क्व द्वैतं क्व च वार्थश्रीः स्मृतिरेवमतः कुतः ॥२८॥तदिदं भाति निर्भित्ति तत्स्वभानं यदात्मना ।भानोर्नभसि भारूपमेव भूतविवर्जितम् ॥२९॥सद्रूपो यदि बाह्योऽर्थो विद्यते तत्तदुत्थिता ।स्मृतिः कारणतामेतु नामाद्यजगतः स्थितेः ॥३०॥किंतु नास्त्येष बाह्योऽर्थो भूतानामत्यसंभवात् ।पञ्चानामादिसर्गादौ कारणानामभावतः ॥३१॥शशश्रृङ्गं यथा नास्ति यथा नास्ति खपादपः ।यथा वन्ध्यासुतो नास्ति यथा नास्त्यसितः शशी॥३२॥तथाऽज्ञप्रतिभातोऽर्थो जगदाद्यहमादिकः ।अप्रेक्षितोऽस्ति नास्त्येव प्रेक्षितः सन्न कश्चन ॥३३॥यथास्तीदं महाकारं न किंचिदूपमेव वा ।तत्त्वज्ञविषयं राम तथास्तीदमखण्डितम् ॥३४॥संविद्धननभोमज्जा यथोदेति यदा यदा ।नित्योदितोपचारेण कल्पितास्तमयोदया ॥३५॥मुधा व्योम्न्येव पृथ्व्यादितया वेत्ति तदा तदा ।स्वस्यैव तस्य भानस्य धत्ते पृथ्व्यादिकल्पनाम् ॥३६॥स्वमेव भानमाकाशमात्रमेव महाचितिः ।पृथ्व्यादिव्यपदेशेन पश्चाद्व्यपदिशत्यजा ॥३७॥आकाश एव पृथ्वीयमिति धत्ते स्वसंविदम् ।मनोराज्यपुरं बाल इव चिन्मात्रमव्ययम् ॥३८॥किं भानं किमभानं स्यात्तस्येति न विकल्प्यते ।स्पन्दास्पन्दस्वभावं तद्विद्धि वातमिवाम्बरे ॥३९॥यथा भाति चिदाकाशं तथेदमवभासते ।व्योम व्योम्न्येव नीरूपं नेदं पृथ्व्यादि सत्क्वचित् ॥४०॥यथा भाति चिदाकाशरूपत्वाद्भातमप्यलम् ।न सन्नासदिति किंचित्तन्न किंचिच्च किंचन ॥४१॥इदमित्थमनित्थं च सद्वाऽसद्वा यथास्थितम् ।लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥४२॥स एव हृदयाकाशे कचन्त्या दृश्यसंविदा ।बाह्यं ब्रह्माण्डमित्थं च सद्वाऽसद्वा यथास्थितम् ॥४३॥किमत्र बाह्यं किं वान्तः किं दृश्यं कास्य दृश्यता ।शिवं शान्तमशान्तं च सर्वमोमिति शाम्यताम्॥४४॥नो वाच्यवाचकदृशा रहितो विचारःसंपद्यते स च विकल्पमयेन सिद्ध्यै ।सिद्धिश्च संभवति तेन विना न काचिद्दीपं विना निशि यथा नयनोपलम्भः ॥४५॥तस्मादपास्य परयाऽमलया धियान्तः-संकल्पकल्पनमनल्पविकल्पजालम् ।कृत्वा मनः सकलशास्त्रमहार्थनिष्ठ-मुड्डीय गच्छ पदमुत्तममेकनिष्ठः ॥४६॥इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० जाग्रत्स्वप्नसुषुप्त्यभावप्रतिपादनं नाम सप्तषष्ट्यधिकशततमः सर्गः ॥१६७॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP