संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १११ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १११ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १११ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति कल्पान्तसदृशे यत्ते समरसंभ्रमे ।पतन्तीषूत्पतन्तीषु सेनासु समरेजिरे ॥१॥तूर्यभेरीमहाशङ्खखङ्गेषु खे नदत्सु च ।धनुर्ध्वनिषु वीराणां तारक्रेंकारकारिषु ॥२॥अन्योन्यकठिनास्फोटविकटे भटपेटके ।कवत्कटकटाटोपे कटुकुट्टितकङ्कटे ॥३॥किंचित्प्रभज्यमानासु विशत्कश्मासु संगरे ।विपश्चित्पक्षसेनासु लूयमानलतास्विव ॥४॥उदभूत्पूरयन्नाशा नृपनिर्याणदुन्दुभिः ।चतुर्धाशनिसंपूर्णकल्पाभ्ररवमांसलः ॥५॥स्फुटतां कुलशैलानां तुल्यकालमिवोत्कटः ।स्फुटच्चटचटास्फोटैर्जडिताखिलदिक्तटः ॥६॥लोकपालैरिवाकारैर्नारायणभुजैरिव ।स चतुर्भिश्चतुर्दिक्कं निर्जगाम महीपतिः ॥७॥चतुरङ्गेण महता सैन्येन परिवारितः ।अट्टालवलयात्कृच्छ्रान्निर्गत्य नगराद्बहिः ॥८॥ददर्शात्मबलं रिक्तं बलवद्रिपुमण्डलम् ।गर्जन्तं च लयाकृत्या भीमं युद्धोद्धतार्णवम् ॥९॥शरसीकरनीरन्ध्रं मकरव्यूहसंकुलम् ।वारणव्यूहवलितं तरङ्गव्यूहविस्तृतम् ॥१०॥चक्रावर्तवहद्व्यूहकल्लोलकलितान्तरम् ।चलद्रथशतावर्तं पताकालहरीगणम् ॥११॥प्रस्फुरच्छत्रफेनाढ्यं हयहेषितफीत्कृतम् ।समुल्लसद्धेतिजलं कचद्धाराकरं परम् ॥१२॥तरत्तरलमातङ्गतुरङ्गौघतरङ्गकम् ।हेत्यम्भसि कचत्पापमुद्यद्गुलुगुलोदरम् ॥१३॥दरीदलनसंक्षुब्धमरुज्जनितघुंघुमम् ।नतोन्नतकृताद्रीन्द्रमहास्पन्दशरीरकम् ॥१४॥मज्जन्मातङ्गतुरगहेलाहतमहीधरम् ।अपारविचरत्पूरकल्लोलालमहाजलम् ॥१५॥अकालकल्पान्तदशासमुत्थानघनाकृतिम् ।आक्रान्तरोदसीरन्ध्ररुधिरैकमहार्णवम् ॥१६॥कचदायुधखण्डौघडीनरत्नावृतोदरम् ।चलद्व्यूहचलट्यस्तयन्त्राश्मक्षेपणाश्मकम् ॥१७॥रत्नसीकरनीहारसंध्याभ्रपटलानतम् ।क्वचित्पांसुपयोवाहपीतहेतिपयोधरम् ॥१८॥तमालोक्य रणाम्भोधिमगस्त्योऽस्य भवाम्यहम् ।इति संचिन्त्य मनसा स पातुं तं रणार्णवम् ॥१९॥अस्त्रं सस्मार वायव्यं चतुर्दिक्कं च संदधे ।धनुषि शिखराधारे त्रिपुरान्त इवोद्यतः ॥२०॥आत्मीयदेशसैन्यानां श्रेयोर्थं शान्तयेऽनलम् ।नमस्कृत्याथ जप्त्वाशु स तत्तत्याज दारुणम् ॥२१॥यथा तथैव तत्याज तस्य साहायकाय सः ।पर्जन्यास्त्रं महास्त्रैशं द्विषदातपशान्तये ॥२२॥तस्मादस्त्रजुषो घोराद्धनुषः परिनिर्गताः ।अष्टमूर्तेश्चतुर्दिक्कमाशाकुहरपूरकाः ॥२३॥निर्ययुर्बाणसरितस्त्रिशूलसरितस्तथा ।शक्तीनामुग्रसरितो भुशुण्डीसरितस्तथा ॥२४॥मुद्गराणां च सरितः प्रासानां सरितो रयात् ।चक्राणां चैव सरितः परश्वधनदीरयाः ॥२५॥तोमराणां च सरितो भिन्दिपालमहापगाः ।पाषाणानां च सरितो वाताः कल्पान्तशंसिनः ॥२६॥अशनीनां च सरितो विद्युतां सरितस्तथा ।जलधारासरित्पूराः खङ्गवर्षसमन्विताः ॥२७॥सनाराचा महावर्षहर्षलोत्पातपीवराः ।नागाश्च युगपर्यन्तस्फुटिताद्रीन्द्रजा इव ॥२८॥तेनास्त्रवर्षवेगेन धुतः सोऽरिबलार्णवः ।झटित्येव न कालेन पांसुराशिरिवाभितः ॥२९॥सलिलाशनिशस्त्राणामासारैश्चण्डमारुतैः ।सरांसीव विसेतूनि सैन्यानि परिदुद्रुवुः ॥३०॥चतुरङ्गश्चतुर्दिक्कं बलौघः स पराङ्मुखः ।ययौ प्रावृङ्गिरिणदीमहावाह इव द्रुतः ॥३१॥वहत्स्विन्नबृहच्छिन्नपताकाकेतुपादपः ।मरीचिपुष्पशबलविलोलासिलतावनः ॥३२॥विलुठत्पुष्टपाषाणपृषद्रक्तद्रवावचः ।घोरैर्घुरघुरारावैरलं हृदयभङ्गदः ॥३३॥उह्यमानवृहद्दन्तिदन्तद्रुमविघट्टनैः ।स्फूर्जच्चटचटारावतर्जितोद्गर्जिताम्बुदः ॥३४॥हेतिवृत्तोग्रसंघट्टपुष्पजातझणज्झणः ।तरत्तरलसारावतुरङ्गमतरङ्गकः ॥३५॥रथादिभटचक्रौघशिलाक्रेंकारपीवरः ।पदातिरथहस्त्यश्वशिलासंघट्टसंकटः ॥३६॥कटुचंकारचीत्कारक्रेंकारपरिपीवरः ।मृता मृता वयमिति घनकोलाहलाकुलः ॥३७॥सेनावारिमहावर्तचलद्गुलुगुलारवः ।रक्तसीकरनीहारसंध्याम्बुदवितानकः ॥३८॥हेतिवीचिवटाच्छिन्नवारिवामनवारिदः ।वर्षपङ्किलभूपीठतटखण्डनमण्डितः ॥३९॥कुन्तशूलगदाप्रासवहत्तालतलाद्भुतः ।साक्रन्दभीरुजनताप्रतपन्मृगपोतकः ॥४०॥मृतहस्त्यश्वयोधौघजीर्णपर्णनिरन्तरः ।पिष्टदेहवसामांसपङ्कसंजातकर्दमः ॥४१॥चूर्णीकृतखुरापिष्टमहास्थिघनसैकतः ।उह्यमानशिलापूरकाष्ठकोटिकटङ्कटः ॥४२॥उद्गर्जत्प्रलयाम्भोदैर्वहत्प्रलयवायुभिः ।प्रपतत्प्रलयासारैः प्रलयाशनिसंकटैः ॥४३॥पङ्किलाखिलभूपीठैः सलिलोपप्लुतस्थलैः ।सितशैत्यवशाश्यानधाराकृतखपञ्जरैः ॥४४॥समग्रनगरग्रामगृहज्वलितवह्निभिः ।प्रजाश्वेभपदातीनामाक्रन्देनापि घर्घरैः ॥४५॥रथाम्भोधरनिर्ह्रादैर्दिवि भूमौ घनारवैः ।चतुर्दिक्कं घनं तारक्रेंकारस्य चतुष्टयैः ॥४६॥विद्युद्वलयविस्तारकारिसंघट्टघर्षणैः ।शरशक्तिगदाप्रासभिन्दिपालादिवर्षणैः ॥४७॥सर्वदिक्कमसंख्यानि बलानि बलशालिनाम् ।भूभृतां विद्रवन्त्याशु विनेशुर्मशकौघवत् ॥४८॥उद्दामपावकवनोपमहेतिसार्थ-मेघानलाकुलजनाशनिवर्षपातैः ।आसन्बलानि चपलाब्धिजलाबलानिपर्याकुलानि वडवाग्निमिवाविशन्ति ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वा० उ० वि० चतुर्दिग्गतबलद्रवणं नामैकादशाधिकशततमः सर्गः ॥१११॥ N/A References : N/A Last Updated : October 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP