संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १२५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १२५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।वर्षे शान्तभयाभिख्ये जलधारे गिरौ तरौ ।तादृक्कर्तरिपानीयं शाकद्वीपे पिबन् स्थितः ॥१॥पूर्वोऽथ वर्षसप्तत्या पाश्चात्येनैत्य मोक्षितः ।विद्यया क्रकचेनेव छित्त्वा वृक्षत्वमक्षतः ॥२॥पाश्चात्यः शिशिरे वर्षे पाषाणत्वमुपागतः ।मोचितो दक्षिणेनाशु गोमांसादिप्रयोगतः ॥३॥शिवेऽस्ताचलपारस्थे वर्षे वर्षेण पश्चिमः ।मोचितो दक्षिणेनैत्य गोपिशाच्या वृषीकृतः ॥४॥अत्रैव क्षेमके वर्षे आम्बिकेयगिरौ तरौ ।दक्षिणो यक्षतां यातो मोक्षं यक्षेण लब्धवान् ॥५॥अत्रैव वृषके वर्षे शैले केसरनामनि ।केसरित्वं गतः पूर्वः पाश्चात्येनैव मोचितः ॥६॥श्रीराम उवाच ।एकदेशगता विष्वग्व्याप्य कर्माणि कुर्वते ।योगिनस्त्रिषु कालेषु सर्वाणि भगवन्कथम् ॥७॥श्रीवसिष्ठ उवाच ।इह रामाप्रबुद्धानां यदस्त्यस्त्वलमेव नः ।तेन यत्तु प्रबुद्धानां तदिदं श्रृणु कथ्यते ॥८॥चिन्मात्रसत्तासामान्यादृतेऽन्यन्नात्म तद्विदाम् ।दृश्यात्यन्ताभावबोधे सर्गासर्गदृशोः क्षये ॥९॥चिन्मात्रसत्तासामान्ये विश्रान्तस्य निरन्तरम् ।सर्वेशस्येह सर्वत्वं सर्वात्मत्वं च सर्वदा ॥१०॥वद केन कथं कुत्र कदा किमिव रोध्यते ।सर्वगस्त्वथ सर्वात्मा यत्र भाति यदा यथा ॥११॥तथा भाति तदा तत्र सर्वात्मनि किमस्ति नो ।अतीतं वर्तमानं च भविष्यत्स्थूलमप्यणु ॥१२॥तथा दूरमदूरं च निमेषः कल्प एव च ।स्वरूपमजहत्येव सामान्ये तानि सर्वदा ॥१३॥सर्वात्मनि स्थितान्येव पश्य मायाविजृम्भितम् ।अजातमनिरुद्धं च यथास्थितमवस्थितम् ॥१४॥विज्ञानघनमेवेदमत एव जगत्त्रयम् ।नभस्त्वमत्यजंश्चैव सर्वात्मैव नभः स्थितम् ॥१५॥जगदात्मा जगद्रूपं द्रष्टृदृश्यतयोदितम् ।विश्वात्मदृग्वपुर्यत्स्यात्तत्किं केन कथं कदा ॥१६॥दुःसाध्यं ब्रूहि तत्त्वज्ञ साध्यासाध्यस्वरूपिणः ।तस्मादस्याः सदैकस्या विपश्चिद्राजसंविदः ॥१७॥प्रबोधमनुगच्छन्त्या अप्राप्तायाः परं पदम् ।एकस्या अप्यनेकस्याः सर्वं सर्वत्र युज्यते ॥१८॥बोधाबोधात्मरूपे हि किं नामास्ति परात्मनि ।अप्राप्तायाः परं बोधं पदार्थाकुलतोचिता ॥१९॥किंचिद्बोधं प्रविष्टायाः सिद्धताप्युचितैव सा ।एवं ते सर्वदिक्संस्थाः सर्वमेव परस्परम् ॥२०॥पश्यन्त्यनुभवन्त्याशु चिकित्सन्ते च संकटम् ।बोधाकाशः स्वकाद्रूपादीषच्च्युत इवाशु चेत् ॥२१॥तदन्यतामिवादत्ते सुस्थितोऽपि यथास्थितम् ।श्रीराम उवाच ।विपश्चितः प्रबुद्धाश्चेत्कथं सिंहवृषादिताम् ॥२२॥दिक्षु यान्तीति मे ब्रह्मन्बोधाय कथयाश्वलम् ।श्रीवसिष्ठ उवाच ।प्रबुद्धाः कथिता ये ते योगिनस्ते मयानघ ॥२३॥प्रसङ्गरूपान्तरतो न प्रबुद्धा विपश्चितः ।विपश्चितो महाबाहो प्रबुद्धा निपुणं न ते ॥२४॥बोधाबोधदृशोर्मध्ये ते हि दोलायिताः स्थिताः ।मोक्षचिह्नानि दृश्यन्ते बन्धचिह्नानि चाभितः ॥२५॥नित्यधर्मप्रबुद्धानां तथाभूततया तया ।विपश्चितो धारणया योगिनो न परं गताः ॥२६॥धारणायोगिनस्ते हि धारणाप्राप्तसिद्धयः ।ये परं बोधमायाता येष्वविद्या न विद्यते ॥२७॥किमविद्यामवेक्षन्ते ते तामरसलोचन ।धारणायोगिनो ह्येते वरेण प्राप्तसिद्धयः ॥२८॥अविद्या विद्यते तेषां तेन तेऽतद्विचारिणः ।अन्यच्च श्रृणु हे राम जीवन्मुक्तशरीरिणाम् ॥२९॥भवेद्व्यवहृतावेव पदार्थान्तरवेदनम् ।मोक्षोऽपि चेतसो धर्मश्चेतस्येव स तिष्ठति ॥३०॥न देहे देहधर्मस्तु न देहाद्विनिवर्तते ।न कदाचन निर्मुक्तं चेतो भूयो निबध्यते ॥३१॥यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् ।देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि ॥३२॥गृह्यते तद्गतं तेषां चेतस्त्वचलमेव तत् ।मोक्षो हि न परज्ञेयो धारणादिप्रयोगवत् ॥३३॥आत्मसंवेद्य एवासौ मध्वाद्यास्वादसौख्यवत् ।सुखदुःखैर्युतोयोऽसौ स्वयं बन्धानुभूतिमान् ॥३४॥तन्मुक्तौ मुक्त इत्युक्तः स्वानुभूतिप्रदस्त्वसौ ।अन्तःशीतलचित्तो हि मुक्त इत्यभिधीयते ॥३५॥बन्धः संतप्तचित्तेति देहादेस्तन्न दृश्यते ।शरीरे कणशः कृत्ते राज्ये वा विनियोजिते ॥३६॥रुदतो हसतश्चैव जीवन्मुक्तमतेरिह ।न दुःखं न सुखं किंचिदन्तर्भवति तत्स्थितम् ॥३७॥गृह्णतोऽप्यनुभूतिस्तु तत्रैवैषास्ति नापरे ।दृश्यन्ते पण्डिता भग्ना रूपान्तरमुपागताः ॥३८॥देहादिजीवन्मुक्तानां स्वभावान्न कदाचन ।मृतोऽपि नैव म्रियते रुदन्नपि न रोदिति ॥३९॥विहसन्न हसत्येव जीवन्मुक्तो महोदयः ।वीतरागाः सरागाभा अकोपाः कोपसंयुताः ॥४०॥अमोहा मोहवलिता दृश्यन्ते तत्त्वदर्शिनः ।इदं सुखमिदं दुःखमित्यादिकलनास्तु ताः ॥४१॥अलं दूरगतास्तेषामङ्कुरा नभसो यथा ।जगदात्मा च नास्त्येव यस्यैकं सर्वमस्ति च ॥४२॥सुखदुःखादि तस्येति वाग्व्योमविटपोपमा ।अशोका एव शोचन्ते जीवन्मुक्ता जयान्विताः ॥४३॥अच्छिन्ना एकतद्भावा दृश्यन्ते तत्त्वदर्शिनः ।शिरः कमलजस्योच्चैः सामगायनतत्परम् ॥४४॥हरो नखेन चिच्छेद सुकुमारमिवाम्बुजम् ।शक्तोऽपि न पुनर्ब्रह्मा जनयामास तच्छिरः ॥४५॥व्योमैकतास्य चिद्व्योम्नो मुधा मूर्ध्नेतरेण किम् ।नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥४६॥यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ।हरो हरिणशावाक्षीमक्षीणशरतोऽश्रु च ।धत्ते वपुषि दुग्धाब्धिर्गुप्तामृतकलामिव ॥४७॥शक्तोऽपि रागितामेष न त्यजत्युत्तमाशयः ।पञ्चेषुदाहसमये दृष्टा नीरागतागुणाः ॥४८॥नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥४९॥रागितैषास्तु मा वास्य किमरागितयान्यया ।यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ॥५०॥करोति कारयत्युच्चैर्म्रियते मार्यतेऽपि च ।जायते वर्धतेऽजस्रं जीवन्मुक्तो जनार्दनः ॥५१॥न चाजवं जवीभावं त्यक्तुं शक्तोऽप्यसौ न तम् ।तेन त्यक्तेन नैवार्थस्तस्य नैवाश्रितेन च ॥५२॥तद्यथास्थितमेवास्तु इह इत्यस्तवासनम् ।हरिर्निरिच्छ एवास्ते शुद्धचिन्मात्ररूपभृत् ॥५३॥आत्मानमान्दोलयति कालकन्दुकतां गतम् ।अजस्रं नित्यमादित्यो जगद्गृहनभोङ्गणे ॥५४॥न च रोधयितुं देहं न समर्थो दिनेश्वरः ।निरिच्छ एव निर्वाणस्तथाप्यास्ते यथास्थितम् ॥५५॥चन्द्रोऽनुभवति व्यर्थमाकल्पं क्षयमक्षयम् ।जीवन्मुक्ततया खिन्नो यथास्थितमवस्थितः ॥५६॥मरुत्तहव्यगौरीशवीर्यग्रासादिखेदिताम् ।जीवन्मुक्तो वहत्यग्निर्यथा स्थित्या समस्थितिः ॥५७॥बह्वीभिर्विजिगीषाभिः कृपणाविव तिष्ठतः ।जीवन्मुक्तावपि गुरू लोके शुक्रबृहस्पती ॥५८॥करोति जनको राज्यं जीवन्मुक्तमना मुनिः ।जगत्यामाजिषूग्रासु देहं जर्जरतां नयन् ॥५९॥नलमान्धातृसगरदिलीपनहुषादयः ।जीवन्मुक्ताश्चिरं राज्यं चक्रुराकुलिता इव ॥६०॥व्यवहारे यथैवाज्ञस्तथैव खलु पण्डितः ।वासनावासने एव कारणं बन्धमोक्षयोः ॥६१॥बलिप्रह्लादनमुचिवृत्रान्धकमुरादयः ।जीवन्मुक्ताः स्थितिं चक्रुर्वीतरागाः सरागवत् ॥६२॥ तस्मादसत्त्वे सत्त्वे च रागद्वेषक्षयोदये ।न मनागपि भेदोऽस्ति ज्ञखं प्रति स्वरूपिणि ॥६३॥ज्ञानेनाकाशशुद्धेन धर्मान्ये गगनोपमान् ।विन्दन्ति जीवन्मुक्तानां तेषां भेदमतिः कुतः ॥६४॥भास्वरं शक्रकोदण्डं यथा नानेव शून्यकम् ।आभासमात्रमेवायं तथा दृश्यात्मको भ्रमः ॥६५॥शक्रचापे यथा भान्ति नानावर्णा नभोङ्गणे ।तथा शून्यात्मका एव ब्रह्माण्डपरमाणवः ॥६६॥इदं जगदसद्भाति सदिव व्यक्तिमागतम् ।अजातमनिरुद्धं च यथा शून्यत्वमम्बरे ॥६७॥साद्यन्तमप्यनाद्यन्तमशून्यमपि शून्यकम् ।जगज्जातं तथाऽजातमरुद्धं रुद्धमेव च ॥६८॥जातं निरुद्धमस्त्येवं ब्रह्म व्योमैव भासते ।यथा दारुमयः स्तम्भस्तथा तच्छालभञ्जिका ॥६९॥समस्तकलनोन्मुक्तं समं निर्निद्रमासनम् ।यदेकान्तचिदाकाशं तद्विद्यात्तन्मयं जगत् ॥७०॥देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।अनुन्मेषं चिदाकाशं तद्विद्यात्तन्मयं जगत् ॥७१॥तत्र यद्द्वैतमैक्यं तन्मन्ये तदपि नैव च ।तद्व्योम केवलं भाति मन्ये तदपि नैव वा ॥७२॥जगदाकाशमेवेदमात्मैवात्मनि वा स्थितम् ।भविष्यत्पुरवद्दृष्टमपि स्फारमपि स्फुटम् ॥७३॥आकाशकोशविशदाशय दृश्यजातंमौनात्म तिष्ठति शिलाघनमेव शान्तम् ।यन्नाम तस्य जगदित्यभिधां विधायस्वात्मैव मोहित इवायमहो नु माया ॥७४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० जीवन्मुक्तकलनं नाम पञ्चविंशाधिकशततमः सर्गः ॥१२५॥ N/A References : N/A Last Updated : October 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP