संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १४४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १४४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४४ Translation - भाषांतर मुनिरुवाच ।सर्वथाभावभावेषु स्वप्नसंवेदनात्मसु ।नित्याप्रतिघरूपेषु किं बद्धं किं विमुच्यते ॥१॥खे दृष्टिभासां स्फुरणं यादृशं तादृशं जगत् ।विपर्यस्यत्यविरतमबोधाल्लक्ष्यते स्थिरम् ॥२॥यद्यथा पुरसंस्थानं चिरैरेति तदन्यताम् ।जगदप्येवमनिशं वार्यावर्तविवर्तवत् ॥३॥भूम्यम्ब्वम्बरशैलादि भवत्यसदिदं क्षणात् ।तस्मिन्नेव क्षणोदन्तैर्युगकल्पाभिधाः कृताः ॥४॥जगत्स्वप्न इवाशेषमसदप्यनुभूयते ।यन्नास्ति चेत्तन्निःशेषं चिदेवेत्थं कचत्यलम् ॥५॥यथेदं नो जगत्तद्वच्छतानां खे शतानि हि ।नृणां पश्यन्तु तेषां तु नान्योन्यमनुभूतयः ॥६॥सरोब्धिकूपमेकानां दृष्टाः प्रत्येकमास्पदे ।न तेऽन्योन्यं विदन्त्यन्यां दृश्यादिनियतिं क्वचित् ॥७॥यथा जनशतस्वप्ननगराण्येकमन्दिरे ।तथा जगन्ति खे भान्तिखानि नो सन्त्यसन्ति नो ॥८॥कचन्ति नृशतस्वाप्नपुराण्येकगृहे यथा ।न च नाम कचन्त्येवं सन्त्यसन्ति जगन्ति खे ॥९॥चिच्चमत्कारमात्रं स्वं स्वात्माङ्गं दृश्यमद्वयम् ।सरूपमेव नीरूपं सकारणमकारणम् ॥१०॥दधत्याश्चित्स्वभावायाः संस्काराद्यभिधाः कृताः ।प्रतिमायाः प्रभाविन्या न संस्कारादयः पृथक् ॥११॥अपूर्वत्वात्स्मृतिः स्वप्नः संकल्पार्थानुभूतिषु ।स्वमृत्यनुभवाद्यास्तु दृष्टार्थसदृशीषु च ॥१२॥इदं सर्गात्म सर्गादौ प्रतिमेव विजृम्भते ।चिद्भामात्रात्मिका स्वच्छा नान्यन्नामोपपद्यते ॥१३॥ब्रह्मैव भाति जगदित्युक्तमुक्त्यानया भवेत् ।न च भातं नवं तच्च ब्रह्मैवेदमतः स्थितम् ॥१४॥कारणं कार्यमित्युक्तः स पूर्वः स विशिष्यते ।संस्कार इति तेनैष संस्कारः कृतिरुच्यते ॥१५॥तत्स्वप्नादावपूर्वोऽर्थो दृष्टान्त इति भाति यः ।ससंस्कारादिनामोक्तो न बाह्योऽर्थोस्ति चेतसि॥१६॥वस्तु दृष्टं न दृष्टं च सच्चास्ते चेतनेव खे ।स्वभावाद्भाति स्वात्मापि दृष्टवच्चातिजृम्भते ॥१७॥वेदान्तार्थात्मकं पूर्वसर्गाभावं प्रवर्तते ।ततो वेद्यव्यवस्था ज्ञैः क्रियते स्वार्थसिद्धये ॥१८॥स्वप्ने तु जाग्रत्संस्कारो यस्तज्जाग्रत्कृतं नवम् ।अजाग्रज्जाग्रदाभासं कृतमित्येव तद्विदः ॥१९॥ततो वायाविवास्पन्दाश्चित्ते भावाः स्थिताः स्वतः ।ते स्वतः संप्रवर्तन्ते कात्र संस्कारकर्तृता ॥२०॥एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।पुनर्लक्षाद्यतः स्वप्न एकमास्ते सुषुप्तकम् ॥२१॥चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन् ॥२२॥एकमेव चिदाकाशं साकारत्वमनेककम् ।स्वरूपमजहद्धत्ते यत्स्वप्न इव तज्जगत् ॥२३॥एवं चित्परमाण्वन्तर्जगद्भावमिदं स्थितम् ।तदनन्यात्म चाभोगि स्वप्नादर्शतलेष्विव ॥२४॥चिद्व्योम संविन्मात्रं यत्परमाणुवदाततम् ।अनादिमध्यपर्यन्तं तदेव जगदुच्यते ॥२५॥तस्माद्यत्र चिदाकाशमनन्तं सततं स्थितम् ।तत्रास्तीति जगद्भानं तदङ्गानन्यरूपि यत् ॥२६॥चिन्मात्र एव भुवनं त्वमहं चिन्मयं जगत् ।इति न्यायाज्जगद्याति परमाणूदरेऽप्यजम् ॥२७॥तस्मादहं पराण्वात्मा समस्तजगदाकृतिः ।सर्वत्रैव च तिष्ठामि परमाणूदरेऽपि च ॥२८॥चिन्मात्रपरमाणुः सञ्जगदात्माप्ययं नभः ।यत्र तिष्ठाम्यहं तत्र पश्यामि भुवनत्रयम् ॥२९॥अहं चित्परमाण्वात्मा तेन चित्परमाणुना ।एकतामागतो वारि वारिणेव तदीक्षणात् ॥३०॥तदोजः संप्रविश्याहं स्थितस्तदनुभूतिवत् ।अन्तस्थत्रिजगद्रूपो यथाब्जे बीजमङ्कुरे ॥३१॥तत्र मे त्रिजगद्रूपमन्तः कचितमात्मनि ।तथा तन्न तु तद्वाह्ये विद्यते केनचित्क्वचित् ॥३२॥यत्र यत्र यदा भाति स्वप्ने जाग्रदितीह वा ।सबाह्याभ्यन्तरं दृश्यं निजं चिद्भानमेव तत् ॥३३॥भाति स्वप्ने यदा जन्तोर्जगदानन्दमाततम् ।चिदणोरेव तद्भानमात्मनस्तत्पदात्मना ॥३४॥व्याध उवाच ।अकारणं चेद्दृश्यं तत्कथमेतत्प्रसिध्यति ।सकारणं चेद्दृश्यं तत्स्वप्ने सर्गादिधीः कुतः ॥३५॥मुनिरुवाच ।अकारणक एवायं सर्ग आदौ प्रवर्तते ।समस्तकारणाभावाद्यतः सर्गात्मचिन्नभः ॥३३॥अकारणानां भावानामत्यन्तासंभवादिह ।क्वचित्सप्रतिघः सर्गो न संभवति कश्चन ॥३७॥ब्रह्मेदमित्थमाभाति भास्वरं चित्स्वभावतः ।सर्गादिशब्दपर्यायमाद्यन्तपरिवर्जितम् ॥३८॥इत्यकारणके सर्गे कचति ब्रह्मरूपिणि ।परस्यावथवाभासे नित्यात्मावयवात्मना ॥३९॥अनानात्वेऽपि नानात्वे ब्रह्मण्यब्रह्मरूपिणि ।अनाकारेऽपि साकारे कचत्यप्रतिघं प्रति ॥४०॥तद्ब्रह्मैव निराकारं चिद्रूपत्वात्स्फुरद्वपुः ।साकारमिव भातात्म भूत्वा स्थावरजंगमम् ॥४१॥देवर्षिमुनिभारूपं करोति नियतिं क्रमात् ।विधींश्च प्रतिषेधांश्च देशकालक्रियादिकान् ॥४२॥भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।अर्था व्यभिचरन्त्येते नियतिर्नाखिलास्ततः ॥४३॥ततः प्रभृति भावानां सकारणकतां विना ।सैकतादिव तैलानां न संभवति संभवः ॥४४॥नियतिर्नायकश्चैव ब्रह्मतश्चाङ्गमात्मना ।स्वाङ्गेन संयमयति करेणेव निजं करम् ॥४५॥अबुद्धिपूर्वं चानिच्छमेवमेव प्रवर्तते ।काकतालीयवत्स्पन्दादावर्ता इव वारिणि ॥४६॥संनिवेशो हि नियतिस्तां विना प्रतिघोदयम् ।ब्रह्म स्थातुं न शक्नोति तच्च सर्वात्मताक्षयम् ॥४७॥एवं सकारणं सर्वं सर्वदा दृश्यमण्डलम् ।यस्य सर्गे यतः कालात्ततः प्रभृति तं प्रति ॥४८॥भात्यकारणकं ब्रह्म सर्गात्माप्यबुधं प्रति ।तं प्रत्येव च भात्येष कार्येकारणदृग्भ्रमः ॥४९॥काकतालीयवत्सर्गे स्थिते त्वावृत्तिवृत्तिवत् ।इदमित्थमिदं नेत्थमितीयं नियतिः स्थिता ॥५०॥सकारणत्वं भावानामवश्यंभाविनि क्रमे ।जाग्रत्स्वप्नदृशो नेह संभवन्त्यपकारणाः ॥५१॥यथा स्वप्नेऽखिलामम्बुसंक्षोभात्प्रलयभ्रमाः ।दृश्यते कारणं तत्र श्रूयतामनुभूयताम् ॥५२॥सर्ववस्तुषु कचन्ति सर्वदायुक्तयः स्फटिकशुक्तयो यथा ।भावनानुभव एव स स्वयंशक्तिमाञ्जयति जीवितात्मकः ॥५३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० श० पदार्थविचारो नाम चतुश्चत्वारिंशदधिकशततमः सर्गः ॥१४४॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP