संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १४२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १४२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४२ Translation - भाषांतर मुनिरुवाच ।वर्तमाने तदा तस्मिन्कष्टे संभ्रान्तसंभ्रमे ।उह्यमानोऽहमत्यन्तं खेदमभ्यागतोऽभवम् ॥१॥अचिन्तयं तत्स्वप्नोऽयं परस्य हृदये मम ।तदतः परिनिर्वामि दुःखं पश्यामि किं मुधा ॥२॥व्याध उवाच ।किंस्वित्स्यात्स्वप्न इत्येव किल संदेहशान्तये ।प्रविष्टो हृदयं तस्य किं तं निर्णीतवानसि ॥३॥किमेतद्भवतां दृष्टं हृदये क्व महार्णवः ।जठरे कल्पवातः किं हृदि कल्पानलः कथम् ॥४॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।कथं हृदि जगन्नाम कथयेति यथास्थितम् ॥५॥मुनिरुवाच ।अकारणत्वात्सर्गादावेवानुत्पादतः स्फुटात् ।अज्ञातौ सर्गशब्दार्थावेव न स्तो मनागपि ॥६॥तच्चैतौ सर्वशब्दार्थौ त्वज्ञातौ परमात्मनि ।यतस्तत्पदमज्ञानज्ञानात्मकमनामयम् ॥७॥अतः सुभग सिद्धान्ते त्वत्पक्षे बोधमागते ।मौर्ख्यशान्तावनाद्यन्ते पदे परमपावने ॥८॥वच्मीदं मूढसंवित्तौ यदिद तन्न वेद्म्यहम् ।वस्त्ववस्तुजमाभातं बोधमात्रमिदं ततम् ॥९॥क्व शरीरं क्व हृदयं क्व स्वप्नः क्व जलादि च ।क्व बोधो बोधविच्छित्तिः क्व जन्ममरणादि च ॥१०॥स्वच्छं चिन्मात्रमस्तीह तन्नाम यदपेक्षया ।स्थूलमेव खमप्यद्रिरणूनां निकटे यथा ॥११॥स्वभावात्स चिदाकाशः किंचिच्चेतति चिन्तया ।खमेव वपुराकाशं यत्तद्वेत्ति जगत्तया ॥१२॥यथा स्वप्ने पुरतया चिदेवाभाति केवला ।न तु किंचित्पुराद्येवं जगच्चिन्मात्रमेव खे ॥१३॥इदं शान्तमनाभातमनन्यन्नैतदात्मनि ।चिति दृशौ तमसि खे चक्रकादीव भाति ते ॥१४॥अस्माकं तु न चाभानं न चासन्न च सन्न खम् ।अनाकारमनाद्यन्तमेकं चिद्व्योम केवलम् ॥१५॥भात्यकारणकं स्वप्ने शुद्धौ द्रष्टैव केवलः ।तेनात्र कारणाभावो न द्रष्टास्ति न दर्शनम् ॥१६॥शुद्धं किमपि तद्भाति स्वानुभूतमपि स्फुटम् ।यदवाच्यमनाद्यन्तमेकं द्वैतैक्यवर्जितम् ॥१७॥एकः कालो यथा कल्पः प्रकाशश्चोभयात्मकः ।बीजं वा फलपुष्पान्तं ब्रह्म सर्वात्मकं तथा ॥१८॥यदन्यस्य महत्कुड्य तदन्यस्यामलं नभः ।दृष्टमेतत्स्थिरस्वप्नसंकल्पभ्रमभूमिषु ॥१९॥स्वच्छं तदा तदात्मैकं भाति चिन्मात्र खं यथा ।स्वप्ने जागृतिवत्तद्वज्जाग्रत्स्वप्नेऽपि नान्यथा ॥२०॥अदृश्ये पवने यद्वददृश्यं सौरभं स्थितम् ।चिन्मात्रेऽप्रतिघे तद्वज्जगदप्रतिघं स्थितम् ॥२१॥समस्तमननत्यागे योऽसि सोऽसि निरामयः ।बहिरन्तरनन्तात्मा सुस्थितोऽपि निरन्तरम् ॥२२॥व्याध उवाच ।भगवन्प्राक्तनं कर्म केषामिह हि विद्यते ।केषां न विद्यते तद्वद्विनापि भवतः कथम् ॥२३॥मुनिरुवाच ।सर्गादिषु स्वयं भान्ति ब्रह्माद्या ये स्वयंभुवः ।विज्ञप्तिमात्रदेहास्ते न तेषां जन्मकर्मणी ॥२४॥तेषामस्ति न संसारो न द्वैतं न च कल्पनाः ।विशुद्धज्ञानदेहास्ते सर्वात्मानः सदा स्थिताः ॥२५॥सर्गादौ प्राक्तनं कर्म विद्यते नेह कस्यचित् ।सर्गादौ सर्गरूपेण ब्रह्मैवेत्थं विजृम्भते ॥२६॥यथा ब्रह्मादयो भान्ति सर्गादौ ब्रह्मरूपिणः ।भान्ति जीवास्तथान्येऽपि शतशोऽथ सहस्रशः॥९७॥किंतु ये ब्रह्मणोऽन्यत्वं बुध्यन्ते सात्त्विकोद्भवाः ।अबोधा ये त्वचिदाख्यं बुद्ध्वा द्वैतमिदं स्वयम् ॥२८॥तेषामुत्तरकालं तत्कर्मभिर्जन्म दृश्यते ।स्वयमेव तथा भूतैस्तैरवस्तुत्वमाश्रितम् ॥२९॥यैस्तु न ब्रह्मणोऽन्यत्वं बुद्धं बोधमहात्मनि ।निरवद्यास्त एतेऽत्र ब्रह्मविष्णुहरादयः ॥३०॥सर्वात्म संविदोऽच्छत्वं ब्रह्मात्मन्येव संस्थितम् ।तत्क्वचिज्जीववद्भानं स्वयमात्मनि पश्यति ॥३१॥यत्र वेत्ति तु जीवत्वं तत्राविद्येति तिष्ठति ।तत्र संसृतिनाम्नात्मा धत्ते रूपं तथास्थितम् ॥३२॥स्वयमेव हि कालेन बुद्ध्वा स्वं रूपमात्मनः ।स्वयमेव स्वरूपस्थं ब्रह्मैव भवति स्वयम् ॥३३॥यथा द्रवत्वादम्ब्वन्तरेति चावर्ततामिव ।ब्रह्म चित्त्वात्तथैतीव सर्गतामस्य सर्गकम् ॥३४॥ब्रह्मभानमयं सर्गो न स्वप्नो न च जागरः ।कस्य कान्यत्र कर्माणि कीदृशानि कियन्ति वा॥३५॥वस्तुतः कर्म नास्त्येव नाविद्यास्ति न सर्गधीः ।स्वसंवेदनतः सर्वमसदेव प्रवर्तते ॥३६॥ब्रह्मैव सर्गो भूतात्मा कर्म जन्मेति कल्पनाः ।स्वयं कुर्वदिदं भाति विभुत्वात्कल्पितार्थभाक् ॥३७॥न संभवति जीवस्य सर्गादौ कर्म कस्यचित् ।पश्चात्स्वकर्म निर्माय भुङ्क्ते कल्पनया स चित् ॥३८॥जलावर्तस्य को देहः कानि कर्माणि चोच्यताम् ।यथाम्बुमात्रमावर्तो ब्रह्ममात्रं तथा जगत् ॥३९॥यथा स्वप्नेषु दृष्टानां न प्राक्कर्म नृणां भवेत् ।आदिसर्गेषु जीवानां तथा चिन्मात्ररूपिणाम् ॥४०॥सर्गे सर्गतया रूढे भवेत्प्राक्कर्मकल्पना ।पश्चाज्जीवा भ्रमन्तीमे कर्मपाशवशीकृताः ॥४१॥सर्ग एव न सर्गोऽयं ब्रह्मेत्थं किल तिष्ठति ।यत्र तत्र क्व कर्माणि कानि वा कस्य तानि वा ॥४२॥अपरिज्ञानमात्रं यत्स्वयं वै परमात्मनः ।तदेतत्कर्म बन्धाय तत्तज्ज्ञस्योपशाम्यति ॥४३॥यावद्यावत्परिज्ञानं पण्डितस्य प्रवर्तते ।तावत्तावत्तदैवास्य कर्म शाम्यति बन्धनम् ॥४४॥यन्नाम किल नास्त्येव तच्छान्तौ का कदर्थना ।परमार्थादृते बन्धः किंचिन्नाम न विद्यते ॥४५॥तावन्माया भवभयकरी पण्डितत्वं न याव-त्तत्पाण्डित्यं पतसि न पुनर्येन संसारचक्रे ।यत्नं कुर्यादविरतमतः पण्डितत्वेऽमलात्म-ज्ञानोदारे भयमितरथा नैव वः शान्तिमेति ॥४६॥इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि- शवो- कर्मनिर्णयो नाम द्विचत्वारिंशदधिकशततमः सर्गः ॥१४२॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP