संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ११० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ११० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११० Translation - भाषांतर दशाधिकशततमः सर्गः ११०श्रीवसिष्ठ उवाच ।पुरोपकण्ठसंप्राप्तैश्चतुर्दिक्कं सहारिभिः ।एतस्मिन्नन्तरे तत्र प्रवृत्तं दारुणं रणम् ॥१॥लुण्ठितग्रामनगरं प्रजाकुलमहाकुलम् ।अग्निदाहज्वलद्देहं धूमाभ्रपटलावृतम् ॥२॥शरजालमहाधूमच्छन्नार्कविलसत्तमः ।क्षिप्रदृष्टरवि क्षिप्रमदृष्टरविमण्डलम् ॥३॥अग्निदाहमहातापप्रतपत्पर्णकाननम् ।लोलालातलताशलमुसलोपलपूर्णखम् ॥४॥अनलप्रतिबिम्बौघैर्द्विगुणज्वलनायुधम् ।रणभग्नमहाशूरप्राप्तेन्द्रवनितासुधम् ॥५॥उद्दामवारणारावै रणलम्पटहर्षदम् ।भुशुण्डीमण्डलप्रासशूलतोमरवर्षदम् ॥६॥भटकोलाहलोल्लासहृद्भङ्गमृतपामरम् ।रजःपटलशुभ्राभ्रकृतद्युपथवारणम् ॥७॥मरणव्यग्रसामन्तमुक्तनादव्रजद्रजम् ।इतश्चेतश्च निपतद्वैद्युतोपहतप्रजम् ॥८॥अग्निदग्धपतद्गेहप्रोज्झिताग्निमयाम्बुदम् ।मरणाह्लाददासंख्यशरधारामयाम्बुदम् ॥९॥जितसागरकल्लोलं तुरङ्गमतरङ्गकैः ।दन्तिदन्तविनिष्पेषतारक्रेंकारकर्कशम् ॥१०॥कोटकोटिकुटीकुड्यकण्टकोद्भटसद्भटम् ।चठत्कुण्ठितकोटाट्टकृटाटननटच्छटम् ॥११॥लुठत्पटनकुट्टाकसाटोपस्फुटपट्टिशम् ।खे वटत्केतुपट्टाट्टपटत्पटपटारवम् ॥१२॥दन्तिदन्तगुणोद्गीर्णैर्हेतिपाषाणघर्षणैः ।तारक्रेंकारहुंकारैराहूतसुरवारणम् ॥१३॥वहच्छरनदीपूरपूर्णाम्बरमहार्णवम् ।विचलच्चक्रकुन्तासिधारामकरकर्कशम् ॥१४॥उन्नादयोधसंघट्टकंकटोत्कटटांकृतैः ।लसज्झणझणारावैर्घटितद्वीपमण्डलम् ॥१५॥पादपातपरापिष्टशरसंजातकर्दमम् ।वहद्रक्तनदीरंहःप्रोह्यमाणरथद्विपम् ॥१६॥सुपर्णहेलानिपतत्प्रोत्पतत्पट्टपट्टिशम् ।शरवारितरङ्गार्तभग्नायुधजलेचरम् ॥१७॥हेतिसंघट्टनिष्क्रान्तज्वालाप्रज्वलिताम्बरम् ।वलीपलितनिर्मुक्तशूराक्रान्तत्रिविष्टपम् ॥१८॥पाण्डुपांसुपयोवाहकचच्चक्राचिरद्युति ।हेतिनिर्विवराकाशयुधानाधारभूतलम् ॥१९॥कटद्भटभटाटोपरटत्प्रतिभटोत्कटम् ।चटच्छकटसंघट्टपिष्टकाष्ठलुठद्रथम् ॥२०॥कबन्धभटवेतालमिश्रकण्टकसंकटम् ।वेतालभुज्यमानाग्र्यशवमांसहृदम्बुजम् ॥२१॥शूरशातितशीरार्धशिरःकरखुरोरुकम् ।कबन्धदोर्द्रुमस्पन्दवनीकृतनभस्तलम् ॥२२॥तरल्लोलास्यवेतालहासघट्टितपेटकम् ।कंकटोत्कटसाटोपभटभ्रुकुटिभीषणम् ॥२३॥एकान्तमारणैकान्तमरणैकान्तभूषणम् ।प्रहारदानग्रहणकार्पण्यापारदूषणम् ॥२४॥शूरवारणसामन्तमदवारिविशोषणम् ।मारणैकान्तरसिककृतान्तानन्दपोषणम् ॥२५॥अविकत्थनगुप्तानां शूराणां जयघोषणम् ।अशूराणां च गुप्तानां प्रभावुद्धोषणं परम् ॥२६॥शौर्यादीनां प्रसुप्तानां स्वगुणानां प्रबोधनम् ।धनमाधारभूतानां राष्ट्रेषु भुजशालिनाम् ॥२७॥दन्त्यारूढरथास्फोटप्रभग्नकटवारणम् ।समस्तमत्तगन्धेभदानवारिनिवारणम् ॥२८॥सारसारवसामन्तमुक्तमत्तमतङ्गजम् ।जरज्जितकरानीककल्पितासीकवेदनम् ॥२९॥दिनं दिनकरस्येव नृपस्य शरणं गतम् ।अनागतभटव्रातपिष्टार्धमृतमानवम् ॥३०॥मानवायुबलोन्मत्तनतप्रारब्धकुट्टनम् ।धनानां प्राणपण्यानां नवमापणपत्तनम् ॥३१॥पटनद्धपताकौघजातसंचारिदोर्द्रुमम् ।रक्तोज्ज्वलत्वात्त्रैलोक्यलक्ष्म्या भूषणविद्रुमम् ॥३२॥मन्दराहननोद्भूतक्षीरोदजलसुन्दरैः ।छत्रैश्छादितहेत्योघपुष्पाढ्यगगनाङ्गनम् ॥३३॥गणगीर्वाणगन्धर्वगीतशूराशयं कृतम् ।तद्भातरलतालाग्रहेतिहालाहलायुधम् ॥३४॥संघप्रहरणासंख्ययातुधानाझणज्झणम् ।भुक्त्वा चाद्रिगुहागेहपूरितापूर्वदुर्द्रुमम् ॥३५॥कचत्कुन्तवनव्यस्तशिरःकरवृताम्बरम् ।क्षेपणोन्मुक्तपाषाणपूरप्लुतककुब्लतम् ॥३६॥महाचटचटाशब्दस्फुटद्रववृहद्द्रुमम् ।नारीहलहलारावरणन्नगरमन्दिरम् ॥३७॥मन्दरावानलाकारनभोभातायुधव्रजम् ।परित्यज्य धनं गेहं दूरोर्वीविद्रुतप्रजम् ॥३८॥सर्वतोहेतिवहनात्समक्षप्रेक्षकोज्झितम् ।वर्जितं भीरुभिः पक्षिराजवृन्दमिवाहिभिः ॥३९॥दन्तिदन्तविनिष्पिष्टशिष्टसद्भटसंकटम् ।कटे मृत्योरिव नरद्राक्षापीडनयन्त्रके ॥४०॥यन्त्रपाषाणसंघट्टपिष्टाम्बरगतायुधम् ।योधनादनदद्दन्तिवृन्दबन्धुरकन्दरम् ॥४१॥धराधरदरीरन्तःप्रतिश्रुत्प्रोतगर्जितम् ।अर्जितं प्राणसर्वस्वमर्जयद्भिरुपार्जितम् ॥४२॥भर्जितं हेतिदहनैरग्निदाहैश्च संततैः ।तैरेवान्यैरथान्यैश्च द्वन्द्वयुद्धैरनिष्ठितम् ॥४३॥वेष्टितं मृतशिष्टैश्च सारैः सुभटपेटकैः ।कैलासैरिव संशुद्धैरीश्वराधारतां गतैः ॥४४॥तैरुदारैः समाक्रान्तं ये मृत्योरपि मृत्यवः ।मरणं जीवितं येषां जीवितं मरणं रणे ॥४५॥रणे नभसि निर्लूनवरवारणवारिजे ।सारसाः सरसीवात्र रेजुरत्युद्भटा भटाः ॥४६॥यन्त्राश्मक्षेपणानां प्रसरणसरितांघूकृतैः फूत्कृतैर्द्राक्क्रान्तानां व्योम्नि मूर्ध्नां शरसलिलमुचांसैनिकानां च नादैः ।टांकारैरायुधानां नभसि विसरता-मश्वचक्रेभशब्दै-रासीन्निःसंधिबन्धोपलजठरजडंजीर्णकर्णं गतं तत् ॥४७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० अविद्यो० विप० संग्रामवर्णनं नाम दशाधिकशततमः सर्गः ॥११०॥ N/A References : N/A Last Updated : October 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP