संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८३ Translation - भाषांतर कुन्ददन्त उवाच ।ततः पृष्टो मया तत्र स गौर्याश्रमतापसः ।तापसंशुष्कदर्भाग्रजराजर्जरमूर्धजः ॥१॥एकैव सप्तद्वीपास्ति वसुधा यत्र तत्र ते ।सप्तद्वीपेश्वरा अष्टौ भवन्ति कथमुत्तमाः ॥२॥यस्य जीवस्य सदनान्नास्ति निर्गमनं बहिः ।स करोति कथं सप्तद्वीपेशत्वेन दिग्जयम् ॥३॥यैर्वरा वरदैर्दत्ताः शापस्ते तद्विरुद्धताम् ।कथं गच्छन्ति गच्छन्ति कथं छाया हि तापताम् ॥४॥मिथोऽशक्यां कथं धर्मौ स्थितिमेकत्र गच्छतः ।आधार एवाधेयत्वं करोति कथमात्मनि ॥५॥गौर्याश्रमतापस उवाच ।संपश्यसि किमेतेषां भो साधो शृण्वनन्तरम् ।अष्टमेऽस्मिन्सुसंप्राप्ते तं प्रदेशं सबान्धवम् ॥६॥इतो भवन्तौ तं देशमासाद्य सुखसंस्थितौ ।स्वबन्धुसुखसंस्थानौ कंचित्कालं भविष्यतः ॥७॥ततस्तेऽष्टौ मरिष्यन्ति भ्रातरः क्रमशो गृहे ।बन्धवोऽथ करिष्यन्ति तेषां देहांस्तदग्निसात् ॥८॥तेषां ते संविदाकाशाः पृथक्पृथगवस्थिताः ।मुहूर्तमात्रं स्थास्यन्ति सुषुप्तस्था जडा इव ॥९॥एतस्मिन्नन्तरे तेषां तानि कर्माणि धर्मतः ।एकत्र संघटिष्यन्ति वरशापात्मकानि खे ॥१०॥कर्माणि तान्यधिष्ठातृदेवरूपाणि पेटकम् ।वरशापशरीराणि करिष्यन्ति पृथक् पृथक् ॥११॥वरास्तेऽत्र गमिष्यन्ति सुभगाः पद्मपाणयः ।ब्रह्मदण्डायुधाश्चन्द्रधवलाङ्गाश्चतुर्भुजाः ॥१२॥शापास्तत्र भविष्यन्ति त्रिनेत्राः शूलपाणयः ।भीषणाः कृष्णमेघाभा द्विभुजा भ्रुकुटीमुखाः ॥१३॥वरा वदिष्यन्ति ।सुदूरं गम्यतां शापाः कालोऽस्माकमुपागतः ।क्रतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥१४॥शापा वदिष्यन्ति ।गम्यतां हे वरा दूरं कालोऽस्माकमुपागतः ।क्रतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥१५॥वरा वदिष्यन्ति ।कृता भवन्तो मुनिना वयं दिनकृता कृताः ।मुनीनां चाधिको देवो भगवन्तं पुरा यतः ॥१५॥प्रवदत्सु वरेष्वेवं शापाः कुद्धधियो वरान् ।विवस्वता कृता यूयं वयं रुद्रांशतः कृताः ॥१७॥देवानामधिको रुद्रो रुद्रांशप्रभवो मुनिः ।इत्युक्त्वा प्रोद्यता तेषां चक्रुः शृङ्गाण्यगा इव ॥१८॥शापेषूद्यतशृङ्गेषु वरा इदमरातिषु ।विहसन्तः प्रवक्ष्यन्ति प्रमेयीकृतनिश्चयम् ॥१९॥हे शापाः पापतां त्यक्त्वा कार्यस्यान्तो विचार्यताम् ।यत्कार्यं कलहस्यान्ते तदेवादौ विचार्यताम्॥पितामहपुरीं गत्वा कलहान्ते विनिर्णयः ।कर्तव्योऽस्माभिरेतत्किमादौ नेह विधीयते ॥२१॥शापैर्वरोक्तमाकर्ण्य बाढमित्युररीकृतम् ।को न गृह्णाति मूऽढोऽपि वाक्यं युक्तिसमन्वितम् ॥२२॥ततः शापा वरैः सार्ध यास्यन्ति ब्रह्मणः पुरम् ।महानुभावा हि गतिः सदा संदेहनाशने ॥२३॥प्रणामपूर्वं तत्सर्वं यथावृत्तं परस्परम् ।ब्रह्मणे कथयिष्यन्ति श्रुत्वा तेषां स वक्ष्यति ॥२४॥ब्रह्मोवाच ।वरशापाधिपा भो भो येऽन्तःसारा जयन्ति ते॥केऽन्तःसारा इति मिथो नूनमन्विष्यतां स्वयम् ॥२५॥इति श्रुत्वा प्रविष्टास्ते सारतां समवेक्षितुम् ।वराणां हृदयं शापाः शापानां हृदयं वराः ॥२६॥ते परस्परमन्विष्य स्वयं हृदयसारताम् ।ज्ञात्वा च समवायेन प्रवक्ष्यन्ति पितामहम् ॥२७॥शापा वक्ष्यन्ति ।जिताः प्रजानाथ वयं नान्तःसारा वयं यतः ।अन्तःसारा वरा एव वज्रस्तम्भा इवाचलाः ॥२८॥वयं किलेमे भगवन्वराः शापाश्च सर्वदा ।ननु संविन्मया एव देहोऽन्योऽस्माकमस्ति नो ॥२९॥वरदस्य हि या संविद्वरो दत्त इति स्थिता ।सैवार्थिनि मया लब्धो वरोऽयमिति तिष्ठति ॥३०॥विज्ञप्तिमात्रकचनं देहं सैव फलं ततः ।पश्यत्यनुभवत्यत्ति देशकालशतभ्रमैः ॥३१॥वरदात्मा गृहीतत्वाच्चित्कालान्तरसंभृता ।यदा तदान्तःसारासौ दुर्जया न तु शापजा ॥३२॥वरप्रदानं वरदैर्वरदानां वरार्थिभिः ।यदा सुचिरमभ्यस्तं वराणां सारता तदा ॥३३॥यदेव सुचिरं संविदभ्यस्यति तदेव सा ।सारमेवाशु भवति भवत्याशु च तन्मयी ॥३४॥शुद्धानामतिशुद्धैव संविज्जयति संविदाम् ।अशुद्धानां त्वशुद्धैव कालात्साम्यं न विद्यते ॥३५॥क्षणांशेनापि यो ज्येष्ठो न्यायस्तेनावपूर्यते ।नार्थे न्यायान्तरं किंचित्कर्तुमुत्सहते मदम् ॥३६॥समेनोभयकोटिस्थं मिश्रं वस्तु भवेत्समम् ।वरशापविलासेन क्षीरमिश्रं यथा पयः ॥३७॥समाभ्यां वरशापाभ्यामथवा चिद्द्विरूपताम् ।स्वयमेवानुभवति स्वप्नेष्विव पुरात्मिका ॥३८॥शिक्षितं त्वत्त एवेति यत्तदेव तव प्रभो ।पुनः प्रतीपं पठितं शीघ्रं यामो नमोऽस्तु ते ॥३९॥इत्युक्त्वा स स्वयंशापः क्वापि शापगणो ययौ ।प्रशान्ते तिमिरे दृष्टे व्योम्नि केशोण्ड्रकं यथा ॥४०॥अथान्यो वरपूगोऽत्र गृहनिर्गमरोधकः ।स्थानिस्थानमिवादेशः समानार्थोऽभ्यपूरयत् ॥४१॥शापस्थानका वदिष्यन्ति ।सप्तद्वीपेशजीवानां निर्याणं शवसद्मनः ।देवेश विद्मो न वयमन्धकूपादिवाम्भसाम् ॥४२॥सप्तद्वीपेश्वरानेतानिमे द्वीपेषु सद्मसु ।कारयन्ति वरा वर्या वीरा दिग्विजयं रणे ॥४३॥तदेवमनिवार्येऽस्मिन्विरोधे विबुधेश्वर ।यदनुष्ठेयमस्माभिस्तदादिश शिवाय नः ॥४४॥ब्रह्मोवाच ।सप्तद्वीपेश्वरवरा गृहरोधवराश्च हे ।कामः संपन्न एवेह भवतां भवतामपि। ॥४५॥व्रजतैतदपेक्षत्वं यावन्नेष्टावपि क्षणात् ।चिरं चिराय सदने सप्तद्वीपेश्वराः स्थिताः ॥४६॥समनन्तरमेवैते देहपातात्स्वसद्मसु ।सप्तद्वीपेश्वराः सर्वे संपन्नाः परमं वराः ॥४७॥सर्वे वरा वदिष्यन्ति ।कुतो भूमण्डलान्यष्टौ सप्तद्वीपानि भूतयः ।एकमेवेह भूपीठं श्रुतं दृष्टं च नेतरत् ॥४८॥कथं चैतानि तिष्ठन्ति कस्मिंश्चिद्गृहकोशके ।पद्माक्षकोशके सूक्ष्मे कथं भान्ति मतंगजाः ॥४९॥ब्रह्मोवाच ।युक्तं युष्माभिरस्माभिः सर्वं व्योमात्मकं जगत् ।स्थितं चित्परमाण्वन्तरन्तःस्वप्नोऽनुभूयते ॥५०॥भाति यत्परमस्याणोरन्तस्थस्वगृहोदरे ।स्फुरितं तत्किमाश्चर्य कः स्मयः प्रकृतेः क्रमे ॥५१॥मृतेरनन्तरं भाति यथास्थितमिदं जगत् ।शून्यास्मैव घनाकारं तस्मिन्नेव क्षणे चितः ॥५२॥अणावपि जगन्माति यत्र तत्र गृहोदरे ।सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥५३॥यद्भातीदं च चित्तत्त्वं जगत्त्वं न जगत्क्वचित् ।चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥५४॥इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः ।तानाधिभौतिकभ्रान्तिमयान्संत्यज्य देहकान् ॥५५॥प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः ।सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥५६॥यावत्ते तत्र संपन्नाः सप्तद्वीपाधिनायकाः ।अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥५७॥ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः ।अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥५८॥तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः ।उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥५९॥शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया ।विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥६०॥कुशद्वीपराजधान्यां निराधिः सकलप्रजाः ।कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥६१॥शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे ।जललीलारतः कश्चित्सहविद्याधरीगणैः ॥६२॥क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते ।प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥६३॥उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा ।योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥६४॥गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् ।समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥६५॥पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः ।दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥६६॥प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् ।कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥६७॥त्यक्ताभिमानिकाकारा द्विविधा वरास्ततः ।तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥६८॥यास्यन्ति ते भविष्यन्ति संप्राप्ताभिमताश्चिरम् ।सप्तद्वीपेश्वरास्तुष्टा नन्वष्टावपि तुष्टिमत् ॥६९॥इत्येते प्रविकसितोदितक्रियार्थाःप्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः ।अन्तर्यत्स्फुरति विदस्तदेव बाह्येनाप्तं कैस्तदुचितकर्मभिः किलेति ॥७०॥इत्यार्षे श्रीवासिष्ठ० वा० दे० मो० नि० उ० ब्रह्म० ताप० द्वीपसप्तकाष्टकवर्णनं नाम त्र्यशीत्यधिकशततमः सर्गः ॥१८३॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP