संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ५४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ५४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जगन्नाम नभः स्वच्छं सद्ब्रह्म नभसि स्थितम् ।नभो नभसि भातीदं जगच्छब्दार्थ इत्यजम् ॥१॥त्वमहं जगदित्यादि शब्दार्थो ब्रह्म ब्रह्मणि ।शान्तं समसमाभासं स्थितमस्थितमेव सत् ॥२॥समुद्रगिरिमेघोर्वीविस्फोटमयमप्यजम् ।काष्ठमौनवदेवेदं जगद्ब्रह्मावतिष्ठते ॥३॥द्रष्टा द्रष्टैव दृश्यस्य स्वभावात्स्वात्मनि स्थितः ।कर्ता कर्तैव कर्तव्याभावतः कारणादृते ॥४॥न ज्ञत्वं न च कर्तृत्वं न जडत्वं न भोक्तृता ।न शून्यता न चार्थत्वमिह नापि नभोर्थता ॥५॥शिलाजठरवत्सत्यं घनमेकमजं ततम् ।सर्वं शान्तमनाद्यन्तमेक विधिनिषेधयोः ॥६॥मरणं जीवितं सत्यमसत्यं च शुभाशुभम् ।सर्वमेकमजं व्योम वीचिजालजलं यथा ॥७॥विभाग एव दृश्यत्वं द्रष्ट्रत्वं चैव गच्छति ।एतच्च कल्पनं स्वप्नपुरादिष्वनुभूयते ॥८॥एवमच्छं पराकाशे स्वप्नपत्तनवज्जगत् ।भाति प्रथममेवेदं ब्रह्मैवेत्थमतः स्थितम् ॥९॥तदिदं तादृशं विद्धि सर्वम् सर्वात्मकं च यत् ।देशाद्देशान्तरप्राप्तौ विदो मध्यमनङ्कितम् ॥१०॥चिद्व्योम्नः शान्तशान्तस्य मध्यमे चैवमास्थितम् ।जगत्तथैव सलिलमेवोर्म्यादितया यथा ॥११॥यदुदेत्युदितं यच्च यच्च नोदेति नोदितम् ।देशाद्देशान्तरप्राप्तौ विदो मध्यान्न भेदितम् ॥१२॥अतः किलास्य सर्गस्य कारणं शशशृङ्गवत् ।प्रयत्नेनापि चान्विष्टं न किंचिदुपलभ्यते ॥१३॥यदकारणकं भाति तदभातं भ्रमात्मकम् ।भ्रमस्यासत्यरूपस्य सत्यता कथमुच्यते ॥१४॥कारणेन विना कार्यं किल किं नाम विद्यते ।यदपुत्रस्य सत्पुत्रदर्शनं स भ्रमो न सत् ॥१५॥यस्त्वकारणको भाति स स्वभावो विजृम्भते ।सर्वरूपेण संकल्पगन्धर्वनगरादिवत् ॥१६॥देशाद्देशान्तरप्राप्तौ क्षणान्मध्यं विदो वपुः ।स्वरूपमजहत्त्वेव राजतेऽर्थविवर्तवत् ॥१७॥बोध एव कचत्यर्थरूपेण स च स्वादणुः ।दृष्टान्तोऽत्रानुभूतोऽन्तः स्वप्नसंकल्पपर्वतः ॥१८॥श्रीराम उवाच ।विद्यते वटबीजान्तर्यथा भाविमहाद्रुमः ।परमाणौ तथा सर्गो ब्रह्मन्कस्मान्न विद्यते ॥१९॥श्रीवसिष्ठ उवाच ।यत्रास्ति बीजं तत्र स्याच्छाखा विततरूपिणी ।जन्यते कारणैः सा च वितता सहकारिभिः ॥२०॥समस्तभूतप्रलये बीजमाकारि किं भवेत् ।सहकार्यथ किं तस्य जायते यद्वशाज्जगत् ॥२१॥यत्तु ब्रह्म परं शान्तं का तत्राकारकल्पना ।परमाणुत्वयोगोऽपि नात्र केवात्र बीजता ॥२२॥कारणस्येति बीजस्य सत्यासत्यैककारिणः ।असंभवाज्जगत्सत्ता कथं केन कुतः क्व का ॥२३॥जगदास्ते परस्याणोरन्तरित्यपि नोचितम् ।सार्षपे कणके मेरुरास्त इत्यज्ञकल्पना ॥२४॥सति बीजे प्रवर्तन्ते कार्यकारणदृष्टयः ।निराकारस्य किं बीजं क्व जन्यजनकक्रमः ॥२५॥अतो यत्परमं तत्त्वं तदेवेदं जगत्स्थितम् ।नेह प्रथयते किंचिन्न च किंचिद्विनश्यति ॥२६॥चिदाकाशश्चिदाकाशे हृदि चित्त्वाज्जगद्भमम् ।अशुद्धवदिवाशुद्धे शुद्धं शुद्धे प्रपश्यति ॥२७॥स्वमेवाभासते तस्य रूपं स्पन्द इवानिले ।सर्गशब्दार्थकलना नेह काश्चन सन्ति नः ॥२८॥यथा शून्यत्वमाकाशे द्रवत्वं च यथा जले ।अन्यतात्ममयी शुद्धा सर्गतेय तथात्मनि ॥२९॥भारूपमिदमाशान्तं जगद्ब्रह्मैव नस्ततम् ।अनादिनिधनं सत्यं नोदेति न च शाम्यति ॥३०॥देशाद्देशान्तरप्राप्तौ क्षणान्मध्ये विदो वपुः ।यत्तज्जगदितीवेदं व्योमात्मनि व्यवस्थितम् ॥३१॥यथा स्पन्दोऽनिले तोये द्रवत्वं व्योम्नि शून्यता ।तथा जगदिदं भातमनन्याश्लेषमात्मनि ॥३२॥संविन्नभो ननु जगन्नभ इत्यनर्क-मात्मन्यवस्थितमनस्तमयोदयं क्व ।तत्त्वङ्गभूतमखिलं तदनन्यदेवदृश्यं निरस्तकलनोऽम्बरमात्रमास्व ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे अद्वैतैक्यप्रतिपादनं नाम चतुःपञ्चाशः सर्गः ॥५४॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP