संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १० Translation - भाषांतर भुशुण्ड उवाच ।विद्धि त्वं चेतनादेव चेतनेतरचेतनम् ।जलेऽग्निरिव चिज्जाड्ये नातो भिन्ने मनागपि ॥१॥तद्वेदनावेदनयोरभेदात्स्वस्थमास्यताम् ।निर्यन्त्रमेव चित्रस्थज्ञप्तिवद्व्योममध्यवत् ॥२॥ब्रह्मण्यशेषशक्तित्वादचित्त्वं विद्यते तथा ।अक्षुब्धे विमले तोये भाविफेनलवो यथा ॥३॥न कारणं विनोदेति जलात्फेनलवो यथा ।न कारणं विनोदेति सर्गादि ब्रह्मणस्तथा ॥४॥न च कारणमस्त्यत्र सर्गवृत्तावकारणे ।नातः संजायते किंचिज्जगदादिर्न नश्यति ॥५॥अत्यन्तं कारणाभावान्न किंचिज्जायते जगत् ।मरावम्ब्विव नास्त्येव दृष्टमप्यग्रतो जगत् ॥६॥ब्रह्मानन्तमजं शान्तमतोऽस्तीदं न सर्गधीः ।कारणाभावतस्तेन ब्रह्मैवेदमखण्डितम् ॥७॥अतः शिलोदराभोऽसि व्योमकोशोपमोपि च ।ब्रह्मैकघनरूपत्वादजोऽनवयवोऽसि च ॥८॥ज्ञोऽसि किंचिन्न किंचिद्वा निःशङ्कमलमास्यताम् ।अचेतनाचिदाभासे शाम्यतामात्मनात्मनि ॥९॥नित्यानन्दतयाऽजस्य कारणं नास्ति कार्यकृत् ।सर्गाद्यसंभवे तस्माद्यदस्ति तदजं शिवम् ॥१०॥अजो येषां तु चिद्रूपो नास्ति मौर्ख्यविलासिनाम् ।सर्गनाशे समुत्पन्ने किं तेषां प्र विचार्यते ॥११॥यत्र यत्र परं ब्रह्म तत्र सन्ति जगन्ति हि ।जगच्छब्दार्थरूपेण मुक्तान्येवंविधानि च ॥१२॥तृणे काष्ठे जले कुड्ये सर्वत्रैव परं स्थितम् ।सर्वत्रैव च सर्गौघः परिप्रोतः स्थितो मिथः ॥१३॥ब्रह्मणः कः स्वभावोऽसाविति वक्तुं न युज्यते ।अनन्ते परमे तत्त्वे स्वत्वास्वत्वात्यसंभवात् ॥१४॥अभावसव्यपेक्षस्य भावस्यासंभवादपि ।पदं बध्नन्ति नानन्ते स्वभावाद्या दुरुक्तयः ॥१५॥अस्वत्वाभावयोर्नित्येऽनन्तेऽत्यन्तमसंभवात् ।स्वत्वभावेषु सिद्धेषु स्वभावोक्तिर्न तिष्ठति ॥१६॥नाहन्त्वं लभ्यते साधो बुद्ध्यालोके निरीक्षितम् ।असदेव कुतोऽप्येतद्बालयक्ष इवोदितम् ॥१७॥मुक्तं त्वहन्त्वशब्दार्थैर्लभ्यते यच्च तत्परम् ।युक्तं त्वहन्त्वशब्दार्थैः प्रेक्ष्यमाणं विलीयते ॥१८॥भेदो जगद्ब्रह्मदृशोरभेदः पर्यायशब्दार्थविलासतुल्यः ।संकल्पमात्रं कथितो न सत्यो यथानयोर्वै कटकत्वहेम्नोः ॥१९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० वि० स्वर्गापवर्गप्रतिपत्तियोगोपदेशो नाम दशमः सर्गः ॥१०॥ N/A References : N/A Last Updated : September 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP