संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १९२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १९२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १९२ Translation - भाषांतर श्रीराम उवाच ।अहो नु सुचिरं कालं संभ्रान्ता वयमन्तरे ।अपरिज्ञातमात्रेण संसारपरमाम्बरे ॥१॥बुद्धे यावदियं नाम जगद्भ्रान्तिर्न किंचन ।न चाभून्न च वास्तीयं न च नाम भविष्यति ॥२॥सर्वं शान्तं निरालम्बं विज्ञानं केवलं स्थितम् ।अनन्तं चिद्धनं व्योम नीरागमपकल्पनम् ॥३॥परमाकाशमेवेदमपरिज्ञातमात्रकम् ।संसारतामिवास्माकं गतं चित्रमहो नु भोः ॥४॥इत्थं द्वैतमिदं भातमिमे लोका इमेऽद्रयः ।परमाकाशमित्यच्छमेवानच्छमिव स्थितम् ॥५॥सर्गादौ परलोकादौ स्वप्नादौ कल्पनादिके ।चिदेव चेत्यवद्भाति कुतोऽन्या किल दृश्यधीः ॥६॥स्वर्गे वा नरके वापि स्थितोऽस्मीति मतिर्यदि ।तत्तस्या नरकस्यान्तो दृश्यं संविन्मयात्मकम् ॥७॥नेदं दृश्यं न च द्रष्टा न सर्गो न जगन्न चित् ।न जाग्रत्स्वप्नसिद्धादि किमपीदं तदप्यसत् ॥८॥कुतोऽस्याः संभवो भ्रान्तेरिति चेद्दृश्यते मुने ।तदेतदपि नो युक्तं भ्रान्त्यभावानुभूतितः ॥९॥भ्रान्तिर्न संभवत्येव निर्विकारे ज्ञतापदे ।यत्त्विदं भ्रान्तिताज्ञानं तत्तदेवेतरन्न तत् ॥१०॥निरन्तरे निराद्यन्ते व्योम्नि शैलोदरेऽथवा ।कुतोऽन्यताकल्पकं स्याज्ज्ञपदे चाविकारिणि ॥११॥मिथ्यैवानुभवो भ्रान्तेः स्वप्ने स्वमरणोपमः ।यदनालोकनं नाम शाम्यतीदं विलोकनात् ॥१२॥मृगतृष्णाम्बुगन्धर्वनगरद्वीन्दुविभ्रमः ।तथाऽविद्याभ्रमश्चायं विचारान्नोपलभ्यते ॥१३॥बालवेतालवद्भ्रान्तिर्न विद्या जाग्रगापि हि ।अविचारेण संरूढा विचारेणोपशाम्यति ॥१४॥कुत आसीदिति मुने नात्र प्रश्नो विराजते ।सत एव विचारेण लाभो भवति नासतः ॥१५॥प्रामाणिकविचारेण प्रेक्षितं यन्न लभ्यते ।तदेतदसदेवादि तत्तर्ह्यनुभवो भ्रमः ॥१६॥यन्नास्तीति परिच्छिन्नं प्रमाणैः सुविचारितम् ।खपुष्पशशशृङ्गाभं तत्कथं लभ्यते सतः ॥१७॥सर्वतः प्रेक्ष्यमाणोऽपि यः कुतश्चिन्न लभ्यते ।तस्य स्यात्कीदृशी सत्ता वन्ध्यातनयरूपिणः ॥१८॥भ्रान्तिर्न संभवत्येव तस्मात्काचित्कदाचन ।निरावरणविज्ञानघनमेवेदमाततम् ॥१९॥यत्किंचिज्जगदद्यात्र भातीदं परमेव तत् ।परं परे परापूर्णे पूर्णमेवावतिष्ठते ॥२०॥न भातं न च नाभातमिह किंचित्कदाचन ।इदमित्थं स्थितं स्वच्छं शान्तमेव जगद्वपुः ॥२१॥अजममरमहार्यमार्यजुष्टंपरमविकारि निरामयं समन्तात् ।पदमहमुदितं ततं हि शुद्धंनिरहमनेकमथाद्वयं विकासि ॥२२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० विश्रान्त्युपगमवर्णनं नाम द्विनवत्यधिकशततमः सर्गः ॥१९२॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP