संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।साहंतादिजगच्छान्तौ बोधे संवित्कलात्मनि ।संशान्तदीपसंकाशस्त्यागः सिद्ध्यति नान्यथा ॥१॥न त्यागः कर्मसंत्यागो बोधस्त्याग इति स्मृतः ।अजगत्प्रतिभैकात्मा योऽनहंतादिरव्ययः ॥२॥अयं सोहमिदं तन्म इति निःस्नेहदीपवत् ।शान्ते परमनिर्वाणे प्रबोधात्मेति शिष्यते ॥३॥अयं सोहमिदं तन्मे शान्तमित्येव यस्य नो ।न ज्ञानं तस्य नो शान्तिर्न त्यागो न च निर्वृतिः ॥४॥ममेदमयमेवाहमित्येतावति यः क्षयः ।बोधात्मा शिवमाशान्तं तस्मादन्यन्न विद्यते ॥५॥अहमंशे विदा क्षीणे सर्वमेव क्षयं गतम् ।न किंचिच्च क्वचित्क्षीणं निर्वाणैकघनं स्थितम् ॥६॥अहविदनहंवित्त्वादेव शाम्यत्यविघ्नतः ।एतावन्मात्रसाध्येयं किमिवेयं कदर्थना ॥७॥अहंनाहमिति भ्रान्तिर्न च चित्त्वादृतेऽस्ति सा ।चित्त्वं चाकाशविशदमतः क्वैषा भ्रमस्थितिः ॥८॥न भ्रमो भ्रमणं नैव न भ्रान्तिर्भ्रामकोऽस्ति वा ।अनालोकनमेवेदमालोकान्नेदमस्ति ते ॥९॥विद्धि चिन्मात्रमेवेदमसद्रूपोपमं ततम् ।तेनालं मौनमास्स्वैवं सर्वं निर्वाणमात्रकम् ॥१०॥येनैवाशु निमेषेण त्वहमित्येव चेतति ।तेनैव नाहमित्येव चेतित्वाशु न शोच्यते ॥११॥अहंभावं नभोर्थेन निर्वाच्यारूढबाणवत् ।अजस्रमाशु वाऽक्षीणं तिष्ठावष्टब्धतत्पदः ॥१२॥सनभोर्थामहन्तां त्वं चेतन्नेवमनारतम् ।सर्वभावैरनारूढो भव तीर्णभवार्णवः ॥१३॥स्वभावमात्रविजये स्वयं यस्य न वीरता ।तस्योत्तमपदप्राप्तौ पशोर्ब्रूहि कथैव का ॥१४॥षड्वर्गो निर्जितः पूर्वं येनोत्तमविदा स्वतः ।भाजनं स महार्थानां नेतरो नरगर्दभः ॥१५॥यस्य स्वान्तर्मनोवृत्तिर्जीयमाना जिताथवा ।विषयः स विवेकानां स पुमानिति कथ्यते ॥१६॥अर्थो दृषदिवाम्भोधौ यो य आपतति त्वयि ।तस्मादेव पलायस्व नाहमित्येव भावयन् ॥१७॥नाहमस्मीति बुद्ध्वापि सोपपत्तिकमप्यलम् ।जानानो ज्ञप्तिमात्रं च किमज्ञ इव मुह्यसि ॥१८॥न ज्ञेयमर्थतोऽस्तीह हेम्नीव कटकादिता ।भ्रान्तिमात्रादृते सा च शाम्यत्यस्मरणेन ते ॥१९॥यो यो भाव उदेत्यन्तस्त्वयि स्पन्द इवानिले ।नाहमस्मीति चिद्वृत्त्या तमनाधारतां नय ॥२०॥लोभो लज्जा मदो मोहो येनादाविति नो जिताः ।निरर्थकमनर्थेऽस्मिन्स किमर्थं प्रवर्तते ॥२१॥अहन्त्वं पवने स्पन्द इव यत्त्वयि संस्थितम् ।परमात्मनि तन्नान्यदेतत्स्पन्द इवानिले ॥२२॥असर्गसंविदा सर्गः परेऽस्तोऽतिविराजते ।संनिवेशविशेषेण दुरर्थोऽपि हि शोभते ॥२३॥परमात्मा तु नोदेति नास्तं याति कदाचन ।न चास्मादन्यदस्तीति को भावोऽभाव एव वा ॥२४॥परं परे पूर्णं पूर्णे शान्तं शान्ते शिवं शिवे ।इत्येवमात्रं विततं नाहं न च जगन्न धीः ॥२५॥अनिर्वाणे विनिर्वाणं शान्तं शान्ते शिवे शिवम् ।निर्वाणमप्यनिर्वाणं सनभोर्थं न वापि तत् ॥२६॥शस्त्राघाताः प्रसह्यन्ते सह्यन्ते व्याधिवेदनाः ।नाहमित्येवमात्रस्य सहने का कदर्थना ॥२७॥जगत्पदार्थसार्थानामहमित्यक्षयोऽङ्कुरः ।तस्मिन्निर्मूलतां याते जगन्निर्मूलतां गतम् ॥२८॥बाष्पेणेवाहमर्थेन निःसारेणापि सारवत् ।व्यामलः परमादर्शस्तच्छान्तौ संप्रसीदति ॥२९॥अहमर्थः परे वायौ स्पन्दस्तत्प्रशमे तु तत् ।अनिर्देश्यमनाभासमनन्तमजमव्ययम् ॥३०॥अहमर्थः पुरो द्रव्यप्रतिबिम्बप्रदश्चिति ।तच्छान्तौ सा निराभासमनन्तमजमव्ययम् ॥३१॥अहमर्थाम्बुदे क्षीणे परमार्थशरन्नभः ।परयानन्तया लक्ष्म्या स्वच्छयाच्छं विराजते ॥३२॥अहमर्थमलोन्मुक्तमव्यक्तं ताम्रमङ्ग चेत् ।तत्परं परमाभासं संपन्नं हेम कान्तिमत् ॥३३॥यथा निरभिधार्थश्रीर्भजत्यव्यपदेश्यताम् ।तथानहन्ताहन्तेयं ब्रह्मत्वमधिगच्छति ॥३४॥अस्त्यहन्त्वे स्थितं ब्रह्म सनामेव पदार्थवत् ।शान्तवत्सदिवाभासं तद्वत्स व्यपदेशवान् ॥३५॥ ।अहमर्थो जगद्बीजं यदि दग्धमभावनात् ।तदहन्त्वं जगद्बन्ध इत्यादेः कलनैव का ॥३६॥सद्ब्रह्म शिवमात्मेति परे नामकलङ्किता ।उदेत्यहन्ता कुम्भत्वादिव मृद्धातुविस्मृतिः ॥३७॥अहमर्थादियं बीजात्सत्ता बिम्बलतोत्थिता ।यस्यां जगन्त्यनन्तानि फलान्यायान्ति यान्तिच ॥३८॥साद्र्यब्ध्युर्वीनदी सेयं रूपालोकैषणादिका ।अहमर्थस्य मरिचबीजस्यान्तश्चमत्कृतिः ॥३९॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।इत्यामोदोऽहमर्थोग्रकुसुमस्य विकासिनः ॥४०॥अहमर्थः प्रविसृतः प्रकटीकुरुते जगत् ।सद्रूपालोकमननं प्रवृत्त इव वासरः ॥४१॥प्रवृत्तेन दिनेनार्थः प्रकटीक्रियते यथा ।असज्जगदहन्त्वेन क्षणान्निर्मीयते तथा ॥४२॥अहमित्यर्थदुस्तैललवो ब्रह्मणि वारिणि ।प्रसृतो यत्तदाश्वेतत्त्रिजगच्चक्रकं स्थितम् ॥४३॥उन्मेषमात्रेणाहन्ता जगन्त्यनुभवत्यहो ।न निमेषेण दृगिव सत्यानीत्यप्यसन्त्यलम् ॥४४॥अहमर्थे प्रविसृते संसारो ह्यनुभूयते ।नान्तर्भूय परिक्षीणे लोचनस्येव तारके ॥४५॥अहमंशे निरंशत्वं नीते शाश्वतसंविदा ।शाम्यतीयमशेषेण संसारमृगतृष्णिका ॥४६॥स्वसंविद्भावनामात्रसाध्येऽस्मिन्वरवस्तुनि ।सिद्धमात्रात्मनि स्वैरं मा खेदं गच्छमा भ्रमीम् ॥४७॥स्वयत्नमात्रसंसाध्यादसहायादिसाधनात् ।अनहंवेदनान्नान्यच्छ्रेयः पश्यामि तेऽनघ ॥४८॥विस्मृत्याहं त्वमास्स्व प्रविसृतविभवःपूरिताशेषविश्वोविष्वक्शैलान्तरिक्षक्षितिजलधिमरु-न्मार्गरूपोऽमलात्मा ।स्वस्थः शान्तो विशोकः करणमलकला-वर्जितो निष्प्रपञ्चोनिःसंचारश्चरात्मा सकलमसकलंचेति सिद्धान्तसारः ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे अहंतानिरासो नाम चतुर्थः सर्गः ॥४॥ N/A References : N/A Last Updated : September 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP