संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ९९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ९९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९९ Translation - भाषांतर श्रीराम उवाच।सन्ति दुःखक्षयेऽस्माकं शास्त्रसत्सङ्गयुक्तयः ।मन्त्रौषधितपोदानतीर्थपुण्याश्रमाश्रयाः ॥१॥कृमिकीटपतङ्गाद्यास्तिर्यक्स्थावरजातयः ।कथं स्थिताः किमारम्भास्तेषां दुःखक्षयः कथम् ॥२॥श्रीवसिष्ठ उवाच ।सर्वाण्येवेह भूतानि स्थावराणि चराणि च ।आत्मोचितायां सत्तायां विश्रान्तानि स्थितान्यलम् ॥३॥भूतानामणुमात्राणामप्यस्माकमिवैषणाः ।किंत्वल्पास्था वयं विघ्नास्तेषां त्वचलसंनिभाः ॥४॥यथा विराट् प्रयतते बालखिल्यास्तथैव खे ।बालमुष्ट्यल्पकायेऽपि पश्याहंकृतिजृम्भितम् ॥५॥जायन्ते च म्रियन्ते च निराधारेऽम्बरे खगाः ।शून्यैकविषयास्तेषां स्वास्थ्यं न भवति क्षणम् ॥६॥पिपीलिकायाश्चेष्टाभिर्ग्रासावासात्मबन्धुभिः ।अस्मद्दिवसकल्पोऽपि न पर्याप्तः क्षणो यथा ॥७॥त्रसरेणुप्रमाणात्मा कृम्यणुस्तिमिनामकः ।गमने व्यग्रता तस्य गरुडस्येव लक्ष्यते ॥८॥अयं सोहमिदं तन्म इत्याकल्पितकल्पनम् ।जगद्यथा नृणां स्फारं तथैवोच्चैर्गुणैः कृमेः ॥९॥देशकालक्रियाद्रव्यव्यग्रया जर्जरीकृतम् ।क्षीयते व्रणकीटानामस्माकमिव जीवितम् ॥१०॥पादपाः किंचिदुन्निद्रा घननिद्राः खलूपलाः ।कृमिकीटादयः कार्ये नरवत्स्वप्नबोधिनः ॥११॥शरीरनाश एवैषां सुखं संप्रति दुःखकृत् ।अस्माकमिव तेषां तज्जीवितं तु सुखायते ॥१२॥जनो द्वीपान्तरं यादृग्विक्रीतः परिपश्यति ।पदार्थजालं पश्यन्ति तादृक्पशुमृगादयः ॥१३॥अस्माकमिव संसारस्तिरश्चां सुखदुःखदः ।पदार्थप्रविभागेन केवलं ते विवर्जिताः ॥१४॥हृदयात्सुखदुःखाभ्यां नासातो रशनागुणैः ।पशवः परिकृष्यन्ते विक्रीताः पामरा अपि ॥१५॥सुप्तानां यादृगस्माकं वेदनं स्पष्टसुत्वचाम् ।वृक्षगुल्माङ्कुरादीनां तादृगुद्दामवेदनम् ॥१६॥यादृगस्माकमीत्यर्थक्रमसंसारपातिनाम् ।पदार्थवेदनं तादृक्तिरश्चां भ्रान्तमभ्रमम् ॥१७॥आह्लादमात्रे सौम्यत्वं सुखतश्चेन्द्रकीटयोः ।समं विकल्पविन्मुक्तं विकल्पस्त्वनतिक्रमः ॥१८॥रागद्वेषभयाहारमैथुनोत्थं सुखासुखम् ।तिरश्चां जन्ममृत्यादिखेदः कश्चिन्न भिद्यते ॥१९॥ऋते पदार्थभूतार्थभविष्यद्वस्तुबोधतः ।शेषं बभ्र्वहिगोमायुगजादीनां नृभिः समम् ॥२०॥निद्रामयानां वृक्षाणां स्वसत्तामचलादयः ।स्थिता अनुभवन्तोऽन्ये चिदाकाशमखण्डितम् ॥२१॥आपीननिद्रा वृक्षाद्याः स्वसत्तास्थास्तथाद्रयः ।जङ्गमानि चिदाकाशं नाम किंचित्कदाचन ॥२२॥अखण्डचित्ता शैलादिसत्ता निद्रा च भूरुहाम् ।द्वैतोपलम्भमुक्तत्वात्खमेवैकमतो जगत् ॥२३॥परिज्ञातं जगद्यावदपरिज्ञानसंयुतम् ।न त्वं नाहं न चैवास्तिनास्ती न च भविष्यति ॥२४॥यथास्थितं सदैवेदं मौनमेव शिलाघनम् ।अनाद्यन्तमविच्छिद्रमनिद्रं च सनिद्रकम् ॥२५॥पूर्वं सर्गाद्यथैवासीत्तथैवैकं समस्थितम् ।भविष्यत्यधुनानन्तकालमेवं तथैव च ॥२६॥नैवात्मता न परता न जगत्ता न शून्यता ।न मौनता न मौनित्वं किंचिन्नेहोपपद्यते ॥२७॥त्वं यथास्थितमेवास्व यथास्थितमहं स्थितः ।सुखासुखे पराकाशे शान्ते नेहास्ति किंचन ॥२८॥परमाकाशतां मुक्त्वा किं स्वप्ननगरे वद ।विद्यते किल तच्छान्तं चिद्व्योमाच्छमनामयम् ॥२९॥अपरिज्ञप्तिरेवैका तत्र संभ्रमकारिणी ।परिज्ञातमिदं यावद्विद्यते सापि न क्वचित् ॥३०॥परिज्ञाते जगत्स्वप्ने यावत्सत्यं न किंचन ।ग्रहस्तदेनं प्रति किं स्नेहो वन्ध्यासुते तु कः ॥३१॥स्वप्नकाले परिज्ञाते जगत्स्वप्नमणावणौ ।किमुपादेयता कास्था प्रबोधेऽसौ न किंचन ॥३२॥यन्न किंचित्प्रबोधोऽस्ति नाप्रबोधोऽस्ति तत्क्वचित् ।यस्तूपलम्भस्तत्काले पूर्वावस्थैव सा तथा ॥३३॥विद्यते वर्तमानत्वं भविष्यद्भूतता तथा ।बोधाबोधश्च नो सत्यं वस्तु शान्तं किलाखिलम् ॥३४॥यथोर्मिणोर्मौ निहते न काचित्पयसां क्षतिः ।तथा देहेन निहते देहे नास्ति चितेः क्षतिः ॥३५॥चितावाकाश एवाहं देह इत्युपजायते ।संविदेव ततो देहे नष्टे किं नाम नश्यति ॥३६॥प्रबुद्धस्यैव चिद्व्योम्नः स्वप्नो जगदिति स्थितम् ।पृथ्व्यादिरहितं यस्मात्तस्मात्स्वप्नात्मकं जगत् ॥३७॥सर्गादौ पूर्वचित्स्वप्नाज्जाता पृथ्व्यादिवस्तुधीः ।स्वप्नार्थे सत्यताभ्रान्तिः कल्पनामात्ररूपिणी ॥३८॥पूर्वात्पूर्वतरस्यास्य स्वप्नस्यावयवस्थितौ ।सत्येवासत्यरूपायां पृथ्व्यादिकलना कृता ॥३९॥सा च भ्रान्तिस्तथा रूढा यथासत्यैव सत्यताम् ।परमामागता तत्तु सत्यमत्यन्तनिर्मलम् ॥४०॥वस्तुतस्तु यथाभूतं चिद्बब्रह्मैवाततं स्थितम् ।न च तत्संस्थितं किंचित्स्मर्ताऽस्मर्ता किमात्मकः ॥४१॥एवं मात्रापरिज्ञानमेवात्र प्रतिबोधकम् ।अत्रैव तु परिज्ञानं कवाटप्रविघाटनम् ॥४२॥पारिशेष्यान्न पृथ्व्यादि किंचित्संभवति क्वचित् ।यो द्रष्टा यच्च वा दृश्यं विमलं शिवमेव तत् ॥४३॥मुकुरेऽन्तर्यथा बिम्बाद्विम्बं भाति जगत्तथा ।चिद्व्योमनि स्वतो भातमबिम्बादेव बिम्बितम् ॥४४॥मुकुरेऽन्तर्यथा बिम्बं न दृष्टमपि किंचन ।तथा चिद्व्योमगं विश्वं न दृष्टमपि किंचन ॥४५॥लभ्यते यद्विचारेण यत्सकारणकं स्थितम् ।तत्सच्छेषं तु भामात्रमभूतं सत्कथं भवेत् ॥४६॥भवेद्भ्रमात्मकमपि किंचिदर्थक्रियाकरम् ।स्वप्नाङ्गनापि कुरुते सत्यामर्थक्रियां नृणाम् ॥४७॥यत्तद्भानं तु सा चिद्भा परमं तच्चिदम्बरम् ।इति क्वाहं क्व विश्वश्रीः क्व त्वं दृश्यदृशश्च काः ॥४८॥मृत्वा पुनर्भवनमस्ति किमङ्ग नष्टंमृत्वा न चेद्भवनमस्ति तथापि शान्तिः ।विज्ञानदृष्टिवशतोऽस्त्यथ चेद्विमोक्ष-स्तन्नेह किंचिदपि दुःखमुदारबुद्धेः ॥४९॥मूर्खस्य यादृशमिदं तु तदज्ञ एवजानात्यसौ न हि वयं किल तत्र तज्ज्ञाः ।मत्स्यो हि यो मृगनदीसलिले स एवजानाति तच्चपलवीचिविवर्तनानि ॥५०॥अन्तर्बहिस्त्वमहमित्यपि चैवमादिसर्वात्मकं तपति चिन्नभ एकमेव ।शाखाशिखाविटपपत्रफलैकदेहःसंकल्पवृक्ष इव बोधखमात्रसारः ॥५१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० परमार्थनिरूपणं नाम नवनवतितमः सर्गः ॥९९॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP