संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १६८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १६८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १६८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अबुद्धिपूर्वमेवागो यथा शाखाविचित्रताम् ।करोत्येवमजश्चित्राः सर्गाभासः ख एव खम् ॥१॥यथा करोत्यबुद्ध्यादिरावर्तादि पयोनिधिः ।तथा करोति खे स्वात्मा सर्वेशः सर्ववेदनाः ॥२॥तासां स्वसंविदामेव ततः स कुरुते स्वयम् ।मनो बुद्धिरहंकार इत्याद्या विविधाभिधाः ॥३॥अबुद्धिपूर्वमारम्भो दृश्यरूपः स्वतश्चितेः ।संकल्प्यमानो बुद्ध्यादिस्तरङ्गादिर्यथाम्बुधेः ॥४॥चिन्मात्रात्संप्रवर्तन्ते मनोबुद्ध्यादयस्तथा ।आवर्तकणकल्लोलवीचयो वारिधेर्यथा ॥५॥भित्तिमात्रं यथा चित्रजगदालोकमात्रकम् ।चिति चिद्व्योममात्रात्म तथैवाभासमात्रकम् ॥६॥अबुद्धिपूर्वमारम्भो नियत्या संनिवेशवान् ।यथा संपद्यते वृत्ते तथा सर्गात्मकश्चिति ॥७॥तरौ गुलुच्छकादीनां यथान्यः कुरुतेऽभिधाः ।तथा चिद्वृक्षपुष्पादिपृथ्व्यादिविहिताभिधम् ॥८॥अनन्यत्पुष्पपत्रादि यथा नाम महातरोः ।तथैवानन्यदेवेदं चिद्व्योम्नः परमात्मनः ॥९॥तराववयवेप्वन्यः करोति विविधाभिधाः ।चिद्व्योमात्मनि सर्वेषु भूत्वान्य इव खात्मसु ॥१०॥चित्तरोः पल्लवाः सर्गाश्चित्त्वादेव न सन्त्यलम् ।कार्यकारणवद्भाति स एव स्वप्नवत्स्वयम् ॥११॥वक्षि चेत्कथमेतस्माद्व्यर्थं तदनुभूयते ।सर्गाद्यमुत्र स्वप्नादिष्वेषु कोऽपह्नवं भजेत् ॥१२॥तरावाकारवत्येषा कल्पना रचिता यथा ।चितेराकाशमात्रायास्तथैषा कल्पना कृता ॥१३॥यथा गन्धादयः पुष्पे गगने शून्यतादयः ।यथा स्पन्दादयो वायौ तथा बुद्ध्यादयः परे ॥१४॥यथा गन्धादयः पुष्पे गगने शून्यतादयः ।यथा स्पन्दादयो वायौ तथेमाः सृष्टयश्चिति ॥१५॥यथा खानिलपुष्पाणां शून्यतास्पन्दगन्धदृक् ।शून्यरूपानुभूता च तथा सर्गस्थितिश्चिति ॥१६॥न पृथक् शून्यता व्योम्नो न पृथग्द्रवताम्भसः ।न पृथक् कुसुमाद्गन्धो नानिलात्स्पन्दन पृथक्॥१७॥अग्नेर्न पृथगुष्णत्वं पृथक् शैत्यं च नो हिमात् ।चिद्व्योमैकात्मनः स्वच्छान्न जगत्पृथगीश्वरात् ॥१८॥सर्गादावेव यद्व्योम्नि स्वप्नाद्धृदि च दृश्यते ।अकारणं तच्चिद्व्योम्नः कथमन्यद्भवेत्किल ॥१९॥स्वप्न एवात्र दृष्टान्तो नित्यदृष्टो विचार्यताम् ।चिन्मात्रव्यतिरेकेण सारं किं तत्र कथ्यताम् ॥२०॥तदिदं बुद्धिसंस्कारदृश्यमित्यादिका स्मृतिः ।न संभवति यत्तत्त्वं कथयेदं कथं भवेत् ॥२१॥यत्तत्र दृष्टं तदिह स्मृतिकाले भवेद्यदि ।नानुभूयेत तत्तत्र कैवैकस्य द्विधा स्थितिः ॥२२॥तस्मादावर्तवृत्त्येदं काकतालीयवज्जगत् ।चिति यद्भाति तत्रैषा पश्चात्स्वप्नादिकल्पना ॥२३॥अबुद्धिपूर्वं संपन्ने सर्गे वीच्यादयो यथा ।संनिवेशः स्थितिः पश्चात्स्वयं संपद्यते तथा ॥२४॥जातमेव न तज्जातं जातं यत्कारणं विना ।यतोऽजातं तदेवाद्य तत्समं संस्थितं तथा ॥२५॥अबुद्धिपूर्वं संजाता रत्नादीनां यथार्चिषः ।सत्तैव संनिवेशेन तथैवासां जगद्दृशाम् ॥२६॥यथाकथंचिदेवेदमादौ संपद्यते जगत् ।पश्चाद्गृह्णाति नियतिमावर्तोऽब्धाविवात्मनि ॥२७॥चिद्व्योम्नि स्वप्नजालानि चिज्जगन्त्यपकारणम् ।प्रवर्तन्ते निवर्तन्ते शून्यशून्यात्मकान्यपि ॥२८॥यावत्सर्वमथान्योन्यं याति कारणतां चिरम् ।तेषां शून्यात्मका एव पदार्था ईश्वरादयः ॥२९॥जायते शून्यमेवेदं शून्यमेव च वर्धते ।ननु शून्यतयात्यन्तं शून्यमेव विनश्यति ॥३०॥शून्यं कचत्यशून्याभं दृष्टान्तं स्वप्नमत्र यः ।अपह्णुतेऽनुभूतं स पशुभर्तृकुकं कुधीः ॥३१॥असदेवेदमाभाति भ्रान्तिमात्रं सुकृत्रिमम् ।चिच्चमत्कारमात्रात्म ज्ञे सन्मात्रकृत्रिमम् ॥३२॥अयं चिरस्थसंकल्पः सर्गप्रलयविभ्रमः ।ज्ञानं स्वभावकचनमज्ञानं भ्रान्तिजृम्भणम् ॥३३॥झटित्युदेति ब्रह्मात्म दृश्यं दृष्टमकारणम् ।खे सुषुप्तादिव स्वप्नः पश्चान्नियतिमृच्छति ॥३४॥काकतालीयवच्चित्त्वाच्चिति दृश्यं प्रकाशते ।स्वयमेव स्वभावस्थमावर्तादि यथाम्बुधौ ॥३५॥ईदृशो नाम चिद्धातुरयमाकाशमात्रकः ।यदित्थं नाम कचति जगद्रूपेण चिद्वपुः ॥३६॥तेन चिद्रूपिणा पश्चाद्दृश्येनात्मनि कल्पिताः ।संज्ञाः स्मृत्यादिपृथ्व्यादिबुद्ध्यादिकलनात्मिकाः ॥३७॥श्रीराम उवाच ।एवं स्थिते हे भगवन्बुद्धिसंस्कारतः स्मृतिः ।इति किं प्राप्यते ब्रूहि संबुद्धा यदि न स्मृतिः ॥३८॥श्रीवसिष्ठ उवाच ।श्रृणु राम भिनद्म्येनं प्रश्नं सिंह इवेभकम् ।अभेदं स्थापयाम्येकमालोकमिव भास्करः ॥३९॥विद्यते जगदात्मेदं दृश्यं चिन्मात्रकोटरे ।अनुत्कीर्णा यथा वृक्षे वनस्था शालभञ्जिका ॥४०॥उद्धरेद्वृक्षतस्तक्षा कदाचिच्छालभञ्जिकाम् ।अद्वितीयाच्चितिस्तम्भादुत्कीर्णां कः करोति ताम् ॥४१॥स्तम्भे जडेन सा व्यक्तिमनुत्कीर्णेह गच्छति ।चिति त्वन्तर्गता चित्त्वादेवात्मन्येव भात्यलम् ॥४२॥भासमाना त्वनुत्कीर्णदेहैवापि च खात्मिका ।स्वरूपादच्युता चैव चिन्मात्रादात्मनि स्थिता ॥४३॥सर्गादौ सर्गकलनाः करोति कलनावती ।सा चित्स्वभावतः स्वप्ने खात्मन्यद्योदितामिव ॥४४॥आकाश एव हृदये परमाकाशरूपिणी ।संकल्पयति चिच्छालभञ्जिकाः स्वात्मनात्मनि ॥४५॥इयं ब्रह्मकला सेह चिन्मात्रकलना त्वियम् ।इयं चितिरियं जीवस्त्वहंकारस्त्वसाविति ॥४६॥इयं बुद्धिरियं चित्तमयं काल इदं नभः ।अयं सोऽहं क्रिया चेयमिदं तन्मात्रपञ्चकम् ॥४७॥इन्द्रियाणामिदं वृन्दं पुर्यष्टकमिदं स्मृतम् ।इहातिवाहिको देहस्तथायं चाधिभौतिकः ॥४८॥ब्रह्माहं शंकरश्चाहमुपेन्द्रोऽहमहं रविः ।इदं बाह्यमिदं चान्तरयं सर्ग इदं जगत् ॥४९॥इत्यादिकलनाजालं चिद्व्योमैवातिनिर्मलम् ।तस्मात्क्वैते पदार्थौघाः क्व स्मृतिः क्व द्वयैकते ॥५०॥अकारणकमेवेति जगदाभोगिखण्डकः ।सर्गादौ स्वप्नवद्भाति खे खात्मैव विकारिवत् ॥५१॥व्योम्न्येव कचति व्योम चिन्मये चिन्मयं हि यत् ।बुद्धं तदेव तेनैव जगद्वोधात्क्व तज्जगत् ॥५२॥क्व स्मृतिः क्व च वा स्वप्नः क्व कालाः कलनाश्च काः ।चिदाभानमिदं भाति शान्तं शून्यमिवाम्बरे ॥५३॥यदन्तश्चिद्धनस्यास्ति तद्वहिर्भूततां गतम् ।वस्तुतस्तु न तद्बाह्यं नान्तः सन्मात्रकादृते ॥५४॥निरस्तावयवाच्छान्तादनाख्याद्यत्प्रवर्तते ।अकारणं भवेद्भूतं तदन्धाः कथमन्यथा ॥५५॥तस्माद्यादृक्परं ब्रह्म तादृग्दृश्यमिदं परम् ।यदेव चिन्नभः स्वप्ने तदेव स्वप्नपत्तनम् ॥५६॥न किंचित्किंचनापीदं दृश्यमस्ति मनागपि ।क्व रजः पूर्णजलधौ क्व दृश्यं परमाम्बरे ॥५७॥तच्चेदं भाति वा किंचित्तच्चिन्मात्रमचेत्यकम् ।अकचत्त्वेव संशान्तमात्मनीत्थमवस्थितम् ॥५८॥पूर्णाद्वै ब्रह्मणः पूर्णमप्यनुद्धतमुद्धृतम् ।इवेदं भाति भारूपमाभानं परमात्मकम् ॥५९॥इत्थं मयि प्रकथयत्यनुभूयभान-मप्युच्चकैर्बत जनस्य विमूढतान्तः ।स्वप्ने जगद्वपुषि जाग्रदिति प्रतीतिंनाद्यापि यत्त्यजति नाम विदन्नपि द्राक् ॥६०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० शालभञ्जिकोपदेशो नामाष्टषष्ट्यधिकशततमः सर्गः ॥१६८॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP