संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १२९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १२९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२९ Translation - भाषांतर श्रीराम उवाच ।तयोर्द्वयोर्मुनिश्रेष्ठ संपन्नं किमतः परम् ।पश्चाद्विपश्चितोस्तस्य रुद्धयोर्वै विपश्चितोः ॥१॥श्रीवसिष्ठ उवाच ।तयोरेकश्चिराभ्यस्तवासनाविवशीकृतः ।भ्रमन्द्वीपेषु देहौघैस्तामेव पदवीं गतः ॥२॥तथैवावरणांस्त्यक्त्वा परमाकाशकोटरे ।पश्यन्संसारलक्षाणि तथैवाद्यापि संस्थितः ॥३॥तयोर्द्वितीयः स्वाभ्यस्तादादावासंगतेर्वशात् ।त्यक्तवान्प्रभ्रमद्देहैरद्य शैले मृगः स्थितः ॥४॥श्रीराम उवाच ।एकैव वासना ब्रह्मन्या चतुर्णां सदोदिता ।नानातां सा कथं प्राप्ता हीनोत्तमफलप्रदाम् ॥५॥श्रीवसिष्ठ उवाच ।स्वभ्यस्ता वासना जन्तोर्देशकालक्रियावशात् ।तनुदार्ढ्यान्यतामेति घनदार्ढ्यैति नान्यताम् ॥६॥देशकालक्रियाद्येतदेकता वासनैकता ।तयोर्यदेव बलवत्तदेव जयति क्षणात् ॥७॥एवं विभागेनैतेऽत्र चत्वारः समवस्थिताः ।कृष्यन्ते द्वावविद्यार्थमन्यो मुक्तो मृगोऽपरः ॥८॥नाद्यापि तैरविद्याया लब्धोऽन्तो भ्रान्तिबुद्धिभिः ।अनन्तेयमविद्येयमज्ञानपरिबृंहिता ॥९॥क्षिप्रेण शान्ता भवति विज्ञानालोक आगते ।अमूलमेव गलति तिमिरश्रीरिवोदये ॥१०॥कालेनान्यजगज्जातं शृणु वृत्तं विपश्चितः ।तस्मिन्दूरतरे देशे कस्मिंश्चित्संसृतिभ्रमे ॥११॥क्वचिद्ब्रह्ममहाव्योम्नि कस्मिंश्चिद्दृश्यमण्डले ।तस्य दृश्यात्मना प्राप्ते वस्तुतो ब्रह्मरूपिणि ॥१२॥स एकः शुभसंगत्या विदुषां मध्यमागतः ।दृश्यं यथावद्विज्ञाय ब्रह्मतामलमागतः ॥१३॥तत्रैवाशु परिज्ञानात्साऽविद्या स च देहकः ।मृगतृष्णाम्ब्विवाशान्तिमागतौ रागतन्त्रितौ ॥१४॥इति ते सर्वमाख्यातं विपश्चिच्चेष्टितं स्फुटम् ।अनन्तैवमविद्येयं ब्रह्मवत्तन्मयी यतः ॥१५॥येन यत्रैव वर्षाणां लक्षलक्षाणि गम्यते ।तत्र तत्र स्वभावेन चिता किमपि लक्ष्यते ॥१६॥तदेवाश्वपरिज्ञातं मिथ्या विद्येति कथ्यते ।परिज्ञातं तु तच्छान्तं तथा ब्रह्मेति कथ्यते ॥१७॥भेदो न भेदस्तत्रायं भेदोऽयं यन्मयः किल ।तद्ब्रह्मैव चिदाभासं चिद्रूपैव हि भिन्नता ॥१८॥ब्रह्माण्डमण्डपस्यास्य भ्रमतेत्यविपश्चिता ।लब्धो युगशतैरन्तो नाविद्याया विपश्चिता ॥१९॥श्रीराम उवाच ।स ब्रह्माण्डकपाटः किं न संप्राप्तो विपश्चिता ।त्वयैतत्कथितं ब्रह्मन्न कथं वदतां वर ॥२०॥श्रीवसिष्ठ उवाच ।जातेनैव विरिञ्चेन पुरा ब्रह्माण्डमण्डलम् ।द्वाभ्यामधस्तादूर्ध्वात्स्वभुजाभ्यां प्रविदारितम् ॥२१॥भागस्तेनोर्ध्वतस्तस्मादतिदूरतरं गतः ।अतो भागो गतोऽधस्तादतिदूरतरान्तरम् ॥२२॥ताविवाश्रित्य तिष्ठन्ति जलाद्यावरणास्ततः ।त एव च तदाधारा लम्बन्ते संस्थितास्तयोः ॥२३॥एतयोर्मध्यमाकाशं विदुरण्डकपाटयोः ।अपारावारमानीलमिदमालक्ष्यते तु यत् ॥२४॥जलाद्यावरणास्तत्र न लगन्ति न सन्ति च ।तद्धि निर्मलमाशून्यमालानं कल्पक्लृप्तिभिः ॥२५॥तेन मार्गेण यातोऽसौ विपश्चिदृक्षचक्रवत् ।अविद्यायाः परीक्षार्थमामोक्षमतिदीक्षितः ॥२६॥ब्रह्मैवानन्तरूपेयमविद्या तन्मयी यतः ।अतोऽस्ति साऽपरिज्ञाता परिज्ञाता न विद्यते ॥२७॥विपश्चित इति प्राप्य दूराद्दूरं परेऽम्बरे ।जगद्रूपेष्वविद्याया भ्रमन्त्यन्येषु केषुचित् ॥२८॥कश्चिन्मुक्तो मृगः कश्चित्कौचिदद्यापि तौ क्वचित् ।भ्रमतः प्राक्तनानल्पसंस्कारविवशीकृतौ ॥२९॥श्रीराम उवाच ।कीदृशेषु क्व दूरेषु ते जगत्सु विपश्चितः ।भ्रमन्तीति मुने ब्रूहि मयि चेज्जायते कृपा ॥३०॥कियत्यध्वनि संसारास्ते जाता येषु ते मुने ।महदेतदिहाश्चर्यमस्माकं कथितं त्वया ॥३१॥श्रीवसिष्ठ उवाच ।स्थितौ विपश्चितौ राम तावुभौ जगतोर्ययोः ।तेऽस्माकं गोचरं याते जगती यत्नतोऽपि नो ॥३२॥तृतीयो मृगतां यातो विपश्चिद्यत्र तिष्ठति ।स कदाचित्ससंसारो गोचरे नोऽवतिष्ठते ॥३३॥श्रीराम उवाच ।विपश्चिन्मृगतां यातो यस्मिञ्जगति संस्थितः ।तज्जगत्क्व महाबुद्धे यथावत्कथयेति मे ॥३४॥श्रीवसिष्ठ उवाच ।दूराद्दूरतरं गत्वा परब्रह्ममहाम्बरे ।मृगो विपश्चिज्जगति स यस्मिंस्तज्जगच्छणु ॥३५॥तदिदं विद्धि त्रिजगदिहासौ संस्थितो मृगः ।इदं तत्परमाकाशं दूरदूरे जगत्स्थितम् ॥३६॥श्रीराम उवाच ।विपश्चिदस्मादेवासौ जगतस्तां गतिं गतः ।इहैवाद्य मृगो जातः कथमेतत्समञ्जसम् ॥३७॥श्रीवसिष्ठ उवाच ।अवयवानवयवी नित्यं वेत्ति यथाखिलान् ।तथा सर्वानहं वेद्मि ब्रह्मण्यात्मन्यवस्थितान् ॥३८॥अनिष्ठितान्ससंहारान्नानाकारांस्तु तान्बहून् ।मिथः प्रोतान्मिथोदृश्यान्स्वरूपानिव पार्थिवान् ॥३९॥तत्र कस्मिंश्चिदन्यस्मिन्मार्गेऽस्मिन्निव तिष्ठति ।यद्वृत्तं कथितं राम तदेतद्भवते मया ॥४०॥विपश्चितोऽन्यसंसारे देहैर्भ्रान्ता दिगन्तरान् ।ताननन्ताम्बरे व्योम्नि तावत्कालमखिन्नधीः ॥४१॥इहैव हरिणा जातः कस्मिंश्चिद्गिरिकन्दरे ।काकतालीययोगेन भ्रान्त्वा भूरिजगद्भ्रमम् ॥४२॥स जगन्ति भ्रमन्दूरे यस्मिन्सर्गे मृगः स्थितः ।ससर्गोऽयमिति व्योम्नि काकतालीयवत्स्थितम् ४३श्रीराम उवाच ।एवं चेत्तद्वद ब्रह्मन्कस्यां ककुभि मण्डले ।कस्मिन्कस्मिंश्च शैलेऽसौ वने कस्मिन्मृगः स्थितः ॥४४॥किं करोति कथं दूर्वाश्चर्वयत्युर्वरास्पदः ।जातिं तां जरठज्ञानी कदोदारां स्मरिष्यति ॥४५॥श्रीवसिष्ठ उवाच ।योऽसौ त्रिगर्तनाथेन दत्तः क्रीडामृगस्तव ।स्थितः क्रीडामृगागारे विद्धि तं त्वं विपश्चितम् ॥४६॥ श्रीवाल्मीकिरुवाच ।श्रुत्वेति राघवस्तस्यां सभायां विस्मयान्वितः ।बालकान्मृगमानेतुं प्रेषयामास भूरिशः ॥४७॥अथानीतो मृगो मुग्धः सभां स्फारां विवेश सः ।सर्वैः सभ्यगणैर्दृष्टः पुष्टिमांस्तुष्टिमानपि ॥४८॥ताराबिन्दुयुतं देहबिन्दुभिः खं विडम्बयन् ।दृष्टिपातोत्पलासारैः सुन्दरीः परितर्जयन् ॥४९॥आदृतानादृतसभैर्नीला मरकतत्विषः ।धावंस्तृणेच्छया लोलं मुग्धैश्चकितवीक्षितैः ॥५०॥उत्कर्णोन्नयनोद्ग्रीवं क्षणभङ्गावलस्थितैः ।उत्कर्णनयनोद्ग्रीवैः सभ्यानाकुलयञ्जवैः ॥५१॥मृगमालोक्य तं लोकाः सराजमुनिमन्त्रिणः ।अनन्ता बत मायेति चिरमासन्स्मयाकुलाः ॥५२॥आश्चर्यचर्वणसुविस्मितसर्वलोका सर्वावलोकनघनोत्पलवर्षकृष्णम् ।रत्नांशुजालकचितं मृगमीक्षमाणा सासीत्सभा कमलिनी लिपिनिर्मितेव ॥५३॥इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० विप० विपश्चिन्मृगलाभो नामैकोनत्रिशदधिकशततमः सर्गः ॥१२९॥ N/A References : N/A Last Updated : October 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP