संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ७१ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ७१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकजनैः सह ।बद्धपद्मासनोऽनन्तसमाधानगतोऽभवत् ॥१॥ओंकारार्धोऽर्धमात्रान्तः शान्तनिःशेषमानसः ।लिपिकर्मार्पिताकार आसीदाशान्तवेदनः ॥२॥तमेवानुसरन्ती सा तथैव ध्यानगा सती ।वासनासीदशेषांशा शान्ता चाकाशरूपिणी ॥३॥परमेष्ठिन्यसंकल्पे तस्मिंस्तानवमेयुषि ।सर्वगानन्तचिद्व्योमरूपोऽपश्यमहं यदा ॥४॥यावत्संकल्पनं तस्य विरसीभवति क्षणात् ।तथैवाशु तथैवोर्व्याः साद्रिद्वीपपयोनिधेः ॥५॥तृणगुल्मलताशालिसमुद्भवनशक्तता ।समस्तैवास्तमागन्तुमारब्धा च शनैःशनैः ॥६॥किल तस्य विराडात्मरूपस्याङ्गैकदेशताम् ।सा बिभर्ति मही तेन तदसंवेदनोदयात् ॥७॥विचेतना सा विरसा बभूव परिजर्जरा ।मार्गशीर्षान्तवल्लीव जराविधुरतां गता ॥८॥यथास्माकमसंवित्तेरङ्गाली विरसा भवेत् ।तथा विरिंचिसंवित्तैर्धरा वैधुर्यमागता ॥९॥संपन्ना संहतानेकमहोत्पातभरावृता ।दुष्कृताङ्गारनिर्दग्धनरकोन्मुखमानवा ॥१०॥दुर्भिक्षाकाण्डदौस्थित्यदैन्यदारिद्र्यदुर्भगा ।दुःशीलाशेषवनिता निर्मर्यादनरावृता ॥११॥पांसुप्रमन्दनीहारधूलिधूसरसूर्यका ।द्वन्द्विमूर्खमहादुःखिव्यसनिव्याधिताकुला ॥१२॥अग्निदाहजलापूरयुद्धप्रोच्छिन्नमण्डला ।अवृष्ट्यवग्रहोन्नष्टकष्टचेष्टितपामरा ॥१३॥अशङ्कितमहोत्पातपतत्पर्वतपत्तना ।शिशुश्रोत्रियमुन्यार्यगुणिनाशरुदज्जना ॥१४॥अशङ्कितस्थलीमध्यसंजातागाधकूपका ।वर्णसंकरनारीणामासक्तजनभूमिपा ॥१५॥अट्टशूलाखिलजना शिवशूलचतुष्पथा ।केशैकशूलवनिता पात्रशूलजनेश्वरा ॥१६॥दुःखशूलसमाचारा द्वन्द्वशूलाखिलप्रजा ।अधर्मशूलवनिता पानशूलजनेश्वरा ॥१७॥अधर्मशूलवलिता कुशास्त्रशतशूलिनी ।दुर्जनाखिलवित्ताढ्या विपद्विहतसज्जना ॥१८॥अनार्यवसुधापाला तदनादृतपण्डिता ।लोभमोहभयद्वेषरागरोगरजोरता ॥१९॥अप्यन्यगामिपुरुषा रुषाभिहतसद्विजा ।अनारतपराक्रन्दपरापर्यन्तपामरा ॥२०॥दस्यूत्सन्नपुरग्रामदेवद्विजसमाश्रया ।आपातमधुरारम्भदुःखदोदरभङ्गुरा ॥२१॥आलस्योल्लासविलसत्कार्यवैधुर्यधर्मिणी ।सर्वापदुपतापान्ता क्रमेणोत्सन्नदिग्गणा ॥२२॥भस्मशेषपुरग्रामा निर्जनाखिलमण्डला ।रोरूयमाणभस्माभ्रकुण्डलोड्डामराम्वरा ॥२३॥दुर्भगाडम्बरारम्भरोदनोरुरवोदरी ।मुष्टिप्रमाणजनता जनतापानुषङ्गिणी ॥२४॥नीरसाशेषदेशान्ता सर्वर्तुगुणवर्जिता ।इत्यस्य पार्थिवे धातौ ब्रह्मणो गतवेदने ॥२५॥पृथिवी पृथुवैधुर्या संपन्नासन्ननाशतः ।अथ तत्संविदुन्मुक्तो जलधातुः क्षयोन्मुखः ॥२६॥यदा विक्षुभितात्मासीत्तदा नियत्तिलङ्घनात् ।समुत्सार्यार्यमर्यादामर्णवा विवृतार्णसः ॥२७॥प्रवृत्ता विकृतिं गन्तुमुन्मत्ता इव राविणः ।वीचिविक्षोभविन्यासैर्वेलाविपिनलावकाः ॥२८॥कल्लोलवलनावर्तविवर्तोद्वर्तिताश्रयाः ।महाभ्रभ्रमदुत्तुङ्गतरङ्गात्तनभोदिशः ॥२९॥बृहद्गुलुगुलावर्तगर्जनोद्द्रवकन्दराः ।सीकरौघमहारम्भघनसंवलिताचलाः ॥३०॥चलच्चलचलद्वीरमकराघूर्णितान्तराः ।उल्लसन्मकराक्रान्तद्रुमकाननितोदराः ॥३१॥दरीविदारणभ्रष्टसिंहाहतजलेचराः ।ऊर्म्युदस्तमहारत्नभरतारकिताम्बराः ॥३२॥उत्फालमकरच्छन्ननभश्चरबृहद्धनाः ।परस्परोर्मिसंघट्टभांकारकटुटांकृताः ॥३३॥तरत्तरलमातङ्गफूत्कारा धौतभास्कराः ।अन्योन्यवेल्लनव्यग्रप्रविदीर्णाद्रिभित्तयः ॥३४॥तटपर्वतलुण्टाकतरङ्गकरमण्डलाः ।गर्जद्गिरिदरीगेहविशदुन्मत्तवारयः ॥३५॥भूपाः परपुराक्रान्ता लग्ना इव हतारयः ।तारारवरणद्गेहविद्रावितनभश्चराः ॥३६॥प्रलुण्ठितवनव्यूहलूनकाननिताम्बराः ।सपक्षपर्वताकारतरङ्गापूरिताम्बराः ॥३७॥महारवमरुच्छिन्नकल्लोलाचलचालिताः ।चञ्चत्तीरगिरिव्रातपतत्तटरटज्जलाः ॥३८॥उल्लसद्विपुलावर्तप्रोत्क्षिप्तमकरोत्कराः ।विमज्जन्निस्तलावर्तनिगीर्णगिरिकन्दराः ॥३९॥दरीदलनसंप्राप्तदृषद्दशनदन्तुराः ।श्रृङ्गलम्बिदरीप्रान्तमग्नवीचिजलेभकाः ॥४०॥व्यालोलवलनाक्रान्तविटपिप्रोतकच्छपाः ।यमेन्द्रवसुधावाहैरुत्कर्णैर्भयविह्वलैः ॥४१॥श्रूयमाणपतच्छैलतटीकटकटारवाः ।मत्स्यपुच्छच्छटाच्छिन्नमग्नोन्मग्नद्रुताद्रयः ॥४२॥लीलालूनवनव्यूहशीतलासारवारयः ।प्रज्वलद्वडवावह्निज्वालावलिमिलज्जलाः ॥४३॥सरसेन विभोर्नाशैर्विशङ्कितमहानलाः ।मिलच्छिखरिमालाग्रजलमातङ्गयोधिनः ॥४४॥नृत्यन्तीव तरङ्गौधैर्जलावलनवेधिनः ।जलाचलाचलान्योन्यसंघट्टस्फोटपण्डिताः ॥४५॥बृहद्गिरिवनव्रातप्राणिमण्डलमण्डिताः ।उड्डामरवनेमेन्द्रभेरीवादनभासुरैः ॥४६॥असुरैरिव पातालं कल्लोलैरलमाकुलाः ।अथोदपतदुन्नासदिङ्नागवदनध्वनिः ॥४७॥पातालतलताल्वन्तर्विस्फोटामोटनोद्भटः ।चञ्चलाचलकीलोर्वी चचाल क्षणचालिता ॥४८॥लोला शैवालवल्लीव व्यालोलाम्भोधिलङ्घिता ।अथ दुर्वारनिर्घोषनिर्वाताडम्बरान्विता ॥४९॥पुस्फोटेव पतन्ती द्यौर्दिशां पतिरवारवैः ।आवर्तवलनाकाराः केतवः पेतुरम्बरात् ॥५०॥हेमरत्नमया मुक्ताः सिन्दूरभुजगा इव ।ककुब्भ्यो नभसो भूमेरुदगुर्दग्धदिक्तटाः ॥५१॥चलज्ज्वालाजटाटोपा विविधोत्पातपङ्कयः ।पृथ्व्यादीन्यसुरादीनि ब्रह्मोन्मुक्तानि सर्वतः ॥५२॥द्विविधानि महाभूतान्यलं संक्षोभमाययुः ।चन्द्रार्कानिलशक्राग्नियमाः कोलाहलाकुलाः ॥५३॥परिपातपरा आसन्ब्रह्मलोकगतेश्वराः ।कम्पैः कटकटारावपतत्पादपपङ्कयः ॥५४॥भूमेरन्वभवन्भूरिदोलान्दोलनमद्रयः ।भूकम्पलोलकैलासमेरुमन्दरकन्दराः ।पेतुः कल्पतरून्मुक्ता रक्तस्तबकवृष्टयः ॥५५॥लोकान्तराद्रिपुरवारिधिकाननान्त-मुत्पातकल्पपवनेन मिथो हतानाम् ।कोलाहलैर्जगदभूत्प्रविकीर्णशीर्णंपूर्णार्णवे त्रिपुरपूर इवाभिपाती ॥५६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पाषा० कल्पक्षोभवर्णनं नामैकसप्ततितमः सर्गः ॥७१॥ N/A References : N/A Last Updated : September 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP