संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ६७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ६७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६७ Translation - भाषांतर विद्याधर्युवाच ।यावत्तं सर्गमागच्छ प्रसादः क्रियतां मुने ।आश्चर्येषूपपन्नेषु महान्तो ह्यतिकौतुकाः ॥१॥तथेत्युक्ते मया सार्धं गन्तुमारब्धमम्बरे ।वात्यया सौरभेणेव शून्ये शून्येन शून्यया ओ ॥२॥अथाहं दूरमध्वानं शून्यमुल्लङ्घ्य नाभसम् ।नभःस्थं भूतसंघातं तया सार्धमवाप्तवान् ॥३॥तमुल्लङ्घ्य चिरेणात्र भूतसंचारमम्बरे ।लोकालोकशिरोव्योम प्राप्तोऽस्मि धवलाम्बुदम् ॥४॥उत्तरांशेन्दुशुभ्राभ्रपीठान्निर्गत्य तां शिलाम् ।आनीतोस्मि तथोत्तुङ्गां तप्तकाञ्चनकल्पिताम् ॥५॥यावत्पश्याम्यहं शुभ्रां शिलां तां न च तज्जगत् ।कलधौतमयीमुच्चैरग्निलोकतटीमिव ॥६॥तदा मयोक्ता सा कान्ता क्व भवत्सर्गभूरिति ।क्व रुद्रार्काग्नितारादि क्व लोकान्तरसप्तकम् ॥७॥कार्णवाकाशककुभः क्वोन्मज्जननिमज्जने ।क्व महाम्भोदसंभारः क्व ताराम्बरडम्बरम् ॥८॥क्व शैलशिखरश्रेण्यः क्व महार्णवलेखिकाः ।क्व द्वीपवलयाः सप्त क्व तप्तकनकावनिः ॥९॥क्व कार्यकालकलनाः क्व भूतभुवनभ्रमः ।क्व विद्याधरगन्धर्वाः क्व नरामरदानवाः ॥१०॥क्वर्षिभूपालमुनयः क्व नयापनयक्रमः ।क्व पञ्चयामयामिन्यः क्व स्वर्गनरकभ्रमः ॥११॥क्व पुण्यपापकलना क्व कलाकालकेलयः ।क्व सुरासुरवैराणि क्व द्वेषस्नेहरीतयः ॥१२॥वदत्येवं मयि वचः सोवाच वरवर्णिनी ।विस्मयाकुलमालोक्य शिलामलिविलोचना ॥१३॥विद्याधर्युवाच ।पश्याम्यखिल नात्मीयमहं सर्वमिहोपले ।मुकुरप्रतिबिम्बस्थपुरान्यपुरवज्जनम् ॥१४॥नित्यानुभव एवात्र दर्शने कारणं मम ।तदभावो मुने मन्ये ते कारणमदर्शने ॥१५॥अन्यच्च चिरकालैकद्वैतसंकथयानया ।शुद्धातिवाहिकैकात्मदेहता विस्मृतावयोः ओ ॥१६॥ममातिसुचिराभ्यस्तमपि व्योम लतामिव ।गतं निजं जगदिदं यतः पश्यामि न स्फुटम् ॥१७॥अभूद्यत्स्वजगत्पूर्वमतिप्रकटमेव मे ।तत्पश्यामीदमादर्श इव बिम्बितमस्फुटम् ॥१८॥चिरव्यर्थोत्थया नाथ संकथाव्यथया मिथः ।स्वास्थ्यं विस्मृतमात्मीयमवदाततमं ततम् ॥१९॥योऽभ्यासः प्रकचत्यन्तः शुद्धचिन्नभसो रसात् ।भवेत्तन्मयमेवान्तराबालमिव लक्ष्यते ॥२०॥न सच्छास्त्रेण सा विद्धि न सन्न्यायेन सा कला ।अस्ति नास्त्यमितोद्योगाद्यदभ्यासान्न सिद्ध्यति ॥२१॥स्वजगत्संतताभ्यासवशतो मां कथाभ्रमः ।नूनमाक्रान्तवानेष द्वयोर्हि बलवाञ्जयी ॥२२॥इष्टवस्त्वर्थिनां तज्ज्ञसूपदिष्टेन कर्मणा ।पौनःपुन्येन करणान्नेतरच्छरणं मुने ॥२३॥अयमित्थमिहाज्ञानभ्रमः प्रौढोऽहमात्मकः ।शाम्यति ज्ञानचर्चाभिः पश्याभ्यासविजृम्भितम् ॥२४॥ अहं शिष्याबला बाला पश्यामि त्वं न पश्यसि ।सर्वज्ञोऽपि शिलासर्गं पश्याभ्यासविजृम्भितम् ॥२५॥अज्ञोऽपि तज्ज्ञतामेति शनैः शैलोपि चूर्ण्यते ।बाणोप्येति महालक्ष्यं पश्याभ्यासविजृम्भितम् ॥२६॥इत्थं नाम परिप्रौढा मिथ्याज्ञानविषूचिका ।शाम्यत्येव विचारेण पश्याभ्यासविजुम्मितम् ॥२७॥अभ्यासेन कटुद्रव्यं भवत्यभिमतं मुने ।अन्यस्मै रोचते निम्बस्त्वन्यस्मै मधु रोचते ॥२८॥अबन्धुर्बन्धुतामेति नैकट्याभ्यासयोगतः ।यात्यनभ्यासतो दूरात्स्नेहो बन्धुषु तानवम् ॥२९॥आतिवाहिकदेहोऽयं शुद्धचिद्व्योम केवलम् ।आधिभौतिकतामेति भावनाभ्यासयोगतः ॥३०॥आधिभौतिकदेहोऽसौ धारणाभ्यासभावनात् ।विहंगवत्खमभ्येति पश्याभ्यासविजृम्भितम् ॥३१॥पुण्यानि यान्ति वैफल्यं वैफल्यं यान्ति मातरः ।भाग्यानि यान्ति वैफल्यं नाभ्यासस्तु कदाचन ॥३२॥दुःसाध्याः सिद्धिमायान्ति रिपवो यान्ति मित्रताम्।विषाण्यमृततां यान्ति संतताभ्यासयोगतः ॥३३॥येनाभ्यासः परित्यक्त इष्टे वस्तुनि सोऽधमः ।कदाचिन्न तदाप्नोति वन्ध्या स्वतनयं यथा ॥३४॥यदप्यभिमतं वस्तु स्वभ्यासेन तदर्जनात् ।तद्युक्तिपूर्वकं त्याज्यमामृत्योर्जीवितं यथा ओ ॥३५॥इष्टे वस्तुनि नाभ्यासं यः करोति नराधमः ।सोऽनिष्टेऽनिष्टमाप्नोति नरकान्नरकान्तरम् ॥३६॥तरन्ति सरितं स्फीतां संसारासारसेविनः ।त एवात्मविचाराख्यमभ्यासं न त्यजन्ति ये ॥३७॥अभ्यासभासोऽभिमतं वस्तु प्रकटयन्त्यलम् ।प्रापयन्ति च निर्विघ्नं घटं दीपप्रभा यथा ॥३८॥यथा कल्पद्रुमलताः सच्चिन्तामणयो यथा ।फलन्ति शरदश्चैतास्तथैवाभ्यासभूमयः ॥३९॥इष्टवस्तु चिराभ्यासभास्वान्भासयति प्रजाः ।तथेन्द्रियाख्यां देहोर्व्यां रात्रिं पश्यन्ति नो यथा ॥४०॥सर्वस्य जन्तुजातस्य सर्ववस्त्ववभासने ।सर्वदैवैक एवोच्चैर्जयत्यभ्यासभास्करः ॥४१॥चतुर्दशविधायास्तु भूतजातेर्न कस्यचित् ।सिध्यत्यभिमतं वस्तु विनाभ्यासमकृत्रिमम् ॥४२॥पौनःपुन्येन करणमभ्यास इति कथ्यते ।पुरुषार्थः स एवेह तेनास्ति न विना गतिः ॥४३॥दृढाभ्यासाभिधानेन यत्ननाम्ना स्वकर्मणा ।निजवेदनजेनैव सिद्धिर्भवति नान्यथा ॥४४॥अभ्यासभास्वति तपत्यवनौ वने चवीरस्य सिध्यति न यन्न तदस्ति किंचित् ।अभ्यासतो भुवि भयान्यभयीभवन्तिसर्वासु पर्वतगुहास्वपि निर्जनासु ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्र० उ० पाषा० अभ्यासप्रशंसा नाम सप्तषष्टितमः सर्गः ॥६७॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP