संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ९२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ९२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ वातमयीं कृत्वा जगत्प्रेक्षणकौतुकात् ।धारणां धीरया वृत्त्या विततामहमागतः ॥१॥संपन्नोऽस्म्यनिलो वल्लीललनालोकलासकः ।कमलोत्पलकुन्दादिजालकामोदपालकः ॥२॥सीकरोत्करनीहारहेलाहरणतत्परः ।सुरतश्रान्तसर्वाङ्गसमाह्लादनतर्षुलः ॥३॥तृणगुल्मलतावल्लीदलताण्डवपण्डितः ।लतौषधिफलोल्लासकुसुमामोदमण्डितः ॥४॥मृदुर्मङ्गलकालेषु ललनालोकलालकः ।भीम उत्पातकालेषु पर्णवत्प्रौढपर्वतः ॥५॥नन्दने कुन्दमन्दारमकरन्दरजोरुणः ।नरकेऽङ्गारसंभारभूरिनीहारभासुरः ॥६॥सागरे सरलावर्तलेखानुमितसर्पणः ।दिवि वारिदसंचारमृष्टामृष्टेन्दुदर्पणः ॥७॥नक्षत्रक्षत्रसैन्यस्य रथो रंहोविबृंहितः ।त्रैलोक्यसिद्धसंचारविमानधरणे हितः ॥८॥सहोदर इव क्षिप्रगामित्वादस्य चेतसः ।अनङ्गोऽपि समस्ताङ्गः स्पन्दानन्दनचन्दनः ॥९॥तुषारसीकरासारजरारोमविजर्जरः ।आमोदयौवनोन्मादो मौनमार्दवशैशवः ॥१०॥नन्दनामोदमधुरो मधुरोदारसंसृतिः ।चारुचैत्ररथोन्मुक्तो हृतकान्तारतश्रमः ॥११॥चिरं गङ्गातरङ्गाङ्गदोलान्दोलनसश्रमः ।श्रमस्वरूपाज्ञतया निवारितततश्रमः ॥१२॥पुष्पभारानताः स्पर्शैर्वसन्तवनितालताः ।चिरं चपलयँल्लोलदलहस्तालिलोचनाः ॥१३॥चिरं भुकत्वेन्दुबिम्बाग्रं सुप्ता पूर्णाभ्रतल्पके ।विधूय कमलानीकमपनीतरतश्रमः ॥१४॥समस्तरजसामेको व्योमगामी तुरंगमः ।आमोदमदमातङ्गसमुल्लासमहासुहृत् ॥१५॥धीरेणाप्य तडिच्छृङ्गं पयोदपशुपालकः ।तन्तुः सीकरमुक्तानामरिधर्मा रजोरुजाम् ॥१६॥आकाशकुसुमामोदः सर्वशब्दसहोदरः ।नाडीप्रणालीसलिलं भूताङ्गोपाङ्गवर्तकः ॥१७॥मर्मकर्मकरैकात्मा हृद्गुहागेहकेसरी ।नित्यमेकान्तपथिकः सारविज्जातवेदसः ॥१८॥आमोदरत्नलुण्टाको विमाननगरावनिः ।दाहान्धकारशीतांशुः शैत्येन्दुक्षीरसागरः ॥१८॥प्राणापानकलारज्ज्वा प्राणिनां यन्त्रवाहकः ।अरिर्मित्रं च द्वीपानां द्वीपसंचारणे रतः ॥२०॥पुरोगतोऽप्यदृश्यात्मा मनोराज्यपुरोपमः ।तालवृन्ततिलेतैलमालानं स्पन्ददन्तिनः ॥२१॥एकक्षणलवेनैव चालिताखिलभूधरः ।वर्णावलितरङ्गाणां गङ्गावाह इवैककृत् ॥२२॥धूमाम्बुवाहरजसां महावर्तकृदम्भसाम् ।द्युनदीवाहवार्योघनभोनीलोत्पलालिकः ॥२३॥शरीरावेष्टितोन्मुक्तपुराणतृणचोपनः ।स्पन्दपद्मवनादित्यः शब्दवर्षैकवारिदः ॥२४॥व्योमकाननमातङ्गः शरीरगृहगर्गटः ।धूलीकदम्बविपिनमालालिङ्गननायकः ॥२५॥स्त्यानीकरणसंशोषधृतिस्पन्दनसौरभैः ।सशैत्यैः कर्मभिः षड्भिरलब्धक्षण आक्षयम् ॥२६॥रसाकर्षणसव्यग्रो नित्यं भ्रातेव तेजसः ।हरणादानकर्तॄणामङ्गानां विनियोगकृत् ॥२७॥शरीरनगरे नाडीमार्गैर्गतिनिरर्गलः ।रसभाण्डे परावर्तादायुर्मणिमहावणिक् ॥२८॥शरीरनगरीनाशनिर्माणैकपरायणः ।रसकिट्टकलाधातुपृथक्करणकोविदः ॥२९॥प्रतिसूक्ष्माणुकं देहे ततो दृष्टं मया जगत् ।तत्रेत्थं रूपवानस्मि स्फुटमाभोगि सुस्थिरम् ॥३०॥परमाणुप्रति त्वत्र प्रोह्यन्त इव सर्गकाः ।न च किंचित्किलोह्यन्ते स्वा(खा?)कृते किमिवोह्यते ॥३१॥सचन्द्रार्कानिलाग्नीन्द्रपद्मवैश्रवणेश्वराः ।सब्रह्महरिगन्धर्वा विद्याधरमहोरगाः ॥३२॥ससागरगिरिद्वीपदिगन्तरमहार्णवाः ।सलोकान्तरलोकेशक्रियाकालकलाक्रमाः ॥३३॥सस्वर्गभूमिपातालततलोकान्तरान्तराः ।सभावाभाववैधुर्यजरामरणसंभ्रमाः ॥३४॥एवं नाम तदा राम भूतपञ्चकरूपिणा ।मया प्रविहृतं तत्र त्रैलोक्यनलिनोदरे ॥३५॥रसः पीतोऽनुभूतश्च क्ष्माजलानिलतेजसाम् ।मूलजालेन वृक्षाणां प्राणिनां वसता मया ॥३६॥रसायनघनाङ्गेषु चन्दनद्रवशोभिषु ।लुठितं चन्द्रबिम्बेषु तुषारशयनेष्विव ॥३७॥सर्वर्तुवनजालेषु नानामोदानि दिक्ष्वलम् ।भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददताऽलये ॥३८॥ततोन्नतासु मृद्वीषु स्वास्तीर्णास्वम्बराजिरे ।सुप्तं शुभ्राभ्रमालासु नवनीतस्थलीष्विव ॥३९॥सुमनःपत्रमृदुषु नीललक्ष्मीविलासिषु ।सुरसिद्धाङ्गनाङ्गेषु दूरास्तस्मरवासनम् ॥४०॥कृतः कुमुदकह्रारकमले नलिनीवने ।कोमलः कलहंसीभिर्लीलाकलकलारवः ॥४१॥सरत्सरिच्छिरासारा मूलभूमण्डलान्विताः ।अङ्गैरूढाः स्फुरद्भूता लोमालय इवाद्रयः ॥४२॥खाद्रयः प्रथिता दीर्घसरित्सूत्रैः समुद्रकैः ।आदर्शैरिव विश्रान्तमङ्गेषु प्रतिबिम्बिभिः ॥४३॥भूतसर्गेण विश्रान्तं सिद्धविद्याधरादिना ।मद्देहे चेतितेनेव मक्षिकायौकरूपिणा ॥४४॥मत्प्रसादेन मुदितैर्लब्धमर्कादिभिर्वपुः ।कृष्णरक्तसितापीतहरितैर्हरितैरिव ॥४५॥समुद्रमुद्रया सप्तद्वीपसप्तात्मरूपया ।संस्थया स्थापिता भूमिः प्रकोष्ठे वलयोपमा ॥४६॥विद्याधरपुरन्ध्रीणां परामृष्टाङ्गयष्टिना ।अदृष्टेनैव विहितः पुलकोल्लास आत्मना ॥४७॥सरिच्छिरामलस्फाररसानि सुषिराणि च ।जगन्त्येवास्थिजालानि ममासन्संस्थितानि च ॥४८॥असंख्यैर्व्योममातङ्गैश्चन्द्रार्कचलचामरैः ।उदुम्बरान्तर्मशकैरिव मद्धृदये स्थितम् ॥४९॥सर्वपातालपादेन भूतलोदरधारिणा ।स्वमूर्ध्नापि तदा राम न त्यक्ताथ पराणुता ॥५०॥दिक्षु सर्वासु सर्वत्र सर्वदा सर्वकारिणा ।सर्वात्मनाप्यसर्वेण शून्यरूपेण संस्थितम् ॥५१॥किंचित्त्वे सदकिंचित्त्वं साकृतित्वं निराकृति ।अनुभूतं सजाड्यं च चेतनत्वमलं मया ॥५२॥मैनाकमुग्धपीनस्य सागरस्यावनिं प्रति ।सन्ति सर्गसहस्राणि स्थाणुभूतान्यथो मया ॥५३॥जगन्त्यङ्गे मयोढानि गूढानि प्रकटान्यपि ।प्रतिबिम्बपुराणीव मुकुरेणाजडात्मना ॥५४॥एवं जलानिलाग्नित्वं भूमित्वं खात्मना मया ।कृतं चितेव स्वप्नेषु बत मायाविजृम्भितम् ॥५५॥अपि तस्यामवस्थायां जगन्त्याकाशकोशके ।मया दृष्टान्यसंख्यानि परमाणुकणं प्रति ॥५६॥परमाणु प्रति व्योम परमाणु प्रति स्थितम् ।सर्गवृन्दं यथा स्वप्ने स्वप्नान्तरयुतं पुरम् ॥५७॥स्वमेवाहमभूवं भूमण्डलं द्वीपकुण्डलम् ।सर्वात्मनापि न व्याप्तं किंचनापि मया क्वचित् ॥५८॥समुत्पादयताशेषं लतातरुतृणाङ्कुरम् ।भूतलेन रसाः कृष्टा मयार्थेनैव पुंभृताम् ॥५९॥अवदाततमे युद्धबोधकालमुपेयुषि ।जगल्लक्षाणि तिष्ठन्ति न तिष्ठन्ति च कानिचित् ॥६०॥चिति यास्तु चमत्कारं चमत्कुर्वन्ति यस्त्वतः ।स्वचमत्कृतयोऽन्तस्थास्तदेताः सृष्टिदृष्टयः ॥६१॥अनुभूतं कृतं कष्टं यावत्क्वचन किंचन ।परमार्थचमत्कारादृते नेहोपलभ्यते ॥६२॥प्रत्येकं विश्वरूपात्मा सर्वकर्ता निरामयः ।प्रबुद्धः शुद्धबोधात्मा सर्वं ब्रह्मात्मकं यतः ॥६३॥सर्वः सर्वत्र सर्वात्मा सर्वगः सर्वसंश्रयः ।एतत्प्रबुद्धविषयमप्रबुद्धं न वेद्म्यहम् ॥६४॥आकाशकोशविशदात्मनि चित्स्वरूपेयेयं सदा कचति सर्गपरम्परेति ।सान्तस्तदेव किल ताप इवान्तरूष्माभेदोपलम्भ इति नास्ति सदस्त्यनन्तम् ॥६५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा० परमार्थसर्गयोरैक्यप्रतिपादनं नाम द्विनवतितमः सर्गः ॥९२॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP