संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १५६ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १५६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १५६ Translation - भाषांतर व्याध उवाच ।अनन्तरं हे भगवन्वितताकाशवासिनः ।किंभविष्यति मे तत्र देहेऽधःपातिनि क्षितौ ॥१॥मुनिरुवाच ।शूणुष्वावहितस्तस्मिन्देहे तव परिक्षते ।किं भविष्यति भव्यात्मस्तस्मिन्परमकाम्बरे ॥२॥देहे तस्मिन्परिभ्रष्टे जीवस्तु प्राणसंयुतः ।भविष्यत्यम्बरे वातलवो व्याततरूपिणि ॥३॥तस्मिन्वातलवे चेतो दृश्यं हृत्स्थं स्थितं पुरः ।स्फारं द्रक्ष्यति भूपीठं भवान्स्वप्ने जगद्यथा ॥४॥महत्त्वाच्चित्तवृत्तेस्तु जीवो द्रक्ष्यति ते ततः ।राजाहमस्मि भूपीठ इति संकल्पितार्थभाक् ॥५॥तत्रास्य सहसैवाशु प्रतिभोदेष्यति स्वयम् ।अहमस्मि नृपः श्रीमान्सिन्धुर्नाम्नातिमानितः ॥६॥अष्टवर्षाय मे राज्यं गते पितरि काननम् ।भुवश्चतुःसमुद्रायाः पित्रा दत्तमुपागतम् ॥७॥सीमान्ते भूपतिः शत्रुर्विदूरथ इति श्रुतः ।विद्यते यः प्रयत्नेन विना नाम न जीयते ॥८॥इदं मे कुर्वतो राज्यं संवत्सरशतं गतम् ।अहो भृत्यकलत्रौघैः सह भुक्तं मया सुखम् ॥९॥कष्टमेष प्रवृद्धो मे सीमान्तवसुधाधिपः ।अनेन सह संग्रामो दारुणः समुपस्थितः ॥१०इति चिन्तयतस्तत्र विदूरथमहीभुजा ।भविष्यति महद्युद्धं चतुरङ्गबलक्षयि ॥११॥महता तेन युद्धेन हनिष्यसि विदूरथम् ।करवाललतालूनजङ्घं त्वं विरथोऽपि सन् ॥१२॥चतुःसागरपर्यन्ते भूतले भूपतिस्ततः ।भविष्यसि भयाक्रान्तदिक्पालादृतशासनः ॥१३॥स त्वं सिन्धुर्भवन्प्राप्तसकलावनिमण्डलः ।पण्डितैर्मन्त्रिभिः सार्धं करिष्यसि कथा इमाः ॥१४॥मन्त्री वदिष्यति ।अत्याश्चर्यमिदं देव यदेवं स विदूरथः ।देवेन विजितो युद्धे नीतश्च यमसादनम् ॥१५॥त्वं वक्ष्यसि ।भोः साधो सधनस्यास्य कल्पान्तार्णवरंहसः ।वैरी विदूरथो राजा किमर्थं वद दुःसहः ॥१६॥मन्त्री वदिष्यति ।लीला नामास्य भार्यास्ति तयातितपसार्जिता ।माता सरस्वतीदेवी जगद्धात्री निरञ्जना ॥१७॥गृहीतायाः सुतात्वेन सास्या भुवनभाविनी ।संसाधयति कार्याणि मोक्षादीन्यपि हेलया ॥१८॥वरेण शब्दमात्रेण जगदप्यजगत्क्षणात् ।करोति सा भवन्नाशे तस्याः कैव कदर्थना ॥१९॥सिन्धुर्वदिष्यति ।त्वया वै युक्तं कथितं यद्येवं तद्विदूरथः ।अशक्यो जेतुमाश्चर्य एतस्य समरे वधः॥२०तदेवं संप्रसादेन भगवत्या समन्वितः ।किमित्यस्मिन्रणे तस्मिञ्जयं राजा न लब्धवान्॥२१॥मन्त्री वदिष्यति ।तेन संप्रार्थिता देवी सर्वकालमखेदिना ।मोक्षोऽस्तु मम संसारादिति तामरसेक्षण ॥२२॥तया तेन विभो तस्य स एवावन्ध्यसंविदा ।संपादितस्तेन तदाश्रित आजौ पराजयः ॥२३॥सिन्धुर्वदिष्यति ।यद्येवं तन्मया देवी सदैवैषा प्रपूज्यते ।मोक्षं किमिति मे नैषा ददाति परमेश्वरी ॥२४॥मन्त्री वदिष्यति ।एषा हि ज्ञप्तिरास्तेऽन्तः सर्वस्य हृदये सदा ।संविद्रूपा भगवती सैव प्रोक्ता सरस्वती ॥२५॥येन येन यथात्मीया प्रार्थ्यते स्वयमेव सा ।प्रयच्छति तथैवाशु तस्माच्चिदनुभूयते ॥२६॥न प्रार्थितैषा भवता मोक्षार्थमरिमर्दन ।प्रार्थितैव त्वया संविदात्मीया शत्रुशान्तये ॥२७॥सिन्धुर्वदिष्यति ।न प्रार्थिता मया कस्मादनेनैषा सरस्वती ।संविच्छुद्धा मया कस्मात्प्रार्थिता नेह मुक्तये ॥२८॥मदाशयगताप्येषा ज्ञप्तिं दत्त्वा सरस्वती ।मन्मोक्षाय किमित्यङ्ग सद्रूपापि न चेष्टते ॥२९॥मन्त्री वदिष्यति ।अशुभः प्राक्तनोऽभ्यासस्तवास्ति रिपुघातिनः ।तेनैषा मुक्तये नत्वा त्वया न प्रार्थिता विभो ॥३०यच्चित्तस्तन्मयो जन्तुर्भवतीत्याजगत्स्थितेः ।आबालमेव संसिद्धं कर्तुं शक्नोति कोऽन्यथा ॥३१॥यदेव येनामलयामलात्मसंवेद्यतेऽभ्यासमयं विदान्तः ।सर्वोपमर्देन तदेव सोऽङ्गसदस्त्वसद्वास्तु भवत्यविघ्नम् ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० श० सिन्धुसंबोधनं नाम षट्पञ्चाशदधिकशततमः सर्गः ॥१५६॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP