संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १३१ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १३१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १३१ Translation - भाषांतर दशरथ उवाच ।क्लिष्टोऽयं यदविद्यार्थं विपश्चिदविपश्चितः ।तदहं चेष्टितं मन्ये कष्टोऽवस्तुनि किंग्रहः ॥१॥श्रीवाल्मीकिरुवाच ।अस्मिन्नवसरे तत्र राज्ञः पार्श्वे व्यवस्थितः ।प्रसङ्गपतितं वाक्यं विश्वामित्रोऽभ्युवाच ह ॥२॥अप्राप्तोत्तमबोधानां बोधवेद्या विलक्षणाः ।भवन्त्येवंविधा राजन्बहूनां बहवो भृशम् ॥३॥अद्य सप्तदशं वर्षलक्षमक्षीणनिश्चयाः ।एवमेव भ्रमन्तोऽस्यां वटधाना भुवि स्थिताः ॥४॥भूमेरन्तावलोकार्थमद्याप्युद्वेगवर्जितम् ।प्रवृत्ता न निवर्तन्ते वहनात्सरितो यथा ॥५॥अयं खलु महालोको वर्तुलो व्योम्नि संस्थितः ।बालसंकल्पतरुवद्ब्राह्मसंकल्पनिश्चयः ॥६॥कन्दुके व्योम्नि संरुद्धे दशदिक्कं पिपीलिकाः ।इत्थं भ्रमन्ति भूतानि तदाधाराणि नित्यदा ॥७॥भूगोलकाधोभागानि तदङ्गान्यूर्ध्ववन्ति च ।तदा भूतानि तिष्ठन्ति तान्याविश्य भ्रमन्ति च ॥८॥तमेवाविश्य दूरेण सरितश्चर्क्षमण्डलम् ।असंस्पर्शा भ्रमन्त्युऽच्चैः सचन्द्रार्कादि संततम् ॥९॥इहैव सर्वदिक्कं द्योस्तामावेष्ट्य व्यवस्थिता ।सर्वदिक्कं खमत्यूर्ध्वं तस्याधस्तान्महीतलम् ॥१०॥भावाः पतन्तो धावन्ति तस्याधः सर्वतोङ्गकम् ।यत्रोत्पतन्तो गच्छन्ति तदूर्ध्वमिति शब्दितम् ॥११॥तत्रैकदेशे विद्यन्ते वटधानाभिधानकाः ।जातास्तेषां त्रयो राजन् राजपुत्राः पुराभवन् ॥१२॥ते ह्येवमेकसंकल्पा भूम्यादेर्दृश्यवर्त्मनः ।कोऽन्तः स्यादिति निर्याता विहर्तुं दृढनिश्चयाः॥१३॥पुनर्वारि पुनर्भूमिस्तेषामाक्रमतां चिरम् ।नवलब्धशरीराणां दीर्घकालो व्यवर्तत ॥१४॥स्वच्छकन्दुकवम्रीकन्यायेनानिशमत्र ते ।भ्रमन्तो नाप्नुवन्त्यन्तमन्यत्वं संविदन्ति च ॥१५॥व्योमस्थकन्दुकभ्रान्तपिपीलिकवदाकुलम् ।अद्यापि संस्थिता राजन्न च खेदं व्रजन्ति ते ॥१६॥देशं भूगोलकस्यास्य यं यमासादयन्ति च ।इहेव तत्र तत्रोच्चैरधश्चोर्ध्वं तथा दिशः ॥१७॥ते वदन्ति महाराज यद्यस्माभिरितोद्यतैः ।न तावदन्तः संप्राप्तः संचराम इतः परम् ॥१८॥इत्थं न किंचिदेवेदं ब्रह्मसंकल्पडम्बरम् ।किंचित्संकल्पमज्ञानमनन्तं स्वप्नदृश्यवत् ॥१९॥कल्पनं तत्परं ब्रह्म परं ब्रह्मैव कल्पनम् ।चिद्रूपं नानयोर्भेदः शून्यत्वाकाशयोरिव ॥२०॥चिन्मात्रं यद्यदाभातं जलवाहविवर्तवत् ।तत्तादृक्कथमन्याभमन्यस्यासंभवाद्भवेत् ॥२१॥अभावः खे च खमिदं सर्गादौ परमाम्बरम् ।स्वयं जगदिवाभाति नान्यत्प्रलयसर्गकौ ॥२२॥यथा कषति चिद्रूपं तथैव रतिमेत्य तत् ।दृष्टादृष्टैः स्वसंसारैश्चिरमास्ते यथा चिरम् ॥२३॥दृश्यात्मकं रूपमेकमेकमस्यैवमक्षयम् ।स्वयमेवमजं भाति यन्न भातीव किंचन ॥२४॥चिदणोरुदरे सन्ति समस्तानुभवाणवः ।शिलाः शैलोदर इव स्वच्छाः खात्मनि खात्मिकाः॥स्वभावनिष्ठास्तिष्ठन्ति ते यदव्याकृतात्मनि ।मा तिष्ठन्ति तु वै ते यदव्यावृत्ताः परे पदे ॥२६॥तदेव जगदित्युक्तं ब्रह्म भारूपमाततम् ।पूर्वापरपरामर्शान्निपुणं निपुणाशयाः ॥२७॥अत्याश्चर्यमनष्टोऽयं परमात्सदनात्स्वयम् ।नानात्वबुद्ध्या नानैव जीवोऽहमिति ताम्यति ॥२८॥उच्यतां भास भो राजन्विपश्चिदपराख्य हे ।कियद्दृष्टं कियद्भ्रान्तं दृश्यं स्मरसि किंच वा ॥२९॥भास उवाच ।बहु दृष्टं मया दृश्यं बहु भ्रान्तमखेदिना ।बह्वेव बहुधा नूनमनुभूतं स्मराम्यहम् ॥३०॥मयानुभूतानि महान्ति राजं-श्चिरं सुदूरे विविधैः शरीरैः ।सुखानि दुःखानि जगन्त्यनन्ता-न्यनन्तमासाद्य महाम्बरं तत् ॥३१॥विचित्रदेहैर्वरशापयोगा-द्दृश्यान्यनन्तानि मया महात्मन् ।जन्मान्तरावर्तविवर्तनानिदृढैकचित्तेन वरात्कृशानोः ॥३२॥दृश्यात्मकोर्वीवपुषस्त्वविद्या-दृशो जवेनान्तपरीक्षणाय ।देहेन देहेन जगत्प्रति प्राक्स्मृतेः सदाहं घनयत्नमासम् ॥३३॥समाः सहस्रं विटपोऽहमास-मन्तर्मनाश्चेतनभुक्तदुःखः ।चित्तं विना पुष्पफलप्रतानेवा कन्दवत्तत्तरसाङ्गरागः ॥३४॥समाः शतं मेरुमृगोऽहमासंसुवर्णवर्णस्तरुपर्णकर्णः ।दूर्वाङ्कुरास्वादनगीतिनिष्ठअहन्कनिष्ठो वनवासिमध्ये ॥३५॥पादाष्टकैरावलितात्मपृष्ठोमृतेऽम्भसः क्लेशकृतात्ममृत्युः ।समाः शतार्धं शरभोऽहमासंक्रौञ्चाचले काञ्चनकन्दरासु ॥३६॥कालागुरुद्रुमलतावलितानिलेनविद्याधरीसुरतधर्मकलामृतानि ।पीतानि मे मलयसानुनि मन्दरे चमन्दारचन्दनकदम्बलतागृहेषु ॥३७॥हेमारविन्दमकरन्दपिशङ्गितानिपीतानि पञ्चदशवर्षशतानि मेरौ ।वैरिञ्चहंसतनयेन मया पयांसितीरान्तरेषु रमतोपरि निर्झरिण्याः ॥३८॥क्षीरोदवेलावनगन्धवाह-विलोलनीलालकवल्लरीणाम् ।समाः शतं शोकजरापहारिगीतं श्रुतं माधवसुन्दरीणाम् ॥३९॥कालञ्जरे मञ्जरिते करञ्ज-गुञ्जावने जम्बुकतां गतोऽहम् ।गजेन पिष्टे हरिणा हतोऽसौहस्ती मयात्रार्थमृतेन दृष्टः ॥४०॥संतानकप्रकरहासिनि सह्यसानौकस्मिंश्चिदन्यजगतीन्दुमुखी सुरस्त्री ।एकाकिनी कृतयुगार्धमथाहमासंकल्पद्रुमस्तबकसद्मनि सिद्धशापात् ॥४१॥अद्रीन्द्रकच्छकरवीरलतालयेषुनीतं समाशतमशङ्कधिया मयान्यत् ।अन्यत्र दूरजगतीन्द्रगिरौ विरावि-वाल्मीकपक्षिवपुषाऽनिशमेककेन ॥४२॥अन्यत्र सानुनि मया परिलम्बमानाःसच्छायचन्दनवनावलिते लतानाम् ।दृष्टाः स्त्रियः फलमिवावलिता विलासै-भुक्ताश्च ता अपहृता अपि सिद्धपान्थैः ॥४३॥अन्यत्र पर्वतनितम्बकदम्बकच्छेनीतानि तापसतयोत्तमया दिनानि ।प्राप्यैकवस्त्वभिनिवेशविषूचिकात्त-चित्तेन तान्तमतिनाऽमतिना मयान्तः ॥४४॥ब्रह्माण्डसंपूरितमन्यदस्तिजलेचराशेषदिगन्तभूतम् ।संदिग्धतेजोम्बरवातसत्तंजलस्थभूताकृतिमात्रभूमि ॥४५॥एकत्र दृष्टा वनिता मयैकातस्याः शरीरे त्रिजगन्ति भान्ति ।प्रतिबिम्बितानीव सुदर्पणेऽन्त-राकाशशैलादिदिगादिमन्ति ॥४६॥पृष्टा मयासौ वरगात्रि कासिशरीरमेतच्च किमीदृशं ते ।तयोक्तमङ्गेह चिदस्मि शुद्धाममाङ्गमेतानि महाजगन्ति ॥४७॥यथाहमेवं स्मयदेहिकेयंसर्वं तथैवाङ्ग न चित्रमेतत् ।अन्यैः स्वभावो विदितो न शुद्धोयदा न पश्यन्ति तदेत्थमङ्ग ॥४८॥अवेदशास्त्रेण जगत्यशेषै-र्भूतैः स्वदेहालयभित्तिभागात् ।एतद्विधेयं न विधेयमेत-द्ध्वनिः स्वतः श्रूयत एव नित्यम् ॥४९॥ईदृक्स्वभावैव पदार्थसत्तासा तेऽत्र यद्भित्त्यचलादयोऽपि ।स्वप्नादिमायास्विव मे वदन्तिवाचं न युष्मास्वसमञ्जसं तत् ॥५०॥अस्त्रीकसंसारगतेन दृष्टंमया क्वचिद्यावदनन्यकामम् ।भूतानि निर्यान्ति बहूनि भूता-द्विशन्ति भूतानि बहूनि भूतम् ॥५१॥एकानि दृष्टानि मयाञ्जसानिखेऽभ्राण्यदभ्राङ्ग झणज्झणानि ।वृष्ट्या समन्तान्निपतन्ति खण्डै-र्भवन्ति तीक्ष्णानि जनायुधानि ॥५२॥अन्यत्र दृष्टं गगनेन याव-दिहान्धया ग्रामगृहाणि यान्ति ।विशन्त्यमुत्रान्त इहाभवद्वोग्रामः स एवान्यत एव लब्धः ॥५३॥नरामराऽहिप्रविभागमुक्ता-न्यन्यत्र भूतानि समानि सन्ति ।खादेव सर्वाणि समुद्भवन्तितत्रैव काले न लयं प्रयान्ति ॥५४॥अचन्द्रतारार्कमनन्धकारंस्वयंप्रकाशाखिलभूतजातम् ।स्मरामि किंचिज्जगदेककान्तंज्वालोदराभं दिनरात्रिमुक्तम् ॥५५॥अपूर्वदैत्याहिनरामरादि-भूतान्यपूर्वद्रुमपत्तनानि ।अपूर्वलोकान्तरकार्यवन्तिस्मराम्यनन्तानि महाजगन्ति ॥५६॥दिगस्ति सा नो विहृतं न यस्यांन सोऽस्ति देशः खलु यो न दृष्टः ।यन्नानुभूतं न तदस्ति कार्य-मन्याश्रयं नापरमस्ति मर्शात् ॥५७॥क्षीरोदकभ्रमितमन्दररत्नश्रृङ्ग-धाराग्रनिर्दलनजातझणज्झणानाम् ।एकत्र संयुतमुपेन्द्रभुजाङ्गदानांशब्दं स्मरामि घनगर्जितशङ्कितेन ॥५८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० अ० वि० भाससंसारवर्णनं नामैकत्रिंशाधिकशततमः सर्गः ॥१३१॥ N/A References : N/A Last Updated : October 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP