संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४२ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।चित्तवत्कचनं शान्ते यत्तत्तस्मान्न भिद्यते ।अव्याकृतामलतया क्वाऽतः सर्गादिसंभवः ॥१॥चित्तदीपे गते यान्ति भ्रान्तिवद्भान्ति खे स्थिते ।रूपालोकमनस्कारसंविदोऽम्बुद्रवोर्मयः ॥२॥निरस्तकरणापेक्षं मरुतः स्पन्दनं यथा ।यथा विसरणं भासस्तथा जगदिदं परे ॥३॥द्रवत्वमिव कीलाले शून्यत्वमिव चाम्बरे ।स्पन्दत्वं मरुतीवेदं किमप्यात्ममयं परे ॥४॥महाचिति महाकाशे यदिदं भासते जगत् ।तच्चित्त्वमेव कचति निर्मलत्वं मणाविव ॥५॥यथा द्रवत्वं पयसि यथा शून्यत्वमम्बरे ।यथा प्रस्पन्दनं वायौ महाचिति तथा जगत् ॥६॥वेत्ति वायुर्यथा स्पन्दं तथा वेत्ति जगच्चितिः ।न द्वैतैक्यादिभेदानां मनागप्यत्र संभवः ॥७॥अविवेकविवेकाभ्यां भासुरं भङ्गुरं जगत् ।बोधे सदैव सद्रूपमभासुरमभङ्गुरम् ॥८॥ज्ञप्तिमात्रादृते शुद्धादादिमध्यान्तवर्जितात् ।नान्यदस्तीह निर्णीतं महाचिन्मात्ररूपिणः ॥९॥तत्कस्यचिच्छिवं शान्तं कस्यचिद्ब्रह्म शाश्वतम् ।कस्यचिच्छून्यतामात्रं कस्यचिज्ज्ञप्तिमात्रकम् ॥१०॥तदनन्तात्म चिद्रूपं चेत्यतामिव भावयत् ।स्वसंस्थमेव ज्ञेयत्वमज्ञत्वमिव गच्छति ॥११॥चित्तया नास्ति सत्ता च चित्तता नास्ति तां विना ।विना विना यथा वायोर्यथा स्पन्देषु कारणम् ॥१२॥तथा महाचितोच्छायाः सर्गसंवित्तिवृत्तिषु ।नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ॥१३॥इत्यत्रार्थोऽभविष्यत्स द्वित्वैकत्वास्तितावशात् ।कोऽत्र कल्पयिता द्वित्वमेकत्वं वा महाम्बरे ॥१४॥विष्वग्विश्वमपारैकपरमाकाशकोशता ।यथा स्पन्दानिलद्वित्वं शाब्दमेव न वास्तवम् ॥१५॥विश्वविश्वेश्वरद्वित्वं तथैवासन्मयात्मकम् ।सदेवासंभवद्द्वित्वं महाचिन्मात्रकं च यत् ॥१६॥विश्वाभासं तदेवेदं न विश्वं सन्न विश्वता ।देशकालादिमत्त्वेन कदाचिद्धेम्नि सत्यता ॥१७॥कटकत्वस्य भिन्नस्य विश्वस्य च तथा परे ।द्वित्वैक्यासंभवे चात्र कार्यकारणता कुतः ॥१८॥स्याच्चेत्तत्कल्पनामात्रमेवैतन्नान्यवस्तुता ।शून्यता नभसीवात्र द्रवत्वमिव चाम्भसि ॥१९॥खे खलेखाप्यभिन्नेव किलास्ति जगदादिता ।यद्रूपं ब्रह्म तद्रूपं जगत्क्वात्र द्वितैकते ॥२०॥यद्रूपं व्योम तद्रूपमेवं शून्यं किलाखिलम् ।एकात्मनि तते स्वच्छे चिन्मात्रे सर्वरूपिणि ॥२१॥शिलापुत्रकसेनायां पाषाणत्व इवास्थिते ।कार्यकारणवैचित्र्यं कथं संभवति क्व वा ॥२२॥कथमव्योमता व्योम्नि द्वितीयासंभवाद्भवेत् ।प्रतिभात्मैव भारूपो भाति सर्गो महाचिति ॥२३॥पुत्रिकेवोपलोत्कीर्णा तन्मयत्वात्तदात्मिका ।साधो यथास्थितस्यैवं बुद्ध्वा विश्वं प्रलीयते ॥२४॥काष्ठमौनदशाभासं संसारमवशिष्यते ।यथा निमीलिताक्षस्य रूपालोकमनोभ्रमः ॥२५॥स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।तथैवोन्मीलिताक्षस्य रूपालोकमनोभ्रमः ॥२६॥स्वप्ने जाग्रत्यनग्रस्थोऽप्यसन्नेवास्तिभावनात् ।भावनोपशमं कृत्वा शिलीभूय यथास्थितम् ॥२७॥अशिलीभूतमेवान्तः स्वभावं सममास्यताम् ।आविवेकोपहारेण यथाप्राप्तार्थपूजनैः ॥२८॥बोधाय पूज्यतां बुद्ध्या स्वभावः परमेश्वरः ।विवेकपूजितः स्वात्मा सद्यः स्फारवरप्रदः ॥२९॥रुद्रोपेन्द्रादिपूजात्र जरत्तृणलवायते ।विचारशमसत्सङ्गबलिपुष्पैकपूजितः ॥३०॥सद्योमोक्षफलः साधो स्वात्मैव परमेश्वरः ।सत्यालोकनमात्रैकपूजितोऽनुत्तमार्थदः ॥३१॥यत्रास्त्यात्मेश्वरस्तत्र मूढः कोऽन्यं समाश्रयेत् ।सत्सङ्गशमसंतोषविवेकापूजितात्मनः ॥३२॥शिरीषकुसुमायन्ते शस्त्राहिविषवह्नयः ।देवार्चनतपस्तीर्थदानान्यतिकृतान्यपि ॥३३॥भस्मायन्ते निरर्थत्वादविवेकामहात्मनाम् ।एतान्यपि विवेकेन क्रियन्ते सफलानि चेत् ॥३४॥विवेक एव तत्कस्मात्स्फुटमन्तर्न साध्यते ।यथाभूतार्थविज्ञानाद्वासनोपरमे परे ॥३५॥यत्नो विवेकशब्दाख्यो भवत्यात्मप्रसादतः ।तथा तथा विवेकोऽन्तर्वृद्धिं नेयः शमामृतैः ॥३६॥यथा यथा पुनः शोषमुपयाति न विभ्रमैः ।देहसत्तामनादृत्य यथा भूतार्थदर्शनात् ॥३७॥लज्जां भयं विषादेर्ष्ये सुखं दुःखं जयेत्समम् ।जगदादि शरीरादि नास्त्येवादौ कुतोऽद्य तत् ॥३८॥कार्यं चेत्कारणस्यैतत्तथापि ब्रह्ममात्रकम् ।प्रतिभामात्रमेवाच्छं न तु ज्ञप्तेर्घटादि सत् ॥३९॥ज्ञानात्मिकैव प्रतिभा ज्ञप्तिरेवाखिलं जगत् ।ज्ञप्तिरप्यात्मतत्त्वश्रीः परिज्ञातोपशाम्यति ॥४०॥ज्ञेयाभावे त्वनिर्वाच्या शिष्यते शाश्वतं शिवम् ।अशरीराद्यविश्वात्म सर्वं शान्तमिदं ततम् ॥४१॥ज्ञानज्ञेयज्ञप्तिमुक्तं दृषन्मौनमिव स्थितम् ।शान्तान्तःकरणाः स्वस्थाः शिलापुत्रककोशवत् ॥४२॥चलन्तश्चालयन्तश्च ज्ञरूपा एव तिष्ठत ।अज्ञेयज्ञत्वसद्रूपाः सदसत्साररूपिणः ॥४३॥आकाशकोशविशदा भवता भवभूमयः ।यथास्थितं च तिष्ठन्ति गच्छन्तश्च यथागतम् ॥४४॥यथाप्राप्तैककर्माणः संपद्यन्ते बुधाः परम् ।अथवा सर्वसंत्यागशान्तान्तःकरणोज्ज्वलाः ॥४५॥एकान्तेष्वेव तिष्ठन्तु चित्रकर्मार्पिता इव ।संकल्पशान्तौ संकल्पपुरवत्सर्वदाखिलम् ॥४६॥स्वप्नवच्च प्रबुद्धस्य सदैवास्तं गतं जगत् ।सनेत्ररूपानुभवं जातितोऽन्ध इव भ्रमैः ॥४७॥निर्वाणं वर्णयन्नज्ञस्ताप्यतेऽन्तर्न शाम्यति ।कल्पनांशोपदेशेन लोकोऽविद्यामयात्मना ॥४८॥येन केनचिदज्ञत्वात्कृतार्थोऽस्मीति मन्यते ।अकृतार्थः कृतार्थत्वं जानन्मौर्ख्यविमोहितः ॥४९॥विज्ञास्यत्यकृतार्थत्वं क्षणान्तरकदर्थनैः ।उपायं कल्पनात्मानमनुपायं विदुर्बुधाः ॥५०॥दुःखदत्वान्निमेषेण भावाभावैषणभ्रमैः ।जगद्भ्रमं परिज्ञाय यदवासनमासितम् ।विरसाशेषविषयं तद्धि निर्वाणमुच्यते ॥५१॥आख्यायिकार्थप्रतिभानमेत्यसंवेत्स्यचिद्वारि भराद्द्रवात्मा ।अवेद्यचिद्रूपमशेषमच्छपश्यन्विनिर्वासि जगत्स्वरूपम् ॥५२॥जात्यन्धरूपानुभवानुरूपंयदागमैर्बुद्धमबोधरूपम् ।अधस्पदीकृत्य तदान्तरेऽस्मि-न्बोधे निपत्यानुभवो भवाभूः ॥५३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० निर्वाणोपदेशो नाम द्विचत्वारिंशः सर्गः ॥४२॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP