संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ४३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ४३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अहंतादिजगच्चेदं परिज्ञानादसत्यताम् ।याति सानुभवो मोहात्सत्यमेवान्यथाधियाम् ॥१॥अज्ञानज्वरमुक्तस्य बोधशीतलितात्मनः ।एतदेव भवेच्चिह्नं यद्भोगाम्बु न रोचते ॥२॥अलमन्यैः परिज्ञानैर्वाच्यवाचकविभ्रमैः ।अनहंवेदनामात्रं निर्वाणं तद्विभाव्यताम् ॥३॥परिज्ञाता यथा स्वप्ने पदार्था रसयन्ति नो ।न च सन्ति तथैवास्मिन्नहं जगदिदंभ्रमे ॥४॥यथा स्वभावनाद्यक्षस्तरौ सस्वजनं पुरम् ।पश्यत्यसत्यमेवैवं जीवः पश्यति संसृतिम् ॥५॥विभ्रमात्मा यथा यक्षो यक्षलोकश्च ते मिथः ।सद्रूपौ सुस्थितौ मिथ्या तथाहंत्वजगद्भ्रमौ ॥६॥अनावरणतोऽरण्ये यक्षा विभ्रमरूपिणः ।यथा स्फुरन्ति भूतानि तथेमानि चतुर्दश ॥७॥भ्रममात्रमहं मिथ्यैवेति बुद्ध्वा विभावयन् ।यक्षोऽयक्षत्वमायाति चित्तं चित्तत्त्वतामिदम् ॥८॥निरस्तकलनाशङ्कं त्यागग्रहणवर्जितम् ।अविसारिसमस्तेच्छं शान्तमास्व यथास्थितम् ॥९॥असत्तासंभवं दृश्यं द्रष्ट्रात्मकमिदं ततम् ।अथवा नैव द्रष्ट्रात्म सदवाच्यं किमास्यते ॥१०॥वसन्तरसपूरस्य यथा विटपगुल्मता ।स्वरूपमात्रभरितसंविदः सर्गता तथा ॥११॥यदिदं जगदाभासं शुद्धं चिन्मात्रवेदनम् ।कात्रैकता द्विता का वा निर्वाणमलमास्यताम् ॥१२॥भूयतां चिन्मयव्योम्ना पीयतां परमो रसः ।स्थीयतां विगताशङ्कं निर्वाणानन्दनन्दने ॥१३॥किमेतास्वतिशून्यासु संसारारण्यभूमिषु ।मानवा वातहरिणा भ्रमथो भ्रान्तबुद्धयः ॥१४॥जगत्त्रयमरीच्यम्बु विप्रलब्धान्धबुद्धयः ।मा धावत गतव्यग्रमाशयोपह्रताशयाः ॥१५॥रूपालोकमनस्कारमृगतृष्णाम्बुपायिनः ।व्यर्थमायासमायूंषि मा मा क्षपयतैणकाः ॥१६॥जगद्गन्धर्वनगरगुरुगर्वेण नश्यथ ।सुखरूपाणि दुःखानि नाशनायैव पश्यथ ॥१७॥जगत्केशोण्ड्रकभ्रान्त्यै मा महाम्बरमध्यगम् ।अवलोकयताभ्रान्ते स्वरूपे परिणम्यताम् ॥१८॥मानवा वातलोलोच्चपत्रप्राप्ताम्बुभङ्गुर- ।मानवासु न चास्वन्धगर्भशय्यासु सुप्यताम् ॥१९॥अविराममनाद्यन्ते स्वभावे शान्तमास्यताम् ।द्रष्ट्टदृश्यदशादोषादस्वभावाद्विनश्यताम् ॥२०अज्ञावबुद्धः संसारः स हि नास्ति मनागपि ।अवशिष्टं च यत्सत्यं तस्य नाम न विद्यते ॥२१॥त्रोटयित्वा तु तृष्णायःशृङ्खलावलितं बलात् ।संसारपञ्जरं तिष्ठ सर्वस्योर्ध्वं मृगेन्द्रवत् ॥२२॥आत्मात्मीयग्रहभ्रान्तिशान्तिमात्रा विमुक्तता ।यथा तथा स्थितस्यापि सो स्वसत्तैव योगिनः ॥२३॥निर्वाणताऽवासनता पराऽपतापताज्ञता ।संसाराध्वनि खिन्नस्य शान्ता विश्रामभूमयः ॥२४॥तज्ज्ञज्ञातो न मूर्खाणां मूर्खज्ञातो न तद्विदाम् ।विद्यते जगदर्थोऽसाववाच्यार्थमयो मिथः ॥२५॥विश्वता भ्रान्तिसंशान्तौ संस्थितैव न लभ्यते ।महार्णवाम्बुवलिता पुत्रिकेव पयोमयी ॥२६॥भ्रान्तिशान्तौ प्रबुद्धस्य विनिर्वाणस्य विश्वता ।यथास्थितैव गलिता विद्यते च यथास्थितम् ॥२७॥निर्दग्धतृणभस्माली क्वापि याति यथानिलैः ।सतां स्वभावविश्रामैः क्वापि याति तथा जगत् ॥२८॥जगद्ब्रह्मपदार्थस्य संनिवेशः स तूत्तमः ।ब्रह्मशब्दार्थरूपात्मा न जगच्छब्दकार्यभाक् ॥२९॥अविज्ञातस्य बालस्य पदार्था यादृशा इमे ।विदुषस्तादृशा एव तिष्ठतः क्षीणवासनम् ॥३०॥या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥३१॥स्थितमेवाऽविरामी यज्जाग्रदस्य सुषुप्तवत् ।चित्रावलोकित इव जाग्रत्योऽस्य रसैषणाः ॥३२॥जात्यन्धरूपानुभवसमं भुवनवेदनम् ।भ्रान्तप्रायमसद्रूपं ज्ञस्य भाति न भाति च ॥३३॥विमूढदुःखं त्रिजगद्विमूढविषयं न सत् ।स्वप्ने स्वप्नतया ज्ञाते रूपालोकमनःक्रियाः ॥३४॥न स्वदन्ते यथा तद्वज्जाग्रत्स्वप्रे स्फुरन्तु मा ।निर्विभागः समाश्वस्तोऽविरोधं परमागतः ॥३५॥आशीतलान्तःकरणो निर्वाणो ज्ञोऽवतिष्ठते ।तज्ज्ञस्याकृष्टमुक्तस्य समं ध्यानं विना स्थितिः ॥३६॥निम्नं विनैव तोयस्य न संभवति काचन ।अर्थ एव मनस्कारो मन एवार्थरञ्जनम् ॥३७॥एष एवैष आभासः सबाह्याभ्यन्तरात्मकः ।आसमुद्रं नदीवाहशतसंघमयात्मकम् ॥३८॥यथैकश्लेषपिण्डात्म वहत्यम्बु तरङ्गिणाम् ।सबाह्याभ्यन्तराकारमर्थानर्थमयात्मकम् ॥३९॥मन एव स्फुरत्यर्थनिर्भासं व्याततं तथा ।नास्त्यर्थमनसोर्द्वित्वं यथा जलतरङ्गयोः ॥४०॥एकाभावे द्वयोः शान्तिः पवनस्पन्दयोरिव ।नूनमेकोपशान्त्यैव निःसारे परमार्थतः ॥४१॥एकत्वादर्थमनसी सममेवाशु शाम्यतः ।अर्थः संकल्परूपात्मा नेहितव्यो विजानतो ॥४२॥मनश्च सम्यग्ज्ञानेन शान्तिरेवं भवेत्तयोः ।अनष्टे नश्यतश्चैतै ज्ञस्यार्थमनसी स्वतः ॥४३॥मृन्मये द्विषति ज्ञानाद्द्विषद्भावभये यथा ।यथासंख्यं स्थिते एव ज्ञस्यार्थमनसी सदा ॥४४॥किमप्यपूर्वमेवान्यत्संपन्ने भावरूपिणि ।संहितार्थजगत्कालोऽप्यज्ञोऽज्ञविषयोऽप्यसत् ॥४५॥पार्श्वसुप्तनरस्वप्न इव क्लीबाग्रयक्षवत् ।ज्ञस्य साज्ञं जगन्नास्ति वीरस्येव पिशाचधीः ॥४६॥ज्ञमज्ञो भावयत्यज्ञं चिरं वन्ध्यापि वर्धते ।विनैव ज्ञातशब्दार्थमर्थभावमिवागतम् ॥४७॥स्थितं बोधमनाद्यन्तं स्वभावं सर्गगं विदुः ।मनः शब्दार्थरहितं विभागान्तविवर्जितम् ॥४८॥बोधवारिमनोबुद्धितरङ्गमिव निर्मलम् ।क्व संभवत एवान्तः के वार्थमनसी किल ॥४९॥निरर्थिकैव विभ्रान्तिः स्वभावमयमास्यताम् ।शुद्धबोधस्वभावस्थैराकाशमिव शारदैः ॥५०॥जाग्रत्स्वप्नसुषुप्तान्तैर्मनस्त्वं नानुभूयते ।विधूयानन्तनानात्वमसद्भावमनामये ॥५१॥ज्ञेयं रज्जुरिवाशेषं स्वभावे तिष्ठ चिद्घने ।ज्ञप्तिरेवान्तरं बाह्यं चार्थत्वमधितिष्ठति ॥५२॥बीजं शाखाफलानीव क्वातोऽर्थमनसी वद ।ज्ञेयासंभवतो ज्ञप्तिरप्यनाख्यं पदं गता ॥५३॥शान्ताशेषविशेषात्मा तेन शेषोऽस्ति सत्स्वभाः ।अर्थ एव मनस्कारः स चाभावात्मको भ्रमः ॥५४॥मन एवार्थसंस्कारः स चाभावात्मको भ्रमः ।सर्वात्मत्वादजस्यैतदप्यकारणकं मनः ॥५५॥भ्रमानुभवतोऽर्थश्च मिथ्यैवास्तीव भासते ।अकारणकमेवार्थनिर्भासं भासते मनः ॥५६॥विद्युद्विलसिताकारमस्थिरं तरलायते ।त्वं मनस्कारमात्रात्मा संसृतौ विभ्रमायसे ॥५७॥स्वभावैकपरिज्ञानान्नासि नापि भ्रमायसे ।मनसैव हि संसार आत्मबोधेन शाम्यति ॥५८॥शुक्तिरूप्यभ्रमाकारो जनो मिथ्यैव ताम्यति ।अभावभावस्तु परं बोधरूपमसंसृतिः ॥५९॥निर्वाणादितरा सत्ता दुःखायाहमिति भ्रमः ।मृगतृष्णाम्बुरूपोऽहमसच्छून्यस्वरूपकः ॥६०॥इत्येवात्मपरिज्ञानादहमित्येव शाम्यति ।ज्ञात्वा ज्ञानमयो भूत्वा सबाह्याभ्यन्तरार्थताम् ॥६१॥गतं स्वमत्यजद्रूपं तरङ्गत्वं यथा पयः ।मूलशाखाग्रपर्यन्ता सत्ता विटपिनो यथा ॥६२॥निर्विकारमलं ज्ञप्तेर्ज्ञेयान्तैकैव भासते ।यथा योजनलक्षाभमेकमेवामलं नभः ॥६३॥एकमेव तथा ज्ञानं ज्ञेयान्तं भात्यखण्डितम् ।शून्यत्वादेकममलं यथा सर्वगमेव खम् ॥६४॥तथैकममलं ज्ञात्वा ज्ञानज्ञेयदशास्वपि ।घृतेनात्मा घनीभूय पाषाणीक्रियते यथा ॥६५॥चिता चेत्यतयात्मैव स्वचित्तीक्रियते तथा ।देशकालं विनैवात्मा बोधाबोधेन चित्तताम् ॥६६॥अबुद्धो नीयते न्यायैरेकमेवैष सुस्थितः ।अत्र यद्यप्यबोधादेः संभवो नास्ति कश्चन ।तथापि कल्प्यतेऽत्रैव बोधनाय परस्परम् ॥६७॥महानुभावा विगताभिमानाविमूढभावोपशमे गलन्ति ।निर्भ्रान्तयोऽनन्ततयैव शान्तानित्यं समाधानमया भवन्ति ॥६८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाण० उ० ब्रह्मैकतानतोपदेशो नाम त्रिचत्वारिंशः सर्गः ॥४३॥ N/A References : N/A Last Updated : September 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP