संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १०८

निर्वाणप्रकरणं - सर्गः १०८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
अविद्या दृश्यरूपेयं कचन्ती यस्य विद्यते ।
चिन्नभःस्वप्ननगरी दृश्यमानापि शून्यकम् ॥१॥
तस्याज्ञस्य कियत्कालं किंरूपा स्यात्किमात्मिका ।
कियती सा च वेत्येवं मुने मे कथ्यतां पुनः ॥२॥
श्रीवसिष्ठ उवाच ।
अविद्या विद्यते येषामज्ञानां भूतलादिका ।
तेषामस्यां ब्रह्मणीव नास्त्यन्तोऽत्र कथां श्रृणु ॥३॥
सदृशं जगतोऽस्यास्ति क्वचिदम्बरकोणके ।
कस्मिंश्चिद्त्रिजगत्किंचिदनयैव व्यवस्थया ॥४॥
अस्ति कश्चिद्भुवो भागो भूषणं तत्र भूस्थितेः ।
पुरी ततमितिर्नाम्ना सुव्यक्तकलनाऽवनौ ॥५॥
तत्रासीत्पार्थिवः कश्चिद्विपश्चिदिति विश्रुतः ।
यः सभायां सुसभ्यायां विपश्चित्त्वाद्विराजते ॥६॥
राजहंस इवाब्जिन्यामृक्षचक्र इवोडुराट् ।
सुमेरुरिव शैलौघे यः सभायामराजत ॥७॥
निवर्तते यतोऽशक्त्या वचनं गुणवर्णनात् ।
कवीनामचलाकारा भवेद्भा भूधरो यथा ॥८॥
प्रातःप्रातर्विकसितात्सर्वाशाभासनोद्यतात् ।
यतः प्रतापजनितश्रीरुदेत्यम्बुजादिव ॥९
स ब्रह्मण्यमतिर्मानी वह्निमेवाधिदैवतम् ।
अपूजयत्समं भक्त्या देव वेत्ति स्म नेतरम् ॥१०॥
समत्स्यमकरव्यूहा गजवाजिगणान्विताः ।
आवर्तचक्रव्यूहाढ्याः कल्लोलबलमालिताः ॥११॥
मर्यादापालने युक्ता अकम्पनबलाधिकाः ।
मन्त्रिष्वप्यस्य चत्वारो दिक्षु सत्सागरा इव ॥१२॥
तैरशेषककुप्चक्रनाभिराभासितावनिः ।
आसीत्सुदुर्जयो जेता स सुदर्शनचक्रवत् ॥१३॥
तमेकदा ययौ पूर्वदिङ्मुखाच्चतुरश्चरः ।
स उवाच रहो रंहोगतिघोराक्षरं वचः ॥१४॥
देव दोर्द्रुमविश्रान्तधरागोबन्धनाच्युत ।
श्रूयतां मन्मुखात्पश्चाद्यथाप्राप्तं विधीयताम् ॥१५॥
पूर्वदिङ्मुखसामन्तो ज्वरेणास्तमुपागतः ।
मन्ये जेतुं यमं यातस्त्वयारब्धो जितारिणा ॥१६॥
तस्मिन्समन्ततो जेतुं दक्षिणापथनायकः ।
पूर्वापराभ्यामाक्रम्य बलाभ्यामरिणाऽऽहतः ॥१७॥
तस्मिन्मृते समागम्य यावद्वारुणदिक्पतिः ।
बलेनायाति ककुभौ ते समादातुमादृतः ॥१८॥
पूर्वदेशनृपैः सार्धं दक्षिणापथपार्थिवैः ।
तावदेवारिभिरसावर्धमार्गे रणे हतः ॥१९॥
श्रीवसिष्ठ उवाच ।
अथास्मिन्कथयत्येवं त्वरार्तमपरश्चरः ।
उपप्लवजडोत्पीड इव हर्म्यं विवेश ह ॥२०॥
चर उवाच ।
उत्तराशाबलाध्यक्षो देवारिभिरुपद्रुतः ।
इत आयाति सबलो भग्नसेत्वम्बुपूरवत् ॥२१॥
श्रीवसिष्ठ उवाच ।
इति श्रुत्वा महीपालः कालक्षेपमवास्तवम् ।
मन्यमान उवाचेदं निर्गच्छन्वरमन्दिरात् ॥२२॥
राज्ञः सन्नह्य सामन्तानानीयन्तां च मन्त्रिणः ।
उद्धाट्यन्तां हेतिशाला दीयन्तां घोरहेतयः ॥२३॥
श्लेष्यन्तां कंकटा देहेष्वागच्छन्तु पदातयः ।
गण्यन्तामाशु सैन्यानि क्रियन्तां वरकल्पनाः ॥२४॥
कल्प्यन्तां च बलाध्यक्षाः प्रेष्यन्तामभितश्चराः ।
श्रीवसिष्ठ उवाच ।
वदत्येवं त्वरायुक्तं संरम्भवति राजनि ॥२५॥
प्रतीहार उवाचेदं प्रविश्याकुलमानतः ।
प्रतीहार उवाच ।
उत्तराशाबलाध्यक्षो देव द्वार्यवतिष्ठति ।
काङ्क्षत्यब्जमिवार्कस्य देवदेवस्य दर्शनम् ॥२६॥
राजोवाच ।
गच्छाविलम्बितं तावदेनमेव प्रवेशय ।
जानीमः किं दिगन्तेषु वृत्तं वृत्तान्तसंश्रवात् ॥२७॥
श्रीवसिष्ठ उवाच ।
इत्युक्त उत्तराशेशं प्रतिहारप्रवेशितम् ।
प्रणामपरमग्रेऽसौ राजाऽपश्यद्वलाधिपम् ॥२८॥
क्षतविक्षतसर्वाङ्गमङ्गमङ्गेषुसंततम् ।
श्वासाकुलं वमद्रक्तं धैर्येणाबलनिर्जितम् ॥२९॥
स प्रणम्य त्वरायुक्तमुवाचेदमुपक्रमम् ।
संस्तभ्याङ्गव्यथामाशु संततोच्छ्वासमुच्छ्वसन् ॥३०॥
बलाध्यक्ष उवाच ।
देव त्रयोऽपि दिक्पाला बलेन बहुना सह ।
त्वदाज्ञयेव निर्जेतुं यमं यमपुरं गताः ॥३१॥
तद्देशपालनाद्यर्थमशक्तं मामिमं ततः ।
अनुद्रवन्तो बहवो भूपाः प्राप्ता बलादिह ॥३२॥
महत्परबलं प्राप्तमिदं देवस्य मण्डलम् ।
विधीयतां तथाप्राप्तं न देवस्यास्ति दुर्जयम् ॥३३॥
श्रीवसिष्ठ उवाच ।
अथ तस्मिन्वदत्येवमार्तिमत्याजिविक्षते ।
सहसैवाभ्युवाचेदं प्रविश्य पुरुषोऽपरः ॥३४॥
पुरुषा मण्डलस्यास्य विपुला दललीलया ।
स्थितान्यरिबलान्युच्चैश्चतुर्दिक्कं नरेश्वर ॥३५॥
कचच्चक्रगदाप्रासकुन्तकाननकान्तिभिः ।
वलिता नोऽरिभिर्भूमिर्लोकालोकतटैरिव ॥३६॥
पताकायुधयोध्रङ्गाश्चलत्परिकराकुलाः ।
विसरन्ति रथास्तत्र प्रोड्डीनत्रिपुरौघवत् ॥३७॥
करानुन्नामयन्तः खे मांसवृक्षवनोपमाः ।
बृंहन्ति वारणव्यूहा वर्षावारिदवृन्दवत् ॥३८॥
नतोन्नतानि कुर्वन्तः स्पन्देनोर्वीनतोन्नतैः ।
हेषन्ते हयसंघाता वातस्पन्दमहाब्धिवत् ॥३९॥
रसन्ति तुरगापुराः फेनिलावर्तपातिनः ।
सर्वतो वलयाकारा लवणार्णववारिवत् ॥४०॥
आकाशकान्तिसन्नाहैर्दिशं प्रति बलं बलम् ।
उदेत्यलघुकल्लोलैः प्रलयार्णवपूरवत् ॥४१॥
शरास्त्रशस्त्रसन्नाहमुकुटाभरणत्विषः ।
कचन्ति त्वत्प्रतापाग्नेर्ज्वाला इव तदङ्गगाः ॥४२॥
समत्स्यमकरव्यूहाः सचक्रावर्तवृत्तयः ।
उद्यन्ति सैन्यसंघट्टैः कल्लोला जलधेरिव ॥४३॥
परस्परपरामर्शात्कुन्ताद्यायुधपङ्क्तयः ।
कोपादिवोग्रहुंकारैर्ज्वलन्ति विरटन्ति च ॥४४॥
इति कर्तुमहं देव विज्ञप्तिं स्वामिनेरितः ।
तस्मान्मण्डलसीमान्तगुल्माद्युद्धाय गच्छता ॥४५॥
तमहं देव गच्छामि शक्त्यृष्टिशरसंगतः ।
मयेहावेदितं सर्वं देवो जानात्यतः परम् ॥४६॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वाथ प्रणामं च स कृत्वा त्वरया ययौ ।
कृत्वा गुलुगुलारावं शान्तो वीचिरिवाम्बुधेः ॥४७॥
संभ्रान्तमन्त्रिनृपयोधनियोगिनाग-
नारीरथाश्वपरिचारकनागरौघम् ।
राज्ञो गृहं स्वभयतोलितहेतिसार्थं
चण्डानिलाकुलमहावनतुल्यमासीत् ॥४८॥

इत्यार्षे श्रीवा०वा०दे०मो०नि०उ० अविद्योपाख्यानान्तर्गतविपश्चिदुपा०अविद्याक्षेपणे पार्थिवसंरम्भवर्णनं नामाष्टोत्तरशततमः सर्गः ॥१०८॥

N/A

References : N/A
Last Updated : October 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP