संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १७१ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १७१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।संविदाकाशकचनमिदं भाति जगत्तया ।वस्तुतो न जगन्नाभा न शून्यं न च संविदः ॥१॥यदिदं भाति चिद्व्योम जगदाख्यं न तत्ततः ।आकाशादिव शून्यत्वमन्यदन्यदपि स्थितम् ॥२॥देशाद्देशान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।तद्दृश्यमिति भातीदं दृश्यमन्यन्न विद्यते ॥३॥महाप्रलयसंपत्तावादिसर्गः पुनः किल ।परस्मात्कारणाभावे कुतो दृश्यस्य संभवः ॥४॥तदाणुमात्रमपि हि दृश्यबीजं न विद्यते ।किल यस्मादिदं चक्रं पुनर्मूर्तं प्रवर्तते ॥५॥उत्पन्नमेव नैवातो मूर्तं दृश्यमिदं जगत् ।वन्ध्यापुत्र इवात्यन्तमतोऽस्त्येव न दृश्यधीः ॥६॥यच्चेदं किंचिदाभाति दृश्यमित्यभितः स्थितम् ।तच्चिन्मात्रं खमेवाच्छं परमेव पदं विदुः ॥७॥यथा सुषुप्तात्स्वप्नत्वं गच्छद्यात्यनवस्थितिम् ।चिन्मात्रमजहत्स्वच्छं निजं रूपमनामयम् ॥८॥सर्गस्यादौ तथैवेदमात्मैव स्वात्मनात्मनि ।व्योमात्मैव चिदाभासं दृश्यमित्यवभासते ॥९॥यथा पुरतया भाति मनः संकल्पमन्थरम् ।तथा दृश्यमिवाभाति सर्गादौ चिन्नभः परम् ॥१०॥यथात्मन्यनिलः स्पन्दश्चक्रावर्तवदीहते ।सर्गादौ चिन्नभः स्थित्वा दृश्यमित्येव तिष्ठति ॥११॥अतो ज्ञातमनाभातमेव दृश्यं जगत्त्रयम् ।ब्रह्मैवेदं परं भाति स्वात्मनीत्थमवस्थितम् ॥१२॥नास्त्येव मूर्तं पृथ्व्यादि किंचनापि कदाचन ।अस्तु मूर्तममूर्तं वा ब्रह्मैवेदं विराजते ॥१३॥प्रबोधकाले स्वप्नाद्रिर्यथा व्योमैव निर्वपुः ।तथेदं शान्तचिन्मात्रं खं प्रवोधे जगत्त्रयम् ॥१४॥प्रबुद्धानां परं ब्रह्म निर्विभागमिदं जगत् ।धीमन्तोऽपि न तद्विद्मो यदिदं त्वप्रबोधनम् ॥१५॥देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।स्वस्वभावो हि भूतानां तत्पदं परमात्मकम् ॥१६॥देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।एतत्तत्परमाकाशमत्र सर्वं प्रतिष्ठितम् ॥१७॥यादृगेतत्पदं तादृगिदं सदसदात्मकम् ।येनार्थपञ्चकादन्यत्किंचनापि न विद्यते ॥१८॥रूपालोकमनस्कारा एतदेव पदं विदुः ।एते ते द्रवतावर्ताः पदस्यास्य महाम्भसः ॥१९॥देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।एतस्याव्यतिरेकेण जगत्ता नास्ति काचन ॥२०॥रागद्वेषादयो भावा भावाभावदृशस्तथा ।एतद्रूपममुञ्चन्त एतस्यावयवाः स्थिताः ॥२१॥त्यक्त्वा पूर्वापरे कोट्यौ मध्ये यत्संविदो वपुः ।स स्वभावः परो ज्ञेयो जगत्पयसि संज्ञितः ॥२२॥देशाद्देशान्तरप्राप्तौ विद्धि मध्यमसंविदः ।जगदित्यपरं नाम स्वरूपादच्युतात्मनः ॥२३॥आदिसर्गात्प्रभृत्येव दृश्यमुत्पन्नमेव नो ।यन्नाम तदिहास्तीति मायाशम्बरडम्बरः ॥२४॥कष्टं नास्त्येव यद्दृश्यं तदप्यस्तीति संस्थितम् ।यदप्यस्ति परं ब्रह्म कष्टं नास्तीति तत्स्थितम् ॥२५॥अब्रह्मण्यं क्व गच्छामि विपरीतमतो जगत् ।असदृश्यं सदित्युक्तं ब्रह्मैवं नावगम्यते ॥२६॥न चोत्पन्नं न चाभाति दृश्यं किंचन कुत्रचित् ।यदिदं भाति तद्ब्रह्म व्योमैव कचति स्वयम् ॥२७॥यथा मणिः प्रकचति स्वभासाऽव्यतिरिक्तया ।आत्मनोऽनन्यया सृष्ट्या चिद्व्योम कचितं तथा॥२८॥तस्मिन्नेव पदे शान्ते तपत्येष दिवाकरः ।तस्यैवावयवश्चैव न नामान्योऽस्ति भास्करः ॥२९॥स्थितोऽपि तत्र न तपत्यर्को न च निशाकरः ।प्रकाशयति देवोऽसावर्कं नार्कस्तमीश्वरम् ॥३०॥तस्य भासा विभातीदं तदहो दृश्यमण्डलम् ।सर्वचन्द्रार्कवह्नीनां पदार्थानां स दीपकः ॥३१॥स साकारो निराकार इति शब्दार्थकल्पना ।खपुष्पवदसद्रूपा न संभवति तद्विदाम् ॥३२॥साङ्गभूतो यथैकोऽणुर्भाति जीवार्कतेजसि ।न भान्ति भान्ति वा तत्र तथा सूर्यादयोऽणवः॥३३॥चिन्मात्राकाशरत्नस्य सृष्टयोऽर्कादिसंयुताः ।या भासस्ताः कथं तस्माद्व्यतिरिक्ताः स्युरुच्यताम्॥३४चिन्मात्रेणापि रहितं शून्यत्वेनापि वर्जितम् ।पदं सर्वात्मरिक्तं तत्सर्वार्थैश्च समन्वितम् ॥३५॥पृथ्व्यादीन्यपि सन्त्येव तत्र सन्ति न कानिचित् ।जीवन्तोऽपि न विद्यन्ते जीवास्तत्र च केचन ॥३६॥अत्यजन्तो द्वयस्थौल्यं तत्रैते परमाणवः ।स्वरूपमत्यजद्द्वैतमैक्यं वात्र न किंचन ॥३७॥किंचिदत्र न किंचिद्वै न किंचिच्च न किंचन ।किंचिन्न किंचिदित्येषा कलनात्रातिदूरगा ॥३८॥एका निरन्तरानन्ता नित्यमत्याततात्मना ।चिन्मात्रव्योमसत्तैव जगन्नाम्नात्मनि स्थिता ॥३९॥एकं चेत्यं त्यक्तवत्या अप्राप्तायाश्चितोऽपरम् ।यद्रूपं जगतो रूपमस्य नानात्मनोऽपि तत् ॥४०॥नानेवेदमनानैव चिद्व्योमैवेदमाततम् ।भूतपञ्चकरूपेण स्वप्ने चितिरिव स्थितम् ॥४१॥सुषुप्ताद्विशतः स्वप्नं सुषुप्तस्थैव चिद्यथा ।यथा स्थितैव स्वप्नत्वमेत्येवं सर्गतामिमाम् ॥४२॥यादृक्सुषुप्तं स्वप्नस्तु तादृगेव तथैव च ।जाग्रत्तुर्यं तथैवेदमतो व्योमसमं जगत् ॥४३॥जाग्रत्स्वप्नः सुषुप्तं च तुर्यमेवाखिलं स्थितम् ।तत्त्वविद्गोत्रमूढस्तु यद्वै वेत्ति न वेद्मि तत् ॥४४॥जडानामजडानां यः सर्वार्थानामनारतम् ।दुर्लक्ष्यपरिणामोऽन्तर्मनोबुद्ध्यादिवर्जितः ॥४५॥सुशुद्धायाश्चितो रूपं पदार्थास्तन्मयाश्च ते ।ते वसन्ति न सद्रूपास्तदेव हि तथा स्थितम् ॥४६॥परिणामादिशब्दार्थदृशामत इहानघ ।उपदेशार्थमुक्तीनां गन्धोऽप्येवं न विद्यते ॥४७॥आदिसर्गात्प्रभृत्येव महासत्तात्मनात्मनि ।चिन्मात्रपरमाकाशं स्थितमेकं महात्मनः ॥४८॥प्रपूर्णैकात्मनि प्रख्या सा सर्वव्यापिनी चितिः ।स्थिता तयात्मन्येवान्तर्जगदित्यभिधाः कृताः ॥४९॥परिज्ञाते यथा स्वप्ने स्वाङ्गीकारात्सुखं सुखम् ।अनङ्गीकारतो दुःखं सदुःखं भवति क्षणात् ॥५०॥गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतस्तथा ।नित्यमेकं समाधानं स्थितं शान्तस्य तद्विदः ॥५१॥भेदेऽप्यभेदनिष्ठस्य दुःखेऽपि हि सुखस्थितेः ।सतोऽप्येवासतो ज्ञस्य किमन्यदवशिष्यते ॥५२॥न संत्यजति नादत्ते किंचिद्व्यवहरन्नपि ।हृदयेन बहिःकार्येऽकार्यं एवावतिष्ठते ॥५३॥यथा हिमस्य शीतत्वं वह्नेरौष्ण्यं तथेदृशः ।स्वभावोऽस्य भवेन्नित्यं न त्वाहार्यो गुणोऽस्य सः ॥५४॥यस्य त्वेष स्वभावः स्यान्न नाम न स तत्त्ववित् ।एतदेवाज्ञताचिह्नं यदिच्छा प्रकृतेतरा ॥५५॥आश्वस्तान्तःकरणःक्षीणविकल्पः स्वरूपसारमयः ।परमशमामृततृप्त-स्तिष्ठति विद्वान्निरावरणः ॥५६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० दैतैक्यनिरामययोगोपदेशो नामैकसप्तत्यधिकशततमः सर्गः ॥१७१॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP