संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १५७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १५७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १५७ Translation - भाषांतर अथ सिन्धुर्वदिष्यति ।आर्यानार्यवपुः कोऽहमभवं विमतिः पुरा ।यद्वशान्मे कुसंस्कारः प्राक्तनोऽस्ति भवप्रदः ॥१॥मन्त्री वदिष्यति ।रहस्यं शृणु भो राजन्सावधानपरः क्षणम् ।चोदितः संदधासीदमद्य मान्द्यविनाशनम् ॥२॥किमप्याद्यन्तरहितमस्तीह सदनामयम् ।स्थितं त्वमहमित्यादिरूपेण ब्रह्मशब्दितम् ॥३॥तद्ब्रह्म स्वयमेवाहं चिच्चेतामीति संविदम् ।जीवतामिव गत्वास्ते चित्तीभूयात्यजद्वपुः ॥४॥चित्तं तु गगनाच्छात्म वपुर्विद्ध्यातिवाहिकम् ।तदेव वास्ति नेहान्यदाधिभौतिकतादिकम् ॥५॥चित्तमेतदनाकारमपि साकारवत्स्थितम् ।संकल्पैः परलोकाद्यैः स्वप्नाद्यैरेतदेव सत् ॥६॥अनाकारमपि स्फारं चित्तं जगदिदं विदुः ।य एव पवनो नाम स एव स्पन्द्नं यथा ॥७॥यथा गगनशून्यत्वे जगच्चित्ते तथेककम् ।अत्राप्रतिघरूपेऽस्ति न मनागपि भिन्नता ॥८॥हृदयस्थं जगज्जालं न किंचित्किंचिदास्थितम् ।जगद्विद्धि निराकारं चित्तमेव न वास्तवम् ॥९॥सत्त्वमेव वपुः पूर्वमुदितं ब्रह्मणः पदात् ।अयमेव स संपन्नो योऽद्य तामसतामसः ॥१०सिन्धुर्वक्ष्यति ।किमुच्यते महाभाग वद तामसतामसः ।क्रियन्ते पूर्वमेवैताः केन संज्ञाः परे पदे ॥११॥मन्त्री वदिष्यति ।जन्तोः सावयवस्येह हस्ताद्यवयवा यथा ।तथा नवयवस्यैवमातिवाहिकतात्मनः ॥१२॥पश्चादात्मनि सैवात्मा नानासंज्ञाः करिष्यति ।आधिभौतिकतानाम्नि पृथ्व्याद्या आतिवाहिके ॥१३॥स्वप्नाभेऽस्मिञ्जगद्भाने संकल्पेनात्मरूपिणा ।संज्ञात्मनात्मरूपेण स्वयं व्यवहरिष्यति ॥१४॥त्वामातिवाहिकाकारा यत्तत्स्फुरितवान्नवम् ।जातिर्महातमस्कोऽयमिति तत्राभिधा कृता ॥१५॥ब्रह्मणो निर्विकारस्य विकारिण इव प्रभो ।जातयो जीवतापत्तौ कलिता विविधाभिधाः ॥१६॥प्राथम्येनैव यद्ब्रह्म जीवतामिव गच्छति ।तदैव बुद्ध्या भोक्ता तज्जातिः सात्त्विकसात्त्विकी॥१७वर्तमाने भवे भव्यगुणैर्युक्ता तु मानद ।केवला सात्त्विकी प्रोक्ता जातिर्जातिविदां वरैः ॥१८॥नवा भवैश्चेद्बहुभिर्भोगमोक्षैकभागिनी ।जातिस्तत्प्रोच्यते तज्ज्ञैः सद्भी राजसराजसी ॥१९॥वर्तमाने भवे भव्यगुणैर्मुक्ता तु मानद ।केवला राजसी प्रोक्ता जातिः स्वल्पभवे भवेत् ॥२०प्रथमात्यन्तबहुभिर्भवैश्चेऽन्मोक्षगामिनी ।जातिस्तत्प्रोच्यते तज्ज्ञैः सद्भिस्तामसतामसी ॥२१॥सामान्येनैव बहुभिर्जन्मभिर्मोक्षभागिनी ।केवला तामसी प्रोक्ता जातिर्जातिविशारदैः ॥२२॥क्रमेणानेन जातीनां विविधा भेदकल्पना ।तासां तामसतामस्यां जातौ जातोऽसि मानद ॥२३॥बहूनि तव जन्मानि समतीतानि तान्यहम् ।विविधानि विचित्राणि वीर जानामि नो भवान्॥२४॥विशेषेण त्वनेनैव व्यर्थं कालोऽतिवाहितः ।महाशवशरीरेण त्वयानन्तखगामिना ॥२५॥एवं तामसतामस्या जात्यासि जनितो यदा ।तदा दुर्लभमोक्षस्त्वं संसारकुहरादिति ॥२६॥सिन्धुर्वदिष्यति ।आर्योदाहर केनैषा प्राग्जातिर्जीयतेऽधमा ।यावत्तथैव तिष्ठामि स्याच्चेत्तद्वद पावनम् ॥२७॥मन्त्री वदिष्यति ।न किंचन महाबुद्धे तदस्तीह जगत्त्रये ।यदनुद्वेगिना नाम पौरुषेण न लभ्यते ॥२८॥ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।अद्यैव प्राक्तनीं तस्माद्यत्नात्सत्कार्यवान्भव ॥२९॥यो यमर्थं प्रार्थयते तदर्थं यतते तथा ।सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥३०ना यथा यतते नित्यं यद्भावयति यन्मयः ।यादृगिच्छेच्च भवितुं तादृग्भवति नान्यथा ॥३१॥मुनिरुवाच ।एवमुक्तः स तेनाथ सिन्धुरुद्धुरया धिया ।तदा तत्र तथा नाम राष्ट्रं त्यक्ष्यत्यशेषतः ॥३२॥गमिष्यति वनं दूरं प्रार्थितोऽपि हि मन्त्रिभिः ॥नाश्रयिष्यति तद्भूयो राज्यमुच्छिन्नशात्रवम् ॥३३॥तिष्ठतः साधुमध्येऽस्य तद्विवेककथावशात् ।पुष्पासङ्गादिवामोदो विवेकः समुदेष्यति ॥३४॥ततः कथमिदं जन्म कुतः संसार आगतः ।इत्थं विचारसांतत्यात्स यास्यति विमुक्तताम् ॥३५॥नित्यं विचारणपरोऽथ भवन्स सिन्धुःसत्सङ्गमेन पदमाप्स्यति पावनं सः ।तद्यत्र पत्रमिव वातविधूयमानंनो वस्तुतां व्रजति काचन नाम लक्ष्मीः ॥३६॥इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० शवोपाख्याने सिन्धुनिर्वाणं नाम सप्तपञ्चाशदधिकशततमः सर्गः ॥१५७॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP