संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १९९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १९९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १९९ Translation - भाषांतर श्रीराम उवाच ।नित्यं ज्ञानैकनिष्ठत्वादात्मारामतया तथा ।मुक्तैः कर्मपरित्यागः कस्मान्न क्रियते मुने ॥१॥श्रीवसिष्ठ उवाच ।हेयोपादेयदृष्टी द्वे यस्य क्षीणे हि तस्य वै ।क्रियात्यागेन कोऽर्थः स्यात्क्रियासंश्रयणेन वा ॥२॥न तदस्तीह यत्त्याज्यं ज्ञस्योद्वेगकरं भवेत् ।न वास्ति यदुपादेयं तज्ज्ञसंश्रेयतां गतम् ॥३॥ज्ञस्य नार्थः कर्मत्यागैर्नार्थः कर्मसमाश्रयैः ।तेन स्थितं यथा यद्यत्तत्तथैव करोत्यसौ ॥४॥यावदायुरियं राम निश्चितं स्पन्दते तनुः ।तद्यथाप्राप्तमव्यग्रं स्पन्दतामपरेण किम् ॥५॥अन्यथान्यत्र चेत्कार्या क्रिया त्यक्त्वा निजं क्रमम् ।समाने हि क्रियास्पन्दे को दोषः सत्क्रमे किल ॥६॥समया स्वच्छया बुद्ध्या सततं निर्विकारया ।यथा यत्क्रियते राम तददोषाय सर्वदा ॥७॥इह मह्यां महाबाहो बहवो बहुदृष्टयः ।बहुधा बहुदोषेषु विहरन्ति विचक्षणाः ॥८॥गतसङ्गतया बुद्ध्या विहरन्ति यथास्थितेः ।गृहस्थारम्भिणः केचिज्जीवन्मुक्ताः स्थिता भुवि ॥९॥तज्ज्ञा राजर्षयश्चान्ये वीतरागा भवादृशाः ।असंसक्तधियो राज्यं कुर्वन्ति विगतज्वराः ॥१०॥केचित्प्रकृतवेदार्थव्यवहारानुसारिणः ।यज्ञशिष्टाशिनो नित्यमग्निहोत्रे व्यवस्थिताः ॥११॥केचिच्चतुर्षु वर्णेषु ध्यानदेवार्चनादिकाम् ।स्वक्रियामनुतिष्ठन्तः स्थिता विविधयेहया ॥१२॥केचित्सर्वपरित्यागमन्तः कृत्वा महाशयाः ।सर्वकर्मपरा नित्यं तज्ज्ञा एवाज्ञवत्स्थिताः ॥१३॥स्वप्नेऽप्यदृष्टलोकासु मुग्धमुग्धमृगासु च ।वनावनीषु शून्यासु केचिद्ध्यानपरायणाः ॥१४॥पुण्यवद्भिः सदा जुष्टे पुण्योपचयकारिणि ।शमशालिसमाचारे केचिदायतने स्थिताः ॥१५॥रागद्वेषप्रहाणार्थं त्यक्त्वा देशं समाशयाः ।केचिदन्यत्र देशे च पदमालम्ब्य संस्थिताः ॥१६॥वनाद्वनं पुराद्ग्रामं स्थानात्स्थानं गिरेर्गिरिम् ।भ्रमन्तः संस्थिताः केचित्संसारोच्छित्तये बुधाः१७वाराणस्यां महापुर्यां प्रयागे चैव पावने ।श्रीपर्वते सिद्धपुरे बदर्याश्रमके तथा ॥१८॥शालग्रामे महापुण्ये कलापग्रामकोटरे ।मथुरायां च पुण्यायां तथा कालञ्जरे गिरौ ॥१९॥महेन्द्रवनगुल्मेषु गन्धमादनसानुषु ।दर्दुराचलवप्रेषु सह्यकाचलभूमिषु ॥२०॥विन्ध्यशैलस्य कच्छेषु मलयस्योदरेषु च ।कैलासवनजालेषु ऋक्षवत्कुहरेषु च ॥२१॥एतेष्वन्येषु चान्येषु वनेष्वायतनेषु च ।तपस्विनस्तथा राम बहवो बहुदृष्टयः ॥२२॥केचित्त्यक्तनिजाचाराः केचिच्च क्रमसंस्थिताः ।केचित्प्रबुद्धमतयो नित्यमुन्मत्तचेष्टिताः ॥२३॥केचित्स्वदेशरहिताः केचित्त्यक्तनिजास्पदाः ।एकस्थानरताः केचिद्भ्रमन्तः केचिदास्थिताः ॥२४॥एतेषां महतां मध्ये नभस्तलनिवासिनाम् ।पातालनिरतानां च दैत्यादीनां महामते ॥२५॥विज्ञातलोकपर्यायाः सम्यग्दर्शननिर्मलाः ।केचित्प्रबुद्धमतयो दृष्टदृश्यपरावराः ॥२६॥अप्रबुद्धधियः केचिद्दोलान्दोलितचेतसः ।निवृत्ताः पापकाचारात्सुजनानुगताः स्थिताः ॥२७॥अर्धप्रबुद्धमतयः केचिज्ज्ञानावलेपतः ।परित्यक्तक्रियाचारा उभयभ्रष्टता गताः ॥२८॥इत्थमस्मिञ्जनानीके जन्मसंतरणार्थिनः ।बहवः संस्थिता राम बहुधा बहुदृष्टयः ॥२९॥संसारोत्तरणे तत्र न हेतुर्वनवासिता ।नापि स्वदेशवासित्वं न च कष्टतपःक्रियाः ॥३०॥न क्रियायाः परित्यागो न क्रियायाः समाश्रयः ।नाचारेषु समारम्भविचित्रफलपालयः ॥३१॥स्वभावः कारणं नाम संसारोत्तरणं प्रति ।असंसक्तं मनो यस्य स तीर्णो भवसागरात् ॥३२॥शुभाशुभाः क्रिया नित्यं कुर्वन्परिहरन्नपि ।पुनरेति न संसारमसंसक्तमना मुनिः ॥३३॥शुभाशुभाः क्रिया नित्यमकुर्वन्नपि दुर्मतिः ।निमज्जत्येव संसारे परित्यक्तमनाः शठः ॥३४॥मक्षिकेवान्तःसारज्ञा दुःखादुःखप्रदायिनी ।न निवारयितुं शक्या न च मारयितुं मतिः ॥३५॥काकतालीययोगेन कदाचित्स्वस्य चेतसः ।प्रवृत्तिर्जायते सिध्यै स्वयमात्मावलोकने ॥३६॥अवलोकनतो लब्ध्वा तत्त्वं नैर्मल्यमागतम् ।चेतो भवति निर्द्वन्द्वमसंसक्तमनामयम् ॥३७॥अचित्तत्वं प्रयातेन सत्त्वरूपेण चेतसा ।समो भूत्वा सुखं तिष्ठ पराकाशांशरूपभृत् ॥३८॥अधिगतपरमार्थस्त्यक्तरागादिदोषःसममतिरुदितात्मा त्वं महात्मा महात्मन् ।रघुतनय विशोकस्तिष्ठ निःशङ्कमेकोजननमरणमुक्तं पावनं तत्पदं त्वम् ॥३९॥प्रकृतिमलविकारोपाधिबोधादिरूपंजगति विमलरूपे नास्ति किंचित्क्वचिच्च ।स्फुटमकृतकमस्ति ब्रह्म चिद्धाम तच्चस्वयमहमिति मत्वा तिष्ठ निःशङ्कमेकः ॥४०॥अधिकवचनगम्यं नान्यदस्त्यङ्ग किंचि-त्तव शुभमुपदेश्यं ज्ञानसंबोधनाय ।उदितमखिलमाद्यं ज्ञानसारं समग्रंविदितसकलवेद्यो राघव त्वं हि जातः ॥४१॥श्रीवाल्मीकिरुवाच ।इत्युक्त्वा मुनिनायको व्यपगताशेषैषणे राघवेसर्वस्मिंश्च सभाजने स्थितवति ध्यानैकतानोपमे ।प्राप्ते ब्रह्मपदं धिया धवलया तूष्णीमभूत्षट्पदःकृत्वेवारणितं सरोजपटले पातुं प्रवृत्तो रसम् ॥४२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० मुक्तपुरुषस्थितिवर्णनं नाम नवनवत्यधिकशततमः सर्गः ॥१९९॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP