संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १४

निर्वाणप्रकरणं - सर्गः १४

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


भुशुण्ड उवाच ।
तस्य शक्रस्य कुलजः कश्चिदासीत्सुराधिपः ।
तत्रोत्तमगुणः श्रीमान्पाश्चात्या यस्य सा तनुः ॥१॥
अथेन्द्रकुलपुत्रस्य तस्य तत्र बभूव ह ।
प्रतिभाज्ञानसंप्राप्तिर्बृहस्पतिगिरोदिता ॥२॥
ततो विदितवेद्योऽसौ यथाप्राप्तानुवृत्तिमान् ।
चकार जगतां राज्यमाज्यपानामधीश्वरः ॥३॥
युयुधे दानवैः सार्धमजयत्सर्वशात्रवान् ।
शतं चकार यज्ञानामज्ञानोत्तीर्णमानसः ॥४॥
उवास कार्यवशतो बिसबालान्तरे चिरम् ।
अन्यान्यपि च वृत्तान्तशतान्यनुबभूव ह ॥५॥
कदाचिदासीत्तस्येच्छा प्रबोधबलशालिनः ।
ब्रह्मतत्त्वमवेक्षेऽहं यथावद्ध्यानवानिति ॥६॥
सोऽपश्यत्प्रणिधानेन तत एकान्तसंस्थितः ।
सबाह्याभ्यन्तरेऽशेषकारणत्यागशान्तधीः ॥७॥
सर्वशक्तिपरं ब्रह्म सर्ववस्तुमयं ततम् ।
सर्वथा सर्वदा सर्वं सर्वैः सर्वत्र सर्वगम् ॥८॥
सर्वतः पाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य संस्थितम् ॥९॥
सर्वेन्द्रियगुणैर्मुक्तं सर्वेन्द्रियगुणान्वितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१०॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥११॥
सर्वत्र चन्द्रार्कमयं सर्वत्रैव धरामयम् ।
सर्वत्र पर्वतमयं सर्वत्राब्धिमयं तथा ॥१२॥
सर्वत्र सारगुरुकं सर्वत्रैव नभोमयम् ।
सर्वत्र संसृतिमयं सर्वत्रैव जगन्मयम् ॥१३॥
सर्वत्रैव च मोक्षात्म सर्वत्रैवाद्यचिन्मयम् ।
सर्वत्र सर्वार्थमयं सर्वतः सर्ववर्जितम् ॥१४॥
घटे पटे वटे कुड्ये शकटे वानरे तथा ।
धाम्नि व्योम्नि तरावद्रावनिले सलिलेऽनले ॥१५॥
नानाचारविचाराणि विविधावृत्तिमन्ति च ।
परमाण्वंशमात्रेऽपि त्रिजगन्ति ददर्श सः ॥१६॥
मरिचस्यान्तरे तैक्ष्ण्यं शून्यत्वमिव चाम्बरे ।
त्रिजगत्सत्यसति च विद्यते चिन्मयात्मनि ॥१७॥
इत्येवं भावयन्मुक्तभावया शुद्धसंविदा ।
शक्रः क्रमेण तेनैव तथैव ध्यानवानभूत् ॥१८॥
ध्यानेन सर्वमेकत्र पश्यंश्चिरमुदारधीः ।
ददर्शेममसौ सर्गमस्मदीयं महामतिः ॥१९॥
ततोऽस्मिन्विचरन्सर्गे शक्रान्ते शक्रतां गतः ।
चकार राजतां राज्यं वृत्तान्तशतशोभितम् ॥२०॥
विद्याधरकुलाधीश इत्यद्यैव स देवराड् ।
तस्येन्द्रस्य कुलोत्पन्न इति विद्धि यथास्थितम् ॥२१॥
ततो हृदयबीजस्थप्राङ्मुख्याभ्यासयोगतः ।
बिसबालनिवासादिवृत्तान्तमनुभूतवान् ॥२२॥
यथैष शक्रः कथितस्त्रसरेणूदरास्पदः ।
बिसबालास्पदश्चैतत्कुलजः कान्तिमानथ ॥२३॥
तथा शतसहस्राणि तत्रेतश्चान्यतश्च खे ।
तादृशव्यवहाराणि समतीतानि सन्ति च ॥२४॥
वहतीयमविच्छिन्ना चिरायैवं तरङ्गिणी ।
तावदृश्यसरित्प्रौढा रूढारूढे च तत्पदे ॥२५॥
 इति मायेयमादीर्घा प्रसृता प्रत्ययोन्मुखी ।
सत्यावलोकमात्रातिविलयैकविलासिनी ॥२६॥
यतः कुतश्चिन्मायेयं यत्र क्वचन वानघ ।
यथाकथचित्संपन्नमात्रैव परिदृश्यते ॥२७॥
अहंभावचमत्कारमात्रादृष्टरिवाम्बुदात् ।
जायते मिहिकेवाशु प्रेक्षामात्रविनाशिनी ॥२८॥
येनायताभिमतदर्शनद्रष्टृदृश्य-
मुक्तस्वभावमवभासनमात्मतत्त्वम् ।
सर्वार्थशून्यमत एव च शून्यरूप-
मेकं खमात्रमिव मात्रविकल्पमेव ॥२९॥

इत्यार्षे श्रीवा० वा ० दे ० मो० नि० उ० विद्याधरोपाख्यानान्तर्गतेन्द्राण्वाख्याने सर्गसंकल्पयोरैक्यप्रतिपादनं नाम चतुर्दशः सर्गः ॥१४॥

N/A

References : N/A
Last Updated : September 26, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP