संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १८५ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १८५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८५ Translation - भाषांतर कुन्ददन्त उवाच ।जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः ।आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ॥१॥आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः ।वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ॥२॥आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ ।दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ॥३॥अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरंतनीः ।स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ॥४॥क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव ।मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ॥५॥ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः ।अहं दुःखपरीतात्मा परं वैधुर्यमागतः ॥६॥ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् ।गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ॥७॥तत्र मासत्रयेणासौ समाधिविरतोऽभवत् ।प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ॥८॥कदम्बतापस उवाच ।अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् ।समाधिमेव प्रविशाम्यहमाशु कृतत्वरः ॥९॥परमार्थोपदेशस्ते नाभ्यासेन विनानघ ।लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु ॥१०॥अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः ।नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ॥११॥सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल ।वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ॥१२॥मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज ।विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ॥१३॥इत्युक्त्वा स समाधानरसायनमहार्णवम् ।विवेशाहमिमं देशं त्वत्सकाशमुपागतः ॥१४॥एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् ।यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ॥१५॥श्रीराम उवाच ।स कुन्ददन्त इत्यादिकथाकथनकोविदः ।स्थितस्ततःप्रभृत्येव मत्समीपगतः सदा ॥१६॥स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः ।श्रुतवान्सहितामेतां मोक्षोपायाभिधामिह ॥१७॥स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विज ।अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ॥१८॥श्रीवाल्मीकिरुवाच ।इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः ।स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ॥१९॥श्रीवसिष्ठ उवाच ।कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ ।बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ॥२०॥कुन्ददन्त उवाच ।सर्वसंशयविच्छेदि चेत एव जयाय मे ।सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ॥२१॥ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् ।प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ॥२२॥बुद्धेयं त्वदिदं सर्वं परमार्थधनं घनम् ।अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ॥२३॥सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः ।सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम् ॥२४॥संभवन्ति जगन्त्यन्तः सिद्धार्थकणकोटरे ।न संभवन्ति च यथा ज्ञातमेतदशेषतः ॥२५॥गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुंधरा ।गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ॥२६॥यद्यद्यदा वस्तु यथोदितात्म भातीह भूतैरनुभूयते च ।तत्तत्तदा सर्वघनस्तथास्ते ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ॥२७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्म० ता० कुन्ददन्तप्रबोधो नाम पञ्चाशीत्यधिकशततमः सर्गः ॥१८५॥ N/A References : N/A Last Updated : October 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP