संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १०० निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १०० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०० Translation - भाषांतर श्रीराम उवाच ।युक्तिः स्यात्कीदृशी ब्रह्मन्संसारे दुःखशान्तये ।तेषां येषामयं पक्षः श्रूयतामुच्यतां ततः ॥१॥यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः ।भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥२॥श्रीवसिष्ठ उवाच ।यं यं निश्चयमादत्ते संविदन्तरखण्डितम् ।तत्तथैवानुभवति प्रत्यक्षमिति सर्वगम् ॥३॥यथा खं सर्वगं शान्तं तथा चिद्व्योम सर्वगम् ।तदेवैक्यमथ द्वैतमन्यार्थस्यात्यसंभवात् ॥४॥सर्गादौ तदृतेऽन्योऽर्थो महाप्रलयरूपिणि ।अकाणरत्वान्नास्त्येव ब्रह्मैवेदमतस्ततम् ॥५॥समस्तवेदशास्त्रार्थं ये महाप्रलयादि च ।नेच्छन्ति ते महामूढा निःशास्त्रा नो मृता इव ॥६॥सर्वशास्त्राविरुद्धेन सर्वं ब्रह्मेदमित्यलम् ।स्थितं सानुभवं योक्तृ येषां तैर्न कथाक्रमः ॥७॥नित्या निरन्तरोदेति यादृशी संविदाशये ।भूयते तन्मयेनैव पुंसा देहोऽस्तु माथवा ॥८॥बोधाच्चेत्संविदो जातः स दुःखी पुरुषो भवेत् ।विरुद्धं वेदनं यावत्तावज्जीवोऽङ्ग तन्मयः ॥९॥जगच्चिद्व्योमकचनमात्रमेवेति भाविते ।तत्कथं वेदनं व्योम्ना बोधः कस्य कुतो भवेत् ॥१०॥न कानिचित्प्रधावन्ति एकनिश्चयसंविदाम् ।पुंसां सुखानि दुःखानि रजांसि नभसामिव ॥११॥संवित्सत्यास्त्वसत्या वा निश्चयस्तावदीदृशः ।आबालमेतत्संसिद्धं केनापह्नूयते कथम् ॥१२॥न देहः पुरुषो वापि जीवोऽन्य उपलभ्यते ।संवित्सर्वमिदं सा तु यथा वेत्ति तथा जगत् ॥१३॥सा सत्याप्यथवासत्या तया देहोऽनुभूयते ।स्वातन्त्र्येण यथा स्वप्ने पाताले खे जले दिवि ॥१४॥संवित्सत्यास्त्वसत्या वा तावन्मात्रः स्मृतः पुमान् ।स यथानिश्चयो नूनं तत्सत्यमिति निश्चयः ॥१५॥प्रामाण्यं सर्वशास्त्राणामेतेनैव प्रसिद्ध्यति ।सर्वसिद्धान्तसिद्धान्त एष एवेति मे मतिः ॥१६॥तस्मादबोधता यास्ते यथा संवित्तथैव सा ।भवत्यकलुषाकारा तथैव फलभागिनी ॥१७॥देशकालक्रियाद्रव्यवेदशास्त्रैषणाभ्रमैः ।अबोधता तु या संवित्कदाचित्सा न नश्यति ॥१८॥आविर्भवति सा भूयः क्षीणाशङ्का क्षणेन चेत् ।तत्केन संविदो दुःखं कदा नामोपशाम्यति ॥१९॥संविदेव नृणां जीवः स यथा दृढभावनः ।तथा सुखी वा दुःखी वा भवेदित्येष निश्चयः ॥२०॥संविच्चेदस्ति तज्ज्ञानां शरणं भवभेदने ।नास्ति चेत्तच्छिलामूकमान्ध्यमेवावशिष्यते ॥२१॥यत्तयैव च संवित्त्या वेदनेनैव लभ्यते ।अयं स्वभावज्ञप्त्यान्तर्जाड्यं पुंसेव निद्रया ॥२२॥श्रीराम उवाच ।दिक्ष्वधस्ताच्च नान्तोऽस्या भावी नापि जगत्क्षयः ।अस्तीति भावितं येन संत्यक्ताऽभावबुद्धिना ॥२३॥विज्ञानघनमेवेदमिति नूनमपश्यता ।पश्यता च यथादृष्टं सर्वक्षयमपश्यता ॥२४॥तस्य स्यात्कीदृशी ब्रह्मत्युक्तिराधिविनाशने ।इति मे संशयं छिन्धि भूयो बोधाभिवृद्धये ॥२५॥श्रीवसिष्ठ उवाच ।अत्रैकं तावदुचितं पूर्वमेव तथोत्तरम् ।द्वितीयमुत्तरं न्याय्यं वक्ष्यमाणमिदं श्रृणु ॥२६॥ईदृग्भावस्त्वया प्रोक्तो यः पुमान्पुरुषोत्तम ।स तावच्चेतनामात्रं भवतीत्यनुभूयते ॥२७॥स चाकारविनाशेन युज्यते नात्र संशयः ।अथाविनाशो देहश्चेत्तदुःखस्यात्र कः क्रमः ॥२८॥भवेद्भागविभागात्मविनाशस्त्वविचारितः ।अवश्यं तस्य भवति किलेति ननु निश्चयः ॥२९॥मृतः स संविदात्मत्वाद्भूयो नो वेत्ति संसृतिम् ।ज्ञानधौता न या संविन्न सा तिष्ठत्यसंसृतिः ॥३०॥अथवा नास्ति संवित्तिरिति निश्चयवान्यदि ।ततस्तादृग्वेदनतो भवत्येव दृषज्जडः ॥३१॥यथावेदनमर्थेषु चित्त्वे देहक्षयात्क्षते ।मृतिरेव परं श्रेयो दृष्टं नानुभवादिति ॥३२॥असंभवाच्छुद्धविदो निःशरीरा भवन्ति ये ।जडभावा जडीभूय दुर्भेदान्ध्या भवन्ति ते ॥३३॥ये चापि स्वप्नपुरवत्सर्वं पश्यन्ति चिन्मयाः ।तेषामिदमिवाशेषं जगज्जालं प्रवर्तते ॥३४॥स्थैर्यास्थैर्येण भूतानां किमपूर्वमतौ भवेत् ।भूतस्थैर्ये तथास्थैर्ये सुखं चैवासुखं समम् ॥३५॥स्थिरमस्त्वस्थिरं वापि मह्यादिमहतामपि ।चिद्भामात्रमिदं भाति यावदज्ञानमाततम् ॥३६॥संविदा संविदोऽसत्तामिहाव्याप्य विनष्टया ।निर्णीयाङ्गीकृतं यैर्वा जाड्यं तद्वालकैरलम् ॥३७॥येषां विद्भ्यः शरीराणि ते वन्द्याः पुरुषोत्तमाः ।शरीरेभ्यो विदो येषां तैरलं पुरुषाधमैः ॥३८॥चिद्रूपो जीवबीजौघ आकाशकृमिजालवत्ऊर्ध्वं तिर्यगधो याति पूर्यमाण इव स्वयम् ॥३९॥चेत्यते येन कर्तान्यो बीजौघेन स तत्परः ।तथैवानुभवत्यन्तः स्वयमेव विवल्गति ॥४०॥यद्यथा चेत्यते येन तज्जीवेनाशु तेन तत् ।चिद्रूपेणाप्यते सिद्धमेतदाबालमक्षतम् ॥४१॥यथा धूमस्य नभसि यथाम्भोधौ महाम्भसः ।आवर्तवृत्तयश्चित्रास्तथा चिद्व्योम्नि संसृतेः ॥४२॥पुरी भवति चिद्व्योम यथा स्वप्ने नरं प्रति ।तथादिसर्गात्प्रभृति तदेवेदं जगत्स्थितम् ॥४३॥सहकारिनिमित्तानि यथा स्वप्ने न सन्ति वै ।पृथिव्यादीनि भूतानि तथैवादौ जगत्स्थितेः ॥४४॥अङ्गानां स्वप्ननगरे वसुधा विविधाः कृताः ।यास्ता एव जगत्स्वप्ननगरे पुष्टतां गताः ॥४५॥चिन्मात्राकाशमेवेमाः प्रजा द्वैतैक्यवर्जिताः ।के वात्र रञ्जनान्या खे यद्वाभाति खमेव तत् ॥४६॥चिच्चन्द्रिका चतुर्दिक्कं शीतलाह्लादकारिणी ।तनोति चेतनालोकं तस्येदं कचनं जगत् ॥४७॥अद्यैवाद्यन्तयोर्व्योम्नि चिन्मये सर्गदर्शनम् ।चिदुन्मेषनिमेषाभ्यां खात्मोदेत्यस्तमेति च ॥४८॥यद्यथा वेत्ति यत्तत्सत्तथैवानुभवत्यलम् ।यस्मात्समस्तं चिन्मात्रं किमिवात्र न विद्यते ॥४९॥शरदाकाशविशदं संविदः सौम्यमानसाः ।असन्त एव तिष्ठन्ति सन्तोऽधिगततत्पदाः ॥५०॥निर्मानमोहा जितसङ्गदोषाःप्रवाहसंप्राप्तनिजार्थभाजः ।तिष्ठन्ति कार्यव्यवहारदृष्टौनिरामया यन्त्रमया इवैते ॥५१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे नास्तिक्यनिराकरणं नाम शततमः सर्गः ॥१००॥ N/A References : N/A Last Updated : September 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP