संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १०३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १०३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskritthayogavasisयोगवासिष्ठसंस्कृत सर्गः १०३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।भामात्रं भानमात्रं वा शान्तं भासत एव च ।चिन्मात्रं यदनाद्यन्तं तस्य नाशः कथं कदा ॥१॥तावन्मात्रं च पुरुषः कदाचित्स न नश्यति ।यदि नश्यति चिन्मात्रं भूयो जायेत किं कथम् ॥२॥न चान्यदन्यच्चिन्मात्रं क्वचित्किंचन कस्यचित् ।सर्वानुभवसादृश्ये कीदृशी नाम सान्यता ॥३॥सर्वस्यैव हिमं शीतमुष्णोऽग्निर्मधुरं पयः ।चिन्मात्रस्यावदातस्य कीदृगन्यत्वमत्र तु ॥४॥शरीरनाशे नाशश्चेच्चिन्मात्रस्य तदुच्यताम् ।हर्षस्थाने विषादः किं मरणे संसृतिक्षये ॥५॥न च नाम शरीरस्य नाशे नश्यति चिन्नभः ।देहे नष्टेऽपि बन्धूनां म्लेच्छैर्दृष्टा पिशाचता ॥६॥यावच्छरीरसत्ता चेच्चेतनस्य तदुच्यताम् ।शवः कस्मान्न चलति सत्यखण्डे शरीरके ॥७॥पिशाचानुभवो जीवधर्मश्चेत्तत्स सर्वदा ।किं न पश्यति किं बन्धौ मृते पश्यति तत्तथा ॥८॥जीवधर्मो विशिष्टश्चेत्तादृशस्तं नरः कथम् ।मिथ्या देशान्तरमृते पिशाचत्वं न पश्यति ॥९॥तस्मात्सर्वात्मकत्वे तच्चिन्मात्रं न नियन्त्रितम् ।यद्यद्यत्र यथा वेत्ति तत्तत्तत्रावगच्छति ॥१०॥अवाधितैवैकघना संविद्भवति यादृशी ।तादृश्येवानुभूतिर्हि तत्स्वभावोऽत्र कारणम् ॥११॥अन्यन्न संभवत्यत्र सर्गादावेव कारणम् ।यन्नाम तदिदानीं स्यात्कथ्यतां कीदृशं कथम् ॥१२॥सर्गादावेव नोत्पन्ना न चैवाद्यावभासते ।विकल्पश्रीर्जगद्भासा केवलं भाति चिन्नभः ॥१३॥आभासमात्रमेवेदं दृश्यमित्यवबुध्यते ।दृश्यमित्यवबोधेन तदृते स्यात्क्व दृश्यता ॥१४॥स्वचमत्कारचातुर्यं चारु चिन्नभसा रसात् ।बोधेन बुध्यते दृश्यमित्यबोधान्न बुध्यते ॥१५॥बोधोऽबोधश्च तद्रूपमेवमेव निरामयम् ।भेदोऽत्र वाचि न त्वर्थे तस्मान्नास्त्येव दृश्यता ॥१६॥या चासीद्दृश्यतैषां तां विद्धि त्वमविचारणाम् ।सा चेदानीं विचारेण विनष्टातः क्व दृश्यते ॥१७॥अस्मिन्नेव धियो यत्न आत्मज्ञानविचारणे ।यत्नेन परमोऽभ्यासः स लोकद्वयसिद्धिदः ॥१८॥अविद्योपशमस्त्वेष जातोऽपि भवतामिह ।अभ्यासेन विना साधो न सिद्धिमुपगच्छति ॥१९॥न्रोद्वेगं संपरित्यज्य गृहीत्वानुदिनं क्षणम् ।लोकद्वयहितं पथ्यमिदं शास्त्रं विचार्यताम् ॥२०॥विज्ञातमप्यविज्ञातमात्मज्ञानमिदं भवेत् ।भवतां भूरिभागानां संभूयाभ्यसनं विना ॥२१॥योऽयमर्थं प्रार्थयते तदर्थं यतते तथा ।सोऽवश्यं तमवाप्नोति न चेच्छान्तो निवर्तते ॥२२॥तस्मादस्मान्निवर्तध्वमसच्छास्त्रविचारणात् ।शान्तिं प्राप्स्यथ सच्छास्त्राज्जयलक्ष्मीं यथा रणात् ॥२३॥विवेके चाविवेके च वहत्येषा मनोनदी ।यत्रैव वाह्यते यत्नात्तत्रैव स्थितिमृच्छति ॥२४॥अस्माच्छास्त्रादृते श्रेयो न भूतं न भविष्यति ।ततः परमबोधार्थमिदमेव विचार्यताम् ॥२५॥स्वयमेव विचार्येदं परो बोधोऽनुभूयते ।संसाराध्वश्रमहरो न त्वेतद्वरशापवत् ॥२६॥यन्न पित्रा न वा मात्रा न चापि सुकृतैः कृतम् ।श्रेयस्तद्वः परिज्ञातमिदमाशु करिष्यति ॥२७॥भवबन्धमयी साधो विषमेयं विषूचिका ।आत्मज्ञातादृते दीर्घा न कदाचन शाम्यति ॥२८॥महामोहमयी माया मिथ्यैवाहमिति स्थिता ।शास्त्रार्थभावनेनाशु मुच्यतां परशोच्यता ॥२९॥यात माऽऽपातमधुरं व्योम व्योमैकरूपिणीम् ।शून्यं वायुं लिहन्तोऽन्तर्लेलिहाना इवाहयः ॥३०॥यान्ति वो दिवसाः कष्टमविज्ञातगमागमाः ।व्यवहारे हि तैरेव प्रतिपालयतां मृतिम् ॥३१॥तावदाश्वासनैषास्ति भवतां भयभागिनाम् ।दिनानि कतिचिद्यावन्नायाति मरणावधिः ॥३२॥आगच्छन्त्यां मृतौ कष्टं परितापमवाप्स्यथ ।तं यत्राङ्गाङ्गविच्छेदः शीतचन्दनलेपनम् ॥३३॥क्रीणन्ति प्राणपण्येन धनं मानं घनभ्रमाः ।यथाशास्त्रैः कथं बुद्ध्या न क्रीणन्त्यजरं पदम् ॥३४॥पदं परमयत्नेन क्रियते यैश्चिदम्बरे ।कथं तैः सह्यतेऽज्ञानशत्रुपादः स्वमूर्धनि ॥३५॥निर्मानमोहमापन्ना गतिं गच्छत माधमाम् ।क्रियते स्वात्मबोधेन मूलकाषो महापदाम् ॥३६॥प्रलपन्तमहोरात्रं युष्मदर्थेन मामिमम् ।यं प्रदृश्येदमाकर्ण्य स्वात्मनैवात्मतार्प्यताम् ॥३७॥अद्यैव न चिकित्सां यः करोति मरणापदः ।संप्राप्तायां मृतौ मूढः करिष्यति किमातुरः ॥३८॥अस्माद्ग्रन्थादृते ग्रन्थो नान्यः स्वात्मावबोधने ।नूनमर्थकरो ग्राह्यस्तिलस्तैलार्थिनामिव ॥३९॥आत्मज्ञानमिदं शास्त्रं प्रकाशयति दीपवत् ।पितेव बोधयत्याशु कान्तेव रमयत्यलम् ॥४०॥विद्यमानमपि ज्ञानं ज्ञातं शास्त्रगणान्न यत् ।दुर्बोधं मधुरं तत्तु ज्ञास्यन्तीतो न संशयः ॥४१॥इदमुत्तममाख्यानं मुख्यानां शास्त्रदृष्टिषु ।सुखेन बोधदं हृद्यमपूर्वं न तु किंचन ॥४२॥नानाख्यानकथाचित्रं विनोदेन विचारयेत् ।इदं शास्त्रं परं याति पुमान्नास्त्यत्र संशयः ॥४३॥यो ह्यद्यापि न संप्राप्तः पण्डितैरविखण्डितैः ।स इतः प्राप्यते बोधः सुवर्णमिव सैकतात् ॥४४॥शास्त्रकर्तरि मङ्कतव्यं न कदाचन कुत्रचित् ।शास्त्रार्थ एव तन्नित्यं युक्तियुक्तानुभूतिदे ॥४५॥अज्ञानान्मत्सरान्मोहादविचारिभिरेकता ।अवहेलितशास्त्रार्थैः कर्तव्या नात्महन्तृभिः ॥४६॥जानाम्येव यथैवेमा यदहं त्वं यथा धियः ।तथा बोधितकारुण्यात्स्वभावो हि ममेदृशः ॥४७॥युष्मत्संविल्लवः शुद्ध एवं वक्तुमिह स्थितः ।अहं नरो न गन्धर्वो नामरो न च राक्षसः ॥४८॥संविन्मात्रा भवन्तो हि तद्भावोऽस्त्यतिनिर्मलः ।स्थितोऽस्मीति भवत्पुण्यैर्ननु नास्मि न चापरः ॥४९॥श्यामायमाना नायान्ति यावन्मरणवासराः ।सारः संह्रियतां तावद्वैरस्यं वस्तुदृष्टिषु ॥५०॥इहैव नरकव्याधेश्चिकित्सां न करोति यः ।गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ॥५१॥सर्वभावेषु वैरस्यं न यावत्समुपागतम् ।भावानां भावना तावत्तानवं नोपगच्छति ॥५२॥आत्मानमलमुद्धर्तुं वासनातानवादृते ।नास्त्युपायो महाबुद्धे कश्चनापि कदाचन ॥५३॥भावास्तु यदि विद्यन्ते तद्धिते वस्तुभावना ।किं त्वेते नैव सन्तीह शशश्रृङ्गादयो यथा ॥५४॥सर्व एव जगद्भावा अविचारितचारवः ।अविद्यमानसद्भावा विचाराद्विशरारवः ॥५५॥प्रामाणिकविचारेषु न विद्यन्ते कृतेषु ये ।कथं सन्ति जगद्भावास्ते के सन्ति सदैव वा ॥५६॥सर्व एव जगद्भावाः कारणाभावतो भृशम् ।सर्गादावेव नोत्पन्ना यच्चेदं भाति तत्परम् ॥५७॥पदे सर्वेन्द्रियातीते मनःषष्ठेन्द्रियात्मनाम् ।भावानां कारणं नास्ति मनःषष्ठेन्द्रियात्मकम् ॥५८॥भावानां विविधाख्यानामनाख्यं कारणं कुतः ।कुतो वस्तुन्यवस्तुत्वं व्योमन्यव्योमता कुतः ॥५९॥साकारस्य हि साकारं वटधानादिवद्भवेत् ।बीजं तद्वस्तु साकारं जायतेऽन्यत्कुतोऽन्यथा ॥६०॥न किंचिदपि यत्रास्ति बीजमाकृतिमन्मनाक् ।तत आकृतिमद्विश्वं भवतीति विडम्बनम् ॥६१॥कार्यकारणभावादि तस्मिन्नहि परे पदे ।वाचालत्वेन यन्नाम कल्प्यते मौर्ख्यमेव तत् ॥६२॥सहकारिनिमित्तानामभावे हि न कारणात् ।कार्यं भवेदन्यदेति बालैरप्यनुभूयते ॥६३॥तन्मात्रवेदनं भूयः पृथ्व्यादीनां च कारणम् ।किमस्ति कथ्यतां छाया कथमास्ते वदातपे ॥६४॥परमाणुसमूहा ये जगदित्यप्यवास्तवम् ।शशश्रृङ्गं धनुःप्रख्यमज्ञानादभिधीयते ॥६५॥परमाणुसमूहश्चेत्संभूय कुरुते जगत् ।यदृच्छयैव तमसि शीर्यते च यदृच्छया ॥६६॥तदङ्गमिङ्गते नित्यं देशे देशे गृहे गृहे ।अपूर्वात्म रजः श्रृङ्गं खातं वा स्याद्दिने दिने ॥६७॥न च तद्दृश्यते किंचित्कस्य तत्कर्म तादृशम् ।भवेद्व्यर्थमभव्यस्य जडास्तु परमाणवः ॥६८॥नाबुद्धिपूर्वं तत्कर्म संभवत्यङ्ग कस्यचित् ।बुद्धिपूर्वं तु यद्व्यर्थं कुर्यादुन्मत्तको हि कः ॥६९॥जडस्य बुद्धिपूर्वेहा मरुतो नास्ति तां विना ।न संभवत्यणुचयो नान्यत्कर्तोपपद्यते ॥७०॥वयमात्मान एवेमे खात्मानः खात्मका जनाः ।तथा स्थिता यथा स्वप्ने भवतां स्वप्नमानवाः ॥७१॥तस्मान्न जायते किंचिद्विश्वं नापि च विद्यते ।इत्थं चिन्नभ एवाच्छं प्रकचत्यात्मनात्मनि ॥७२॥विश्वाकाशं चिदाकाशे विष्वग्विश्रान्तिमागतम् ।स्पन्दो द्रवत्वं शून्यत्वमनिलेऽम्भसि खे यथा ॥७३॥देशाद्देशान्तरप्राप्तौ निमेषेणातिदूरतः ।संविदो यद्वपुर्मध्ये चिद्व्योम्नो विद्धि तद्वपुः ॥७४॥स स्वभावो हि सर्वेषामर्थानां ते च तन्मयाः ।तादृशास्तन्नभोरूपास्तेन विश्वमतो नभः ॥७५॥स्वभावस्य परा वृत्तिर्मनागेवाशु तस्य सा ।स्वभावादविभिन्नैव सेदं जगदिति स्थिता ॥७६॥जगच्चिन्नभसोस्तस्मान्न कदाचन भिन्नता ।एकमेव द्वयो रूपं पवनस्पन्दयोरिव ॥७७॥देशाद्देशान्तरप्राप्तौ विदो मध्ये हि यद्वपुः ।शान्ताशेषविशेषात्म तन्मुख्यं नेतरद्विदुः ॥७८॥स स्वभावोऽङ्ग भूतानां तत्र तिष्ठन्ति पण्डिताः ।तस्मान्न विचलन्त्येते नित्यध्यानाद्धरादयः ॥७९॥आभासाकाशमेवेदं भामात्रमवभासनम् ।विश्वमाकाररहितं स्वभावं विदुरव्ययम् ॥८०॥न जायते न म्रियते न भूत्वा भावि कुत्रचित् ।अनन्यदेव चिद्व्योम्नः शून्यत्वमिव खाज्जगत् ॥८१॥न विश्वमस्ति नैवासीन्न च नाम भविष्यति ।इदमाभासते शान्तं चिद्व्योम परमात्मनि ॥८२॥चिन्मात्रमेव कचति स्वप्ने पुरतया यथा ।तथैव जाग्रदाख्येऽस्मिन्स स्वप्ने कचति स्वयम् ॥८३॥सर्गादावेव भावानामसत्तेत्यस्ति देहकः ।कुतस्तस्माच्छरीरत्वं स्वप्न एव नभश्चितेः ॥८४॥स्वयंभ्वाख्यं शरीरं स्वं पूर्वः स्वप्नो महाचितेः ।इत उत्थानास्तदनु स्वप्नात्स्वप्नान्तरं वयम् ॥८५॥गण्डस्योपरि जातानां स्फोटानामत एव नः ।परमेण प्रयत्नेन न मनो नाम यास्यति ॥८६॥ब्रह्मैवासत्यपुरुषः सत्यवच्चानुभूयते ।स्थितं ततःप्रभृत्येव न त्वलीकमिदं ततम् ॥८७॥आब्रह्मस्तम्बपर्यन्तमलीकं जायते जगत् ।यथा स्वप्ने तथालीकमेवमाशु विनश्यति ॥८७॥चिद्व्योमैवैत्य विश्वत्वं यथा स्वप्ने विनश्यति ।अनुदित्वैव विश्वत्वं जाग्रदाख्ये तथैव च ॥८९॥अनुभूतमलीकं चाप्यलीकं सत्यवत्स्थितम् ।संविदेव यथा स्वप्ने नगरादितयोदिता ॥९०॥साकारेव निराकारा स्थिता तद्वज्जगत्तया ।संविदाकाशमाकाशादणु मेरोरणुर्यथा ॥९१॥किल यत्तस्य नाम स्यादाकाशादणुता कुतः ।कारणाभावतोऽन्यस्य नाकार उपपद्यते ॥९२॥सर्गादावेव योऽजातो जातोऽयं जगतः कुतः ।यदेव वेदनाकाशे पुरं स्वप्ने तदेव नः ॥९३॥भेदः स्वप्नाद्रिचिद्व्योम्नोर्न शून्याम्बरयोरिव ।यदेव चिन्नभो नाभ तदेव स्वप्नपत्तनम् ॥९४॥यदेव स्पन्दनं नाम स एव पवनो यथा ।स्पन्दास्पन्दैकरूपात्मा वायुर्व्योमोपमो यथा ॥९५॥तस्माच्चिन्नभ एवेदं जगदाकृति लक्ष्यते ।सर्वं शून्यं निरालम्बं भासनं चिद्विवस्वतः ॥९६॥शान्तमेवेदमखिलं निरस्तास्तमयोदयम् ।सकृद्विभातममलं दृषन्मौनमनामयम् ॥९७॥तस्माद्वद कथं भावाः कुतो भावाः क्व भावधीः ।क्व द्वैतं क्वैकता क्वाहं क्व भावाः क्व च भावनाः ॥९८॥नित्योदितो व्यवहरन्नपि निर्विकारोद्वित्वैक्यमुक्तमतिरुत्तमशीतलोऽन्तः ।निर्वाण आस्व विगतामयशुद्धबोध-बोधैकतामुपगतोऽङ्ग न सन्ति भावाः ॥९९॥इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वा० उ० सकलभावाभावोपदेशेन परमार्थैकताप्रतिपादनं नाम त्र्यधिकशततमः सर्गः ॥१०३॥ N/A References : N/A Last Updated : October 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP