संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १०६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १०६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १०६ Translation - भाषांतर राजोवाच ।अस्ति तावदयं देशो नानावननदीयुतः ।वसुधामण्डलस्यास्य सहोदर इवानुजः ॥१॥अस्मिंश्चायमहं राजा पौराभिमतवृत्तिमान् ।इन्द्रः स्वर्ग इवास्यां तु सभायां मध्यसंस्थित ॥२॥यावदभ्यागतो दूरात्कश्चिच्छाम्बरिकस्त्वयम् ।रसातलादभ्युदितो मायी मय इव स्वयम् ॥३॥अनेन भ्रमिताद्येह पिच्छिका तेजसोर्जिता ।कल्पान्तपवनाभ्रेण शक्रचापलता यथा ॥४॥आलोक्यैतामहं लोलामस्याश्वस्य पुरः स्थितः ।पृष्ठमारूढवानेक आत्मना भ्रान्तमानसः ॥५॥ततोऽद्रिं प्रलयक्षुब्धं पुष्करावर्तको यथा ।तथा चलन्तं चलितः स्वश्वमारूढवानहम् ॥६॥गन्तुं प्रवृत्तो मृगयामेकोऽहमतिरंहसा ।उर्वरामिव निर्भर्तुः कल्लोलः प्रलयाम्बुधेः ॥७॥तेनानिलविलोलेन दूरं नीतोऽस्मि वाजिना ।योगाभ्यासजडेनाज्ञो मुग्धस्य मनसा यथा ॥८॥अकिंचनमनःशून्यं स्त्रीचित्तमिव निर्भरम् ।ततः प्रलयनिर्दग्धजगदास्पदभीषणम् ॥९॥निष्पक्षिक्षारनीहारं निर्वृक्षमजलं महत् ।संप्राप्तोऽहमपर्यन्तमरण्यं श्रान्तवाहनः ॥१०॥तद्द्वितीयमिवाकाशं तथाष्टममिवाम्बुधिम् ।पञ्चमं सागरमिव संशुष्कं शून्यकोटरम् ॥११॥ज्ञस्येव विततं चेतो मूर्खस्येव रुषाऽजवम् ।अदृष्टजनसंसर्गमजाततृणपल्लवम् ॥१२॥अरण्यमिदमासाद्य मतिर्मे खेदमागता ।ललनेवैत्य दारिद्र्यं निरन्नफलबान्धवम् ॥१३॥कचन्मरुमरीच्यम्बुपुरःप्लुतककुम्मुखम् ।आसूर्यास्तं दिनं तत्र प्रक्रान्तं सीदता मया ॥१४॥तदरण्यं मयातीतमतिकृच्छ्रेण खेदिना ।विवेकिनेव संसारो मध्यशून्यतताकृति ॥१५॥यदेतेनातिवाह्याहं प्राप्तवाञ्जङ्गलं क्रमात् ।अस्ताद्रिसानुं खिन्नाश्वः शून्यभ्रान्त्येवभास्करः ॥१६॥जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः ।यत्र स्फुरन्ति खण्डेषु पान्थानामिव बान्धवाः ॥१७॥यत्र शष्पशिखाश्रेण्यो दृश्यन्ते विरलाः स्थले ।कदर्थलक्ष्म्या जिह्मस्य हृदीवानन्दवृत्तयः ॥१८॥पूर्वादरण्यादरसात्तद्धि किंचित्सुखावहम् ।अत्यन्तदुःखान्मरणाद्वरं व्याधिर्हि जन्तुषु ॥१९॥तत्र जम्बीरखण्डस्य तलं संप्राप्तवानहम् ।मार्कण्डेय इवागेन्द्रमेकार्णवविहारतः ॥२०॥आलम्बिता मया तत्र स्कन्धसंसर्गिणी लता ।नीला जलदमालेव तापतप्तेन भूभृता ॥२१॥मयि प्रलम्बमानेऽस्यां प्रयातः स तुरङ्गमः ।गङ्गावलम्बिनि नरे यथा दुष्कृतसंचयः ॥२२॥चिरं दीर्घाध्वगः खिन्नस्तत्र विश्रान्तवानहम् ।भानुरस्ताचलोत्सङ्गे तले कल्पतरोरिव ॥२३॥यावत्समस्तसंसारव्यवहारभरैः समम् ।रविर्विश्रमणायेव निविष्टोऽस्ताचलाङ्गणे ॥२४॥शनैः श्यामिकया ग्रस्ते समस्ते भुवनोदरे ।रात्रिसंव्यवहारेषु संप्रवृत्तेषु जङ्गले ॥२५॥अहं तरुतृणे तस्मिन्पेलवे खण्डकोटरे ।निलीनश्चिरलीनास्यः स्वनीडे विहगो यथा ॥२६॥विषदष्टविवेकस्य कीनाशस्य गलत्स्मृतेः ।विक्रीतस्येव दीनस्य मग्नस्येवान्धकूपके ॥२७॥तत्र कल्पसमा रात्रिर्मोहमग्नस्य मे गता ।एकार्णवोह्यमानस्य मार्कण्डेयमुनेरिव ॥२८॥न स्नातवान्नार्चितवान्न तदा भुक्तवानहम् ।केवलं मे गता रात्रिः सापदां धुरि तिष्ठतः ॥२९॥विनिद्रस्य विधैर्यस्य स्फुरतः सह पल्लवैः ।समं दुष्टातिदैर्घ्येण सा व्यतीयाय शर्वरी ॥३०॥ततस्तिमिरलेखासु सह तारेन्दुकैरवैः ।मयीवापाद्यमानासु म्लानतामलमानने ॥३१॥शाम्यन्तीषु च वेतालक्ष्वेडासु जवजङ्गले ।सहशीतार्तिमद्दन्तपङ्क्तिटाङ्कारसीत्कतैः ॥३२॥मामेवार्तिविनिर्मग्नं हसन्तीमिव दृष्टवान् ।अहं पूर्वां दिशं प्राप्तमधुपानारुणामिव ॥३३॥क्षणादज्ञ इव ज्ञानं दरिद्र इव काञ्चनम् ।दृष्टवानहमर्कं खे वारणारोहणोन्मुखम् ॥३४॥उत्थायास्तरणं वस्त्रं तत्तदास्फोटितं मया ।हस्तिचर्मद्वरेणेव संध्यानृत्यानुरागिणा ॥३५॥प्रवृत्तस्तामहं स्फारां विहर्तुं जङ्गलस्थलीम् ।कालो जगत्कुटीं कल्पदग्धभूतगणामिव ॥३६॥ न किंचिदृश्यते तत्र भूतं जरठजङ्गले । अभिजातो गुणलवो यथा मूर्खशरीरके ॥३७॥ केवलं विगताशङ्कं खण्डभ्रमणचञ्चलम् । चीचीकूचीतिवचना विहरन्ति विहङ्गमाः ॥३८॥अथाष्टभागमापन्ने व्योम्नो दिवसनायके ।शुष्कावश्यायलेशासु स्नातास्विव लतासु च ॥३९॥ दृष्टा मया प्रभ्रमता दारिकौदनधारिणी ।गृहीतामृतसत्कुम्भा दानवेनेव माधवी ॥४०॥तरत्तारकनेत्रां तां श्यामामधवलाम्बराम् ।अहमभ्यागतस्तत्र शर्वरीमिव चन्द्रमाः ॥४१॥मह्यमोदनमाश्वेतद्बाले बलवदापदि ।देहिदीनार्तिहरणात्स्फारतां यान्ति संपदः ॥४२॥क्षुदन्तर्महतीयं मे बाले वृद्धिमुपेयुषी । कृष्णसर्पा प्रसूतेव कोटरस्था जरद्रुमे ॥४३॥याच्चयापि तया मह्यमित्थं दत्तं न किंचन ।यत्नप्रार्थनया लक्ष्म्या यथा दुष्कृतिने धनम् ॥४४॥केवलं चिरकालेन मयात्यन्तानुगामिना ।खण्डात्खण्डं निपतति च्छायाभूते पुरःस्थिते ॥४५॥तयोक्तं हारकेयूरिंश्चण्डालीं विद्धि मामिति ।राक्षसीमिव सुक्रूरा पुरुषाश्वगजाशनाम् ॥४६॥राजन्यार्चनमात्रेण मत्तो नाप्नोषि भोजनम् ।ग्राम्यादनभिजातेहात्सौजन्यमिव सुन्दरम् ॥४७॥इत्युक्तवत्या गच्छन्त्या खेलया च पदेपदे ।कुञ्जकेषु निमज्जन्त्या लीलावनतयोदितम् ॥४८॥ददामि भोजनमिदं भर्ता भवसि चेन्मम ।लोको नोपकरोत्यर्थैः सामान्यः स्निग्धतां विना ॥४९॥वाहयत्यत्र मे दान्तान्केदारे पुल्कसः पिता ।श्मशान इव वेतालः क्षुधितो धूलिधूसरः ॥५०॥तस्येदमन्नं भवति भर्तृत्वे दीयते स्थिते ।प्राणैरपि हि संपूज्या वल्लभाः पुरुषा यतः ॥५१॥अथोक्ता सा मया भर्ता भवामि तव सुव्रते ।केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः ॥५२॥ततस्तयौदनादर्धं मह्यमेकं समर्पितम् ।माधव्येवामृतादर्धमिन्द्रायार्तिमहत्पुरा ॥५३॥जम्बूफलरसः पीतः स भुक्तः पक्कणौदनः ।विश्रान्तं च मया तत्र मोहापहृतचेतसा ॥५४॥मां तत्रार्कमिवापूर्य सा प्रावृट् श्यामला गता ।हस्तेन समुपादाय प्राणं बहिरिव स्थितम् ॥५५॥दुराकृतिं दुरारम्भमाससाद भयप्रदम् ।पितरं पीवराकारमवीचिमिव यातना ॥५६॥तया मदनुषङ्गिण्या स्वार्थस्तस्मै निवेदितः ।मातङ्गाय भ्रमर्येव निःस्वनेनालिलग्नया ॥५७॥अयं मम भवेद्भर्ता तात हे तव रोचताम् ।स तस्या बाढमित्युक्त्वा दिनान्ते समुपस्थिते ॥५८॥मुमोच दान्तावाबद्धौ कृतान्तः किङ्कराविव ।नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितासु च ।वेतालबन्धनात्तस्माद्दिनान्ते चलिता वयम् ॥५९॥क्षणेन पक्कणं प्राप्ताः संध्यायां दीर्घजङ्गलात् ।श्मशानादिव वेतालाः श्मशानमितरन्महत् ॥६०॥विकर्तितविभागस्थकपिकुक्कुटवायसम् ।रक्तसिक्तोर्वराभागप्रभ्रमन्मक्षिकागणम् ॥६१॥शोषार्थं प्रसृतार्द्रान्त्रतन्त्रीजालपतत्खगम् ।निष्कुटस्थितजम्बीरखण्डलग्नखगध्वनि ॥६२॥शुष्यद्गुरुवसापिण्डपूर्णालिन्दलसत्खगम् ।दृष्टिप्रसृतरक्ताक्तचर्मस्रवदसृग्लवम् ॥६३॥बालहस्तस्थितक्रव्यपिण्डक्वणितमक्षिकम् ।जर्जराधिष्ठचण्डालतर्जितारटितार्भकम् ॥६४॥तत्प्रविष्टा वयं कीर्णशिरान्त्र भीमपक्कणम् ।मृतभूतं जगत्कल्पे कृतान्तानुचरा इव ॥६५॥संभ्रमोपहितानल्पकदलीदलपीठके ।अहमास्थितवांस्तत्र नवे श्वशुरमन्दिरे ॥६६॥श्वश्र्वा मे केकराक्ष्या तु तेनासृग्लवचक्षुषा ।जामातायमिति प्रोक्तं तया तदभिनन्दितम् ॥६७॥अथ विश्रम्य चण्डालभोजनान्यजिनासने ।संचितान्युपभुक्तानि दुष्कृतानीव भूरिशः ॥६८॥अनन्तदुःखबीजानि न मनोज्ञतराण्यपि ।तानि प्रणयवाक्यानि श्रुतान्यसुभगान्यलम् ॥६९॥निरभ्राम्बरनक्षत्रे कस्मिंश्चिद्दिवसे ततः ।तैस्तैरारम्भसंरम्भैस्तैर्वस्त्रविभवार्पणैः ॥७०॥दत्ताप्यनेन सा मह्यं कुमारी भयदायिनी ।सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव यातना ॥७१॥सरभसमभितो विनेदुरत्रप्रसृतमहामदिरासवाः श्वपाकाः ।हतपटुपटहा विलासवन्तःस्वयमिव दुष्कृतराशयो महान्तः ॥७२॥इत्यार्षे श्रीवासिष्ठमहारामायणे मो० उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने चाण्डालीविवाहो नाम षडुत्तरशततमः सर्गः ॥१०६॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP