संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ३० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ३० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३० Translation - भाषांतर श्रीवसिष्ठ उवाच ।पृथिव्यप्तेजसां तत्र नभस्वन्नभसोरपि ।यथोत्तरं दशगुणानतीत्यावरणान्क्षणात् ॥१॥ददर्श परमाकाश तत्प्रमाणविवर्जितम् ।तथा ततं जगदिदं यथा तत्राण्डमात्रकम् ॥२॥तादृशावरणान्सर्गान्ब्रह्माण्डेषु ददर्श सा ।कोटिशः स्फुरितान्व्योम्नि त्रसरेणूनिवातपे ॥३॥महाकाशमहाम्भोधौ महाशून्यत्ववारिणि ।महाचिद्द्रवभावोत्थान्बुद्बुदानर्बुदप्रभान् ॥४॥कांश्चिदापततोऽधस्तात्कांश्चिच्चोपरि गच्छतः ।कांश्चित्तिर्यग्गतीनन्यान्स्थितांस्तब्धान्स्वसंविदा ॥५॥यत्र यत्रोदिता संविद्येषां येषां यथा यथा ।तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा ॥६॥नेहैव तत्र नामोर्ध्वं नाधो न च गमागमाः ।अन्यदेव पदं किंचित्तस्माद्देहागमं हि तत् ॥७॥उत्पद्योत्पद्यते तत्र स्वयं संवित्स्वभावतः ।स्वसंकल्पैः शमं याति बालसंकल्पजालवत् ॥८॥श्रीराम उवाच ।किमधः स्यात्किमूर्ध्वं स्यात्किं तिर्यक्तत्र भासुरे ।इति ब्रूहि मम ब्रह्मन्निहैव यदि न स्थितम् ॥९॥श्रीवसिष्ठ उवाच ।ससर्वावरणा एते महत्यन्तविवर्जिते ।ब्रह्माण्डा भान्ति दुर्दृष्टेर्व्योम्नि केशोण्ड्रको यथा ॥१०॥ अस्वातन्त्र्यात्प्रधावन्ति पदार्थाः सर्व एव यत् ।ब्रह्माण्डे पार्थिवो भागस्तदधस्तूर्ध्वमन्यथा ॥११॥पिपीलिकानां महतां व्योम्नि वर्तुललोष्टके ।दशदिक्कमधः पादाः पृष्ठमूर्ध्वमुदाहृतम् ॥१२॥वृक्षवल्मीकजालेन केषांचिद्धृदि भूतलम् ।ससुरानरदैत्येन वेष्टितं व्योम निर्मलम् ॥१३॥संभूतं सह भूतेन सग्रामपुरपर्वतम् ।इदं कल्पनभूतेन पक्वाक्षोटमिव त्वचा ॥१४॥यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः ।तथा तस्मिन्पराभोगे ब्रह्माण्डत्रसरेणवः ॥१५॥तस्मिन्सर्वं ततः सर्वं तत्सर्वं सर्वतश्च यत् ।तच्च सर्वमयो नित्यं तथा तदणुकं प्रति ॥१६॥शुद्धबोधमये तस्मिन्परमालोकवारिधौ ।अजस्रमेत्य गच्छन्ति ब्रह्मण्डाख्यास्तरङ्गकाः ॥१७॥अन्तःशून्याः स्थिताः केचित्संकल्पक्षयरात्रयः ।तरङ्गा इव तोयेऽब्धौ प्रोह्यन्ते शून्यतार्णवे ॥१८॥केषांचिदन्तःकल्पान्तः प्रवृत्तो घर्घरारवः ।न श्रुतोऽन्यैर्न च ज्ञातः स्वभावेन रसाकुलैः ॥१९॥अन्येषां प्रथमारम्भे शुद्धभूषु विजृम्भते ।सर्गः संसिक्तबीजानां कोशेऽङ्कुरकला यथा ॥२०॥महाप्रलयसंपत्तौ सूर्यार्चिर्विद्युतोऽद्रयः ।प्रवृत्ता गलितुं केचित्तापे हिमकणा इव ॥२१॥आकल्पं निपतन्त्येव केचिदप्राप्तभूमयः ।यावद्विशीर्य जायन्ते तथा संविन्मयाः किल ॥२२॥स्तब्धा इव स्थिताः केचित्केशोण्ड्रकमिवाम्बरे ।वायोः स्पन्दा इवाभान्ति तथा प्रोदितसंविदः ॥२३॥आचाराद्वेदशास्त्राणामाद्य एवान्यथोदिते ।आरम्भोऽपि तथान्येषामनित्यः संस्थितः क्रमः ॥२४॥केचिद्ब्रह्मादिपुरुषाः केचिद्विष्ण्वादिसर्गपाः ।केचिच्चान्यप्रजानाथाः केचिन्निर्नाथजन्तवः ॥२५॥केचिद्विचित्रसर्गेशाः केचित्तिर्यङ्मयान्तराः ।केचिदेकार्णवापूर्णा इतरे जनिवर्जिताः ॥२६॥केचिच्छिलाङ्गनिष्पिण्डाः केचित्कृमिमयान्तराः ।केचिद्देवमया एव केचिन्नरमयान्तराः ॥२७॥केचिन्नित्यान्धकाराढ्यास्तथा शीलितजन्तवः ।केचिन्नित्यप्रकाशाढ्यास्तथा शीलितजन्तवः ॥२८॥केचिन्मशकसंपूर्णा उदुम्बरफलश्रियः ।नित्यं शून्यान्तराः केचिच्छून्यस्पन्दात्मजन्तवः ॥२९॥सर्गेण तादृशेनान्ये पूर्णा येऽन्तर्धियामिह ।कल्पनामपि नायान्ति व्योमपूर्णाचलो यथा ॥३०॥तादृगम्बरमेतेषां महाकाशं ततं स्थितम् ।आजीवितं प्रगच्छद्भिर्विष्ण्वाद्यैर्यन्न मीयते ॥३१॥प्रत्येकस्याण्डगोलस्य स्थितः कटकरत्नवत् ।भूताकृष्टिकरो भावः पार्थिवः स्वस्वभावतः ॥३२॥यः सर्वविभवोऽस्माकं धियां न विषयं ततः ।तज्जगत्कथने शक्तिर्न ममास्ति महामते ॥३३॥भीमान्धकारगहने सुमहत्यरण्येनृत्यन्त्यदर्शितपरस्परमेव मत्ताः ।यक्षा यथा प्रवितते परमाम्बरेऽन्त-रेवं स्फुरन्ति सुबहूनि महाजगन्ति ॥३४॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० विचित्रब्रह्माण्डकोटिवर्णनं नाम त्रिंशः सर्गः ॥३०॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP