संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १०७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १०७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १०७ Translation - भाषांतर राजोवाच ।बहुनात्र किमुक्तेन सोत्सवावर्जिताशयः ।तदाप्रभृति तत्राहं संपन्नः पुष्टपुल्कसः ॥१॥सप्तरात्रोत्सवस्यान्ते क्रमान्मासाष्टके गते ।पुष्पिता सास्य संपन्ना स्थिता गर्भवती ततः ॥२॥प्रसूता दुःखदां कन्यां विपद्दुःखक्रियामिव ।सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी ॥३॥पुनः प्रसूता सा वर्षैस्त्रिभिः पुत्रमशोभनम् ।अनर्थमिव दुर्बुद्धिराशापाशविधायकम् ॥४॥पुनः सुतां दुहितरं पुनरप्यर्भकं ततः ।कलत्रवानहं जातो वने जरठपुल्कसः ॥५॥तया सह समास्तत्र मया बह्व्षोऽतिवाहिताः ।नारके चिन्तया सार्धं ब्रह्मघ्नेनेव यातनाः ॥६॥शीतवातातपक्लेशविवशेन वनान्तरे ।चिरं विलुलितं वृद्धकच्छपेनेव पल्वले ॥७॥कलत्रचिन्ताह्रतया धिया संदह्यमानया ।दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव ॥८॥क्षौमानेकसमाक्षीणपटे चेण्डकधारिणा ।काष्ठभारो वने व्यूढो यो मूर्तमिव दुष्कृतम् ॥९॥यौकाकीर्णजरत्क्लिन्नगन्धिकौपीनवाससा ।आश्वस्य धवलीकानां तले नीता घनाः समाः ॥१०॥कलत्रापूरणोत्केन जर्जरेण हिमानिलैः ।हेमन्ते दर्दुरेणेव विलीनं वनकुक्षिषु ॥११॥नानाकलहकल्लोलतापप्रसरविद्रुताः ।बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः ॥१२॥यामिन्यो विपिने क्लिन्ने वराहामिषभोजनाः ।शिलातलकुटीकोशे नीता जलदविक्लवाः ॥१३॥काले क्षयं गते रोहे कालाभ्रघनतां गते ।असौहार्देन बन्धूनां कलहैश्चापि संततैः ॥१४॥सर्वत्र जातशङ्केन कलाभिमुखरार्भकैः ।मया कृपणचित्तेन नीताः परगृहे समाः ॥१५॥चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः ।मुखं जर्जरतां यातमिन्दू राहुरदैरिव ॥१६॥चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः ।नारकाहृतविक्रीता नारक्यो रशना इव ॥१७॥हिमवत्कन्दरोद्गीर्णाश्चण्डा हेमन्तवीचयः ।शिशिरे शीकरासारतुषारनिचयाश्चिरम् ॥१८॥अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः ।जराजरठमूढेन मूलानि क्षीणभूरुहाम् ॥१९॥सुकृतानामिवैकेन समुत्खातानि भूरिशः ।शरावकेष्वटव्यां च पललं पक्वमादरात् ॥२०॥अस्पृष्टेन जनैर्भुक्तं कुकलत्रवता मया ।गृहीततेजःक्षतये बहुवक्रविकारिणा ॥२१॥मार्गाविकमिवात्मीयं विक्रीतं पण्यमन्यतः ।प्राण्यङ्गवपुषस्तस्य प्रोत्कृत्त्योत्कृत्त्य पेशलः ॥२२॥आयसंपरि विक्रीता विन्ध्यपक्कणभूमिषु ।जन्मान्तरसहस्रोत्थं स्वपापमिव वृद्धये ॥२३॥अविकीर्णमसत्कीर्णं चण्डालारामभूमिषु ।दृष्टः कुद्दालको दृष्ट्या संध्यास्नेहविमुक्तया ॥२४॥रौरवापतितेनेव तत्कालस्निग्धतां गतः ।विन्ध्यकन्दरगुल्मानां बन्धुत्वमिव गच्छता ॥२५॥पुलिन्दवपुषा यत्र युक्तयोगैः समर्पिताः ।तर्पिता लगुडाघातजितकौलेयरंहसा ॥२६॥पुत्रदाराः कदन्नेन ग्रामकान्धोचितेन च ।धारासाररणत्पत्रशुष्कतालतले निशाः ॥२७॥नीता रणितदन्तेन सार्धं विपिनवानरैः ।रोमभिः कोटिमुद्रोद्यैः शीतेनाध्युषितस्य मे ॥२८॥वर्षासु मुक्ताकणवद्धृता वानलविन्दवः ।अजाजीमूतखण्डार्थं क्षुत्क्षुण्णक्षीणकुक्षिणा ॥२९॥कलत्रेण सहाटव्यां कृतः कलह आकुलः ।वने रणितदन्तेन शीतकेकरचक्षुषा ॥३०॥मषीमलिनगात्रेण वेतालस्वजनायितम् ।सरित्तीरेषु मत्स्यार्थं भ्रान्तं बडिशधारिणा ॥३१॥कल्पे जगत्सुनाशार्थं कृतान्तेनेव पाशिना ।पीतं बहूपवासेन सद्यःकृत्तमृगोरसः ॥३२॥तत्कालकोष्णं रुधिरं मातुः स्तनपयो यथा ।श्मशानसंस्थितान्मत्तो रक्तरक्तान्मलाशिनः ॥३३॥विद्रुता वनवेतालाश्चण्डिकाभिद्रुता इव ।वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम् ॥३४॥आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः ।मया मायामयैर्लोकाः सूत्रजालमयैः खगाः ॥३५॥जालैर्जर्जरता नीता दिशश्चासुकृतायुषा ।तत्रापि दत्तः प्रसरो मनसो दुष्कृतोदये ॥३६॥आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी ।करभ्या इव सर्पेण विद्रुतं दूरतो धिया ॥३७॥दूरे त्यक्ता दया देहे भुजङ्गेनेव कंचुकम् ।क्रौर्यं सुखेन संरम्भशरवर्षिं निनादि च ॥३८॥अङ्गीकृतं निदाघान्ते नभसेवासिताम्बुदः ।विकासिन्यो क्षताः क्षारा दूरं परिहृता जनैः ॥३९॥श्वभ्रेणेव कुमञ्जर्यश्चिरमूढा मयापदः ।स्वकालकुलकोणासु नरकोद्दामभूमिषु ॥४०॥उप्ता दुष्कृतबीजानां मुष्टयो मोहवृष्टयः ।वागुराभिर्मया विन्ध्यकन्दरस्थेन निर्दयम् ॥४१॥भूतेष्विव कृतान्तेन मृगेषु परिवल्गितम् ।चामरीकण्ठकुड्येषु विश्रान्तशिरसा मया ॥४२॥सुप्तमस्तविवेकेन शेषाङ्गेष्विव शौरिणा ।विलोलचरणाम्बरया सरावोल्लासिधूम्रया ॥४३॥मम तन्वा सनीहारविन्ध्यकच्छगुहायितम् ।कृष्णदेहेन यौकाढ्याकन्थास्कन्धे मया चिरम् ॥४४॥ग्रीष्मे सोढा चलद्भूता वराहेण यथोर्वरा ।बहुशोऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः ॥४५॥कल्पाग्निभुक्तजगतः कालस्यानुगतिं गतः ।लोभिलिङ्गो यथा रोगमनर्थानिव दुर्ग्रहः ।प्रसूतास्तत्र मे दारा दुःखान्यथ सुखान्यपि ॥४६॥नृपालपुत्रकेनैकतनयेन तदा मया ।नीता नीरन्ध्रदोषेण षष्टिः कल्पसमाः समाः ॥४७॥आक्रुष्टमुद्धुरतरं रुदितं विपत्सुभुक्तं कदन्नमुषितं हतपक्कणेषु ।कालान्तरं बहु मयोपहतेन तत्रदुर्वासनानिगडबन्धगतेन सभ्याः ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने आपद्वर्णनं नाम सप्तोत्तरशततमः सर्गः ॥१०७॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP