संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः १२१

उत्पत्तिप्रकरणं - सर्गः १२१

योगवासिष्ठः

चण्डाल्युवाच ।
केनचित्त्वथ कालेन ग्रामकेऽस्मिञ्जनेश्वर ।
अवृष्टिदुःखमभवद्भीषणं भग्नमानवम् ॥१॥
महतानेन दुःखेन सर्वे ते ग्रामका जनाः ।
विनिर्गत्य गता दूरं सर्वे पञ्चत्वमागताः ॥२॥
तेनेमा दुःखभागिन्यः शून्या वयमिह प्रभो ।
सौम्य शोचाम सद्वाष्पमाचान्तेक्षणधारया ॥३॥
इत्याकर्ण्याङ्गनावक्त्राद्राजा विस्मयमागतः ।
मन्त्रिणां मुखमालोक्य चित्रार्पित इवाभवत् ॥४॥
भूयो विचारयामास तदाश्चर्यमनुत्तमम् ।
भूयो भूयोऽथ पप्रच्छ बभूवाश्चर्यवानिति ॥५॥
तेषां समुचितैर्दानसन्मानैर्दुःखसंक्षयम् ।
कृत्वा करुणयाविष्टो इष्टलोकपरावरः ॥६॥
स्थित्वा तत्र चिरं कालं विमृश्य नियतेर्गतीः ।
आजगाम गृहं पौरैर्वन्दितः प्रविवेश ह ॥७॥
प्रातस्तत्र सभास्थाने मामपृच्छदसौ नृपः ।
कथमेवं मुने स्वप्नः प्रत्यक्षमिति विस्मितः ॥८॥
यथावस्तुतया तस्य तत उक्तः स तादृशः ।
संशयो हृदयान्नुन्नो वातेनेवाम्बुदो दिवः ॥९॥
इत्येवं राघवाविद्या महती भ्रमदायिनी ।
असत्सत्तां नयत्याशु सच्चासत्तां नयत्यलम् ॥१०॥
श्रीराम उवाच ।
कथमेवं वद ब्रह्मन्स्वप्नः सत्यत्वमागतः ।
भ्रमोदार इवैषोऽर्थो न मे गलति चेतसि ॥११॥
श्रीवसिष्ठ उवाच ।
सर्वमेतदविद्यायां संभवत्येव राघव ।
घटेषु पटता दृष्टा स्वप्नसंभ्रमितादिषु ॥१२॥
दूरं निकटवद्भाति मुकुरेऽन्तरिवाचलः ।
चिरं शीघ्रत्वमायाति पुनः श्रेष्ठेव यामिनी ॥१३॥
असंभवश्च भवति स्वप्ने स्वमरणं यथा ।
असच्च सदिवाभाति स्वप्नेष्विव नभोगतिः ॥१४॥
सुस्थितं सुष्ठ चलति भ्रमे भूपरिवर्तवत् ।
अचलं चलतामेति मदविक्षुब्धचित्तवत् ॥१५॥
वासनावलितं चेतो यद्यथा भावयत्यलम् ।
तत्तथानुभवत्याशु न तदस्ति न वाप्यसत् ॥१६॥
यदैवाभ्युदिता विद्या त्वहंत्वादिमयी मुधा ।
तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता ॥१७॥
प्रतिभासवशादेव सर्वो विपरिवर्तते ।
क्षणः कल्पत्वमायाति कल्पश्च भवति क्षणः ॥१८॥
विपर्यस्तमतिर्जन्तुः पश्यत्यात्मानमेडकम् ।
बिभर्ति सिंहतामेडो वासनावशतः स्वयम् ॥१९॥
विषमभ्रमदाविद्यामोहाहन्तादयः समाः ।
सर्वे चित्तविपर्यासफलसंपत्तिहेतुतः ॥२०॥
काकतालीयवच्चेतोवासनावशतः स्वतः ।
संवदन्ति महारम्भा व्यवहाराः परस्परम् ॥२१॥
वृत्तं प्राक्पक्कणे राज्ञः कस्यचिल्लवणस्य यत् ।
प्रतिभातं तदेतस्य सद्वासद्वा मनोगतम् ॥२२॥
विस्मरत्यपि विस्तीर्णां कृतां चेतःक्रियां यथा ।
तथा कृतामप्यकृतामिति स्मरति निश्चितम् ॥२३॥
तथा न भुक्तवानस्मि भुक्तवानिति चेतसि ।
स्वप्ने देशान्तरगमे प्राकृतोऽप्यवबुद्ध्यते ॥२४॥
विन्ध्यपुष्कससुग्रामे व्यवहारोऽयमीदृशः ।
प्रतिभासागतस्तस्य स्वप्ने पूर्वकथा यथा ॥२५॥
अथवा लवणेनाशु दृष्टो यः स्वप्नविभ्रमः ।
स एव संविदं प्राप्तो विन्ध्यपुष्कसचेतसि ॥२६॥
लावणी प्रतिभाऽऽरूढा विन्ध्यापुष्कसचेतसि ।
विन्ध्यपुष्कससंविद्वाऽऽरूढा पार्थिवचेतसि ॥२७॥
यथा बहूनां सदृशं वचनं नाम मानसम् ।
तथा स्वप्नेऽपि भवति कालो देशः क्रियापि च ॥२८॥
व्यवहारगतेस्तस्याः सत्तास्ति प्रतिभासतः ।
सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥२९॥
संवेदनेतरा भाति वीचिर्वा जलसंगतिः ।
भूतभव्यभविष्यस्था तरुबीजे तरुर्यथा ॥३०॥
तस्याः सत्त्वमसत्त्वं च न सन्नासदिति स्थितम् ।
सत्सदेव हि संवित्तेरसंवित्तेरसन्मयम् ॥३१॥
नाविद्या विद्यते किंचित्तैलादि सिकतास्विव ।
हेम्नः किं कटकादन्यत्पदं स्याद्धेमतां विना ॥३२॥
अविद्ययात्मतत्त्वस्य संबन्धो नोपपद्यते ।
संबन्धः सदृशानां च यः स्फुटः स्वानुभूतितः ॥३३॥
जतुकाष्ठादिसंबन्धो यः समासमयोगतः ।
नान्योन्यानुभवायासौ तदेकस्पन्दमात्रकम् ॥३४॥
परमार्थमयं सर्वं यथा तेनोपलादयः ।
चिता समभिचेत्यन्ते संबन्धवशतः समाः ॥३५॥
यदा चिन्मात्रसन्मात्रमयाः सव जगद्गताः ।
भावास्तदा विभान्त्येते मिथः स्वानुभवस्थितेः ॥३६॥
न संभवति संबन्धो विषमाणां निरन्तरः ।
न परस्परसंबन्धाद्विनानुभवनं मिथः ॥३७॥
सदृशे सदृशं वस्तु क्षणाद्गत्वैकतामलम् ।
रूपमास्फारयत्येकमेकत्वादेव नान्यथा ॥३८॥
चिच्चेत्यमिलिता दृश्यरूपयोदेति चेतनः ।
[ जडं जडेन मिलितं घनं संपद्यते जडम् ।]
न च चिज्जडयोरैक्यं वैलक्षण्यात्क्वचिद्भवेत् ॥३९॥
चिज्जडौ चित्र एकत्र न तौ संमिलतः क्वचित् ।
चिन्मयत्वाच्चिदालम्भश्चिदालम्भेन वेदनम् ॥४०॥
दारुपाषाणभेदानां नतु ह्येते चिदात्मकाः ।
पदार्थो हि पदार्थेन परिणाम्यनुभूयते ॥४१॥
जिह्वयैव रसास्वादः सजातीयामलोदयः ।
ऐक्यं च विद्धि संबन्धं नास्त्यसावसमानयोः ॥४२॥
जडचेतनयोस्तेन नोपलादि जडं मतम् ।
चिदेवोपलकुड्यादिरूपिणीति मिता चिता ॥४३॥
एकीभावं गता द्रष्टदृश्यादि कुरुते भ्रमम् ।
काष्ठोपलाद्यशेषं हिं परमार्थमयं यतः ॥४४॥
तदात्मना तत्संबन्धे दृश्यत्वेनोपलभ्यते ।
सर्वं सर्वप्रकाराढ्यमनन्तमिव यत्नतः ॥४५॥
विश्वं सन्मात्रमेवैतद्विद्धि तत्त्वविदां वर ।
असत्तात्यागनिष्ठेन विश्वं लक्षशतभ्रमैः ॥४६॥
पूरितं चिच्चमत्कारो नच किंचन पूरितम् ।
संकल्पनागरा नॄणां मिथः स्पन्दन्ति नो यथा ॥४७॥
न देशकालरोधाय तथा सर्गेष्विति स्थितिः ।
भेदबोधे हि सर्गत्वमहंत्वादिभ्रमोदयः ॥४८॥
हेमसंवित्परित्यागे कटकादिभ्रमो यथा ।
कटकादिभ्रमो हेम्नि देशाद्देशं भवाद्भवम् ॥४९॥
दृग्दर्शनपरित्यागे नाविद्यास्ति पृथक्सदा ।
कटकादिमहाभेदमेकं हेम यथामलम् ॥५०॥
बोधैकत्वादयं सर्गस्तदेवासन्नयत्यलम् ।
सेना मृत्संविदा चित्रा मृन्मात्रमिव मृन्मयी ॥५१॥
जलमेकं तरङ्गादि दार्वेकं शालभञ्जिका ।
मृन्मात्रमेकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः ॥५२॥
संबन्धे दृश्यदृष्टीनां मध्ये द्रष्टुर्हि यद्वपुः ।
द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं परम् ॥५३॥
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।
अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥५४॥
अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।
अचेतनं चाजडं च तन्मयो भव सर्वदा ॥५५॥
जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।
अक्षुब्धो वाथवा क्षुब्धस्तन्मयो भव सर्वदा ॥५६॥
कस्यचित्किंचनापीह नोदेति न विलीयते ।
अक्षुब्धो वाथवाक्षुब्धः स्वस्थस्तिष्ठ यथासुखम् ॥५७॥
नाभिवाञ्छति नो द्वेष्टि देहे किंचित्क्वचित्पुमान् ।
स्वस्थस्तिष्ठ निराशङ्कं देहवृत्तिषु मा पत ॥५८॥
भविष्यद्ग्रामकग्राम्यकार्यव्यवसितो यथा ।
चित्तवृत्तिषु मा तिष्ठ तथा सत्यात्मतां गतः ॥५९॥
यथा देशान्तरनरो यथा काष्ठं यथोपलः ।
तथैव पश्य चित्तं त्वमचित्तैव यदात्मना ॥६०॥
यथा दृषदि नास्त्यम्बु यथाम्भस्यनलस्तथा ।
स्वात्मन्येवास्ति नो चित्तं परमात्मनि तत्कुतः ॥६१॥
प्रेक्ष्यमाणं न यत्किंचित्तेन यत्क्रियते क्वचित् ।
कृतं भवति तन्नेति मत्वा चित्तातिगो भवेत् ॥६२॥
अत्यन्तानात्मभूतस्य यश्चित्तस्यानुवर्तते ।
पर्यन्तवासिनः कस्मान्न म्लेच्छस्यानुवर्तते ॥६३॥
निरन्तरमनादृत्य त्वमाराच्चित्तपुष्कसम् ।
स्वस्थमास्स्व निराशङ्कं पङ्केनेव कृतो जडः ॥६४॥
चित्तं नास्त्येव मे भूतं मृतमेवाद्य वेत्ति वा ।
भव निश्चयवान्भूत्वा शिलापुरुषनिश्चलः ॥६५॥
प्रेक्षायामस्ति नो चित्तं तद्विहीनोऽसि तत्त्वतः ।
स किमर्थमनर्थेन तद्व्यर्थेन कदर्थ्यसे ॥६६॥
असता चित्तयक्षेण ये मुधा स्ववशे कृताः ।
तेषां पेलवबुद्धीनां चन्द्रादशनिरुत्थितः ॥६७॥
चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ।
भव भावनया मुक्तो युक्त्या परमयान्वितः ॥६८॥
असतो येऽनुवर्तन्ते चेतसोऽसत्यरूपिणः ।
व्योममारणकर्मैकनीतकालान्धिगस्तु तान् ॥६९॥
व्यपगलितमना महानुभावो
भव भवपारगतो भवामलात्मा ।
सुचिरमपि विचारितं न लब्धं
मलममलात्मनि मानसात्म किंचित् ॥७०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः ॥१२१॥

N/A

References : N/A
Last Updated : September 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP