संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः २० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः २० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २० Translation - भाषांतर श्रीदेव्युवाच ।स ते भर्ताद्य संपन्नो द्विजो भूपत्वमागतः ।या सावरुन्धती नाम ब्राह्मणी सा त्वमङ्गने ॥१॥इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती ।चक्रवाकाविव नवौ भुवि जातौ शिवाविव ॥२॥एष ते कथितः सर्वः प्राक्तनः संसृतिक्रमः ।भ्रान्तिमात्रकमाकाशमेवं जीवस्वरूपधृक् ॥३॥भ्रमादस्माच्चिदाकाशे भ्रमोऽयं प्रतिबिम्बितः ।असत्य एव वा सत्यो भवतोर्भवभङ्गदः ॥४॥तस्माद्भान्तिमयः कः स्यात्कोवा भ्रान्त्युज्झितो भवेत् ।सर्गो निरर्गलानर्थबोधान्नान्यो विजृम्भते ॥५॥श्रीवसिष्ठ उवाच ।इत्याकर्ण्य चिरं चारु विस्मयोत्फुल्ललोचना ।भूत्वोवाच वचो लीला लीलालसपदाक्षरम् ॥६॥लीलोवाच ।देवि भोस्त्वद्वचो मिथ्या कथं संपन्नमीदृशम् ।क्व विप्रजीवः स्वगृहे क्वेमे वयमिह स्थिताः ॥७॥तादृग्लोकान्तरं सा भूस्ते शैलास्ता दिशो दश ।कथं भान्ति गृहस्यान्तर्मद्भर्ता येष्ववस्थितः ॥८॥मत्त ऐरावतो बद्धः सर्षपस्येव कोटरे ।मशकेन कृतं युद्धं सिंहौघैरणुकोटरे ॥९॥पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना ।स्वप्नाब्दगर्जितं श्रुत्वा चित्रं नृत्यन्ति बर्हिणः ॥१०॥असमंजसमेवैतद्यथा सर्वेश्वरेश्वरि ।तथा गृहान्तः पृथिवी शैलाश्चेत्यसमञ्जसम् ॥११॥यथावदेतद्देवेशि कथयामलया धिया ।प्रसादानुगृहीते हि नोद्विजन्ते महौजसः ॥१२॥श्रीदेव्युवाच ।नाहं मिथ्या वदामीदं यथावच्छृणु सुन्दरि ।भेदनं नियतीनां हि क्रियते नास्मदादिभिः ॥१३॥विभिद्यमानामन्येन स्थापयाम्यहमेव याम् ।मर्यादां तां मया भिन्नां कोऽपरः पालयिष्यति ॥१४॥सग्रामद्विजजीवात्मा तस्मिन्नेव स्वसद्मनि ।व्योम्न्येवेदं महाराष्ट्रं व्योमात्मैव प्रपश्यति ॥१५॥प्राक्तनी सा स्मृतिर्लुप्ता युवयोरुदितान्यथा ।स्वप्ने जाग्रत्स्मृतिर्यद्वदेतन्मरणमङ्गने ॥१६॥यथा स्वप्ने त्रिभुवनं संकल्पे त्रिजगद्यथा ।यथा कथार्थसंग्रामो मरुभूमौ जलं यथा ॥१७॥तस्य ब्राह्मणगेहस्य सशैलवनपत्तना ।इयमन्तः स्थिता भूमिः संकल्पादर्शयोरिव ॥१८॥असत्यैवेयमाभाति सत्येव घनसर्गता ।तस्मात्सत्यावभासस्य चिद्व्योम्नः कोशकोटरे ॥१९॥असत्याद्यत्समुत्पन्नं स्मृत्या नाम तदप्यसत् ।मृगतृष्णातरङ्गिण्यां तरङ्गोऽपि न सद्यतः ॥२०॥इदं त्वदीयं सदनं तद्गेहाकाशकोशगम् ।विद्धि मां त्वां च सर्वं च तच्चिद्व्योमैव केवलम् ॥२१॥स्वप्नसंभ्रमसंकल्पस्वानुभूतिपरम्पराः ।प्रमाणान्यत्र मुख्यानि संबोधाय प्रदीपवत् ॥२२॥स्थितो ब्राह्मणगेहान्तर्द्विजजीवस्तदम्बरे ।ससमुद्रवना पृथ्वी स्थिताब्ज इव षट्पदः ॥२३॥तस्याः कस्मिंश्चिदेकस्मिन्पेलवे कोणकोटरे ।इदं पत्तनदेहादि केशोण्ड्रक इवाम्बरे ॥२४॥तस्मिन्नस्मिन्पुरे तन्वि तदेव सदनं स्थितम् ।तस्मात्किं त्रसरेण्वन्तर्जगद्वृन्दमिव स्थितम् ॥२५॥परमाणौ परमाणौ सन्ति वत्से चिदात्मनि ।अन्तरन्तर्जगन्तीति किंत्वेतन्नाम शङ्क्यते ॥२६॥लीलोवाच ।अष्टमे दिवसे विप्रः स मृतः परमेश्वरि ।गतो वर्षगणोऽस्माकं मातः कथमिदं भवेत् ॥२७॥श्रीदेव्युवाच ।देशदैर्घ्यं यथा नास्ति कालदैर्घ्यं तथाङ्गने ।नास्त्येवेति यथान्यायं कथ्यमानं मया शृणु ॥२८॥यथैतत्प्रतिभामात्रं जगत्सर्गावभासनम् ।तथैतत्प्रतिभामात्रं क्षणकल्पावभासनम् ॥२९॥क्षणकल्पं जगत्सर्वं त्वत्तामत्तात्मजन्मनाम् ।यथावत्प्रतिभासस्य वक्ष्ये क्रममिमं शृणु ॥३०॥अनुभूय क्षणं जीवो मिथ्यामरणमूर्च्छनम् ।विस्मृत्य प्राक्तनं भावमन्यं पश्यति सुव्रते ॥३१॥तदेवोन्मेषमात्रेण व्योम्न्येव व्योमरूप्यपि ।आधेयोऽयमिहाधारे स्थितोऽहमिति चेतति ॥३२॥हस्तपादादिमान्देहो ममायमिति पश्यति ।यदेव चेतति वपुस्तदेवेदं स पश्यति ॥३३॥एतस्याहं पितुः पुत्रो वर्षाण्येतानि सन्ति मे ।इमे मे बान्धवा रम्या ममेदं रम्यमास्पदम् ॥३४॥जातोऽहमभवं बालो वृद्धिं यातोऽहमीदृशः ।बान्धवाश्चास्य मे सर्वे तथैव विचरन्त्यमी ॥३५॥चित्ताकाशघनैकत्वात्स्वेऽप्यन्येऽपि भवन्ति ते ।एवं नामोदितेऽप्यस्य चित्ते संसारखण्डके ॥३६॥न किंचिदप्यभ्युदितं स्थितं व्योमैव निर्मलम् ।स्वप्ने द्रष्टरि यद्वच्चित्तद्वद्दृश्ये चिदेव सा ॥३७॥सर्वगैकतया यस्मात्सा स्वप्ने दृष्टदर्शना ।यथा स्वप्ने तथोदेति परलोकदृगादिभिः ॥३८॥परलोके यथोदेति तथैवेहाभ्युदेति सा ।तत्स्वप्नपरलोकेह लोकानामसतां सताम् ॥३९॥न मनागपि भेदोऽस्ति वीचीनामिव वारिणि ।अतो जातमिदं विश्वमजातत्वादनाशि च ॥४०॥स्वरूपत्वात्तु नास्त्येव यच्च भाति चिदेव सा ।यथैव चेत्यनिर्हीणा परमव्योमरूपिणी ॥४१॥सचेत्यापि तथैवैषा परमव्योमरूपिणी ।तस्माच्चेत्यमतो नान्यद्वीचित्वादीव वारितः ॥४२॥वीचित्वं च रसे नास्ति शशशृङ्गवदेव हि ।सैव चेत्यमिवापन्ना स्वभावादच्युताप्यलम् ॥४३॥तस्मान्नास्त्येव दृश्योऽर्थः कुतोऽतो द्रष्टृदृश्यधीः ।निमिषेणैव जीवस्य मृतिमोहादनन्तरम् ॥४४॥त्रिजगद्दृश्यसर्गश्रीः प्रतिभामुपगच्छति ।यथादेशं यथाकालं यथारम्भं यथाक्रमम् ॥४५॥यथोत्पादं यथामातृ यथापितृ यथौरसम् ।यथावयो यथासंविद्यथास्थानं यथेहितम् ॥४६॥यथाबन्धु यथाभृत्यं यथेहास्तमयोदयम् ।अजात एव जातोऽहमिति चेतति चिद्वपुः ॥४७॥देशकालक्रियाद्रव्यमनोबुद्धीन्द्रियादि च ।झटित्येव मृतेरन्ते वपुः पश्यति यौवने ॥४८॥एषा माता पिता ह्येष बालोऽभूवमहं त्विति ।नानुभूतोऽनुभूतो वा यः स्यात्स्मृतिमयः क्रमः ॥४९॥पश्चादुदेत्यसौ तस्य पुष्पस्येव फलोदयः ।निमिषेणैव मे कल्पो गत इत्यनुभूयते ॥५०॥रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रे तथा ह्यभूत् ।कान्ताविरहिणामेकं वासरं वत्सरायते ॥५१॥मृतो जातोऽहमन्यो मे पितेति स्वप्नतास्विव ।अभुक्तस्यैव भोगस्य भुक्तधीरुपजायते ॥५२॥भुक्तेऽप्यभुक्तधीर्दृष्टमित्यलङ्कितवादिषु ।शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।विप्रलम्भोऽपि लाभश्च मदस्वप्नादिसंविदि ॥५३॥तैक्ष्ण्यं यथा मरिचबीजकणे स्थितं स्वंस्तम्भेषु चारचितपुत्रकजालमन्तः ।दृश्यं त्वनन्यदिदमेवमजेऽस्ति शान्तंतस्यास्तिबन्धनविमोक्षदृशः कुतः काः ॥५४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने परमार्थवर्णनं नाम विंशः सर्गः ॥२०॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP