संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ३७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ३७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।रणे रभसनिर्लूननरवारणदारुणे ।अहंपूर्वमहंपूर्वमिति वृन्दानुपातिनि ॥१॥एते चान्ये च बहवस्तत्र भस्मत्वमागताः ।प्रविशन्तः प्रयत्नेन शलभा इव पावके ॥२॥अत्रान्ये मध्यदेशीया जना नोदाहृता मया ।तानिमाञ्छृणु वक्ष्यामि पक्षाँल्लीलामहीभृतः ॥३॥तद्देहिकाः शूरसेना गुडा अश्वघनायकाः ।उत्तमज्योतिभद्राणि मदमध्यमिकादयः ॥४॥सालूकाकोद्यमालास्या दौज्ञेयाः पिप्पलायनाः ।माण्डव्याः पाण्डुनगराः सौग्रीवाद्या गुरुग्रहाः ॥५॥पारियात्राः कुराष्ट्राश्च यामुनोदुम्बरा अपि ।राज्याह्वा उज्जिहानाश्च कालकोटिकमाथुराः ॥६॥पाञ्चाला धर्मारण्याश्च तथैवोत्तरदक्षिणाः ।पाञ्चालकाः कुरुक्षेत्रास्तथा सारस्वता जनाः ॥७॥अवन्तीस्यन्दनश्रेणीकुन्तिपाञ्चनदेरितैः ।स्पन्दमाना विद्रवन्ती निपपात महाभृगौ ॥८॥कोशब्रह्मावसानाश्च च्छिन्ना वस्त्रवतीजनैः ।भूमौ निपतिताः सन्तो मिलिता मत्तवारणैः ॥९॥शूरा दाशपुराः शस्त्रनिकृत्तोदरकन्धराः ।बाणक्षितिभिराक्रम्य योजिता योजने ह्रदे ॥१०॥दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः ।शान्तिकाःशान्तसंचाराः पिशाच्चैश्चर्विता निशि ॥११॥उद्रवैर्भद्रगिरिभिः संग्रामाध्वरदीक्षितैः ।क्षोणिगर्तेषु निक्षिप्ता मरगाः कमठा इव ॥१२॥प्रद्रुता विद्रवद्रक्ता विद्रावितमहारयः ।दण्डिकास्थानिलोद्धूता हैहयैर्हरिणा इव ॥१३॥दन्तिदन्तविनिर्भिन्ना दरदा दलितारयः ।नीता रक्तमहानद्या द्रुमाणां पल्लवा इव ॥१४॥नाराचैश्चर्विताश्चीना जीर्णा जर्जरजीविताः ।जहुर्जलनिधौ देहान्भारभूतानिव स्थितान् ॥१५॥कर्णाटसुभटोड्डीनकुन्ताकलितकन्धराः ।भग्ना नलदशूराश्च तारकानिकरा इव ॥१६॥करीन्द्रमकरव्यूहरंहःसंहतहेतयः ।केशाकेशिकृतारम्भा विनेदुर्दाशकाः शकाः ॥१७॥दशार्णाः पाशनिर्मुक्तश्रृङ्खला जालभीरवः ।निलीना रक्तजम्बाले वैतसास्तिमयो यथा ॥१८॥गुर्जरानीकनाशेन गुर्जरीकेशलुञ्चनम् ।विहितं तङ्गणोत्तुङ्गनासिशङ्कुशतै रणे ॥१९॥सिषिचुः शस्त्रकर्णौघाद्विन्दुभ्यो निगडा गुहान् ।शरधारावनानीव वीरहेतिप्रभाम्बुदाः ॥२०॥भुशुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु ।आभीरेष्वरयः पेतुर्गोगणा हरितेष्विव ॥२१॥कान्तकाञ्चनकान्तासीत्ताम्रसंग्रामवाहिनी ।भुक्ता गौडभटेनाङ्ग नखकेशनिकर्षणैः ॥२२॥रणे नगनयासंख्यकवच्चक्रनिकृन्तनैः ।तङ्गणाः कणशः कीर्णाः कङ्कगृध्रेषुभासकैः ॥२३॥लगुडालोडनोड्डीनं गौडं गुडुगुडारवम् ।श्रुत्वा गान्धारगावोऽग्रे दुद्रुवुर्द्रविडा इव ॥२४॥आकाशगार्णवप्रख्यो वहच्छककदम्बकः ।अकरोत्पारसीकानां घननैशतमोभ्रमम् ॥२५॥मन्दराहननोड्डीनस्वच्छक्षीरार्णवोदरे ।वनानीवायुधान्यासञ्छत्रुप्रालेयसानुनि ॥२६॥यदम्बुदैरिवोड्डीनं शस्त्रवृन्दैर्नभोङ्गणे ।तद्दृष्टं वीचिवलनैर्लोलैः प्लुतमिवार्णवे ॥२७॥शतचन्द्रं सितच्छत्रैः शरैः शलभनिर्भरम् ।शक्तिभिः किल नीरन्ध्रं दृष्टमाकाशकाननम् ॥२८॥वीरासवसमाक्रन्दकारिणः केकयैः कृताः ।कङ्कैः कङ्ककुलाक्रान्तव्योमोद्धूलितमस्तकाः ॥२९॥किरातसैन्यकन्यानां कामं कलकलारवैः ।अङ्गैरनङ्गतां नीत्वा भैरवैरिव गर्जितम् ॥३०॥काशैस्तद्देहकाः क्रांता अदृश्यैर्मायया खगैः ।निर्धूतपक्षैः क्षुभितैः पवनैरिव पांसवः ॥३१॥उन्मत्ताः सुविनिर्धूतास्त्यक्तहेतिरणाम्बराः ।नार्मदा नर्मनिर्मातृ ननृतुर्जहसुर्जगुः ॥३२॥प्रक्वणत्किंकिणीजालं शक्तिवर्षमुपागतम् ।साल्वबाणानिलोद्भूतमगमत्पृषदाकृति ॥३३॥शैव्यास्तु खण्डिताः कौन्तैर्भ्रमत्कुन्तैर्विघट्टिताः ।शवीभूता दिवं नीता दृष्टा विद्याधरा इव ॥३४॥धराधरणधर्मिण्या धीरया हीनसेनया ।लुण्ठिताः पाण्डुनगराश्चलनोल्लासमात्रतः ॥३५॥त देहकाः पाञ्चनदैर्दलिता मत्तकाशिभिः ।कुन्तदन्तद्रुमोद्दामा नगा इव मतङ्गजैः ॥३६॥ब्रह्मावत्सनका नीपैश्चक्रैः कृत्ता गता महीम् ।सहयाः क्रकचोन्कृत्ता वृक्षाः कुसुमिता इव ॥३७॥श्वेतकाकाननं लूनं कुठारैर्जठरेरितैः ।एतद्ददाह पार्श्वस्थो भद्रेशः शरवह्निना ॥३८॥काष्ठयोधे निरालानं मग्ना जीर्णा मतङ्गजाः ।लयमाजग्मुरायुद्धमिद्धेग्नाविन्धनं यथा ॥३९॥मित्रगर्तास्त्रिगर्तात्ता भ्रमित्वोर्ध्वं तृणोपमम् ।विविशुर्व्यस्तमूर्धानः पातालान्तं पलायितुम् ॥४०॥मन्दानिलचलाम्भोधिभासुरे मागधे बले ।निर्मग्ना वनिला मन्दाः पङ्के जीर्णगजा इव ॥४१॥चेदयश्चेतनां जह्रुस्तङ्गणानां रणाङ्गणे ।पुष्पाणां पथि शीर्णानां सौकुमार्यमिवातपाः ॥४२॥कौसलाः पौरवारावमसहन्तोऽन्तका इव ।तैरुन्मुक्तगदाप्रासशरशक्त्यतिवृष्टयः ॥४३॥बभूवुर्भल्लकृत्ताङ्गाऽविस्मया विद्रुमद्रुमाः ।इवाद्रौ विद्रवन्त्यार्द्रसान्द्रासृक्सूर्यमूर्तयः ॥४४॥नाराचौघमहाहेतिमारुताधूतमूर्तयः ।बभ्रमुर्भ्रमरानीकभासुरा जलदा इव ॥४५॥शरधाराधरा मेघाः शरोर्णापूर्णमेषकाः ।शरपत्रावृता वृक्षा भ्रमुस्तद्गर्जनागजाः ॥४६॥वनराज्यजराजीर्णाः कन्दाकस्थलजन्तवः ।अत्रुटन्परमाकृष्टाः पेलवा इव तन्तवः ॥४७॥रथेषु ध्वस्तचक्रेषु निखातेऽमुत्र मूर्धसु ।निपेतुर्जनसंघाता मेघा इव वनाद्रिषु ॥४८॥शालतालवनं प्राप्य जनतावलनं वनम् ।भुजावकर्तनं चासीदुत्तालं स्थाणुकाननम् ॥४९॥ननर्दुर्नन्दनोद्यानसुन्दर्यो मत्तयौवनाः ।वनोपवनदेशेषु मेरोर्वीरवराश्रिताः ॥५०॥तावत्तारारवं रेजे सैन्यकाननमुत्तमम् ।यावन्न परपक्षेण प्राप्तं कल्पानलार्चिषा ॥५१॥छिन्नाः पिशाचसंयुक्ता भूतापहृतहेतयः ।पातयित्वा ययुः कर्णान्दशार्णास्तर्णका इव ॥५२॥जहुर्भग्नेश्वराः कान्ति तां जिगीषवनौजसा ।कासयः कमलानीव शुष्कस्रोतस्विनौजसा ॥५३॥तुषाका मेसलैः कीर्णाः शरशक्त्यसिमुद्गरैः ।विद्रुता नरकैः क्षिप्ताः कटकच्छलना अपि ॥५४॥कौन्तक्षेत्राः प्रस्थवासैः स्थित्वा योधिभिरावृताः ।गुणा इव खलाक्रान्ता गता व्यक्तमशक्तताम् ॥५५॥द्विपयो बाहुधानानां क्षणेनादाय मस्तकम्।भल्लैः पलाय्याशु गता विलूनकमला इव ॥५६॥मिथः सारस्वता नीत्वा आदिनान्तं कृताजयः ।पण्डिता इव वादेषु नोद्विग्ना न पराजिताः ॥५७॥खर्वगाः खदिताः क्षुद्रा यातुधानैः परावृताः ।तेजः परममाजग्मुः शान्ताग्नय इवेन्धनैः ॥५८॥कियदाख्यायत एत-ज्जिह्वानिचयैः किलालमाकुलितः ।वासुकिरपि वर्णयितुंन समर्थो रणवरं राम ॥५९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मो० लीलो० जनपदवर्णनं नाम सप्तत्रिंशः सर्गः ॥३७॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP