संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५० Translation - भाषांतर श्रीवसिष्ठ उवाच ।तस्मिंस्तदा वर्तमाने घोरे समरविभ्रमे ।सर्वारिसैन्यनाशार्थमेकं स्वबलशान्तये ॥१॥सस्मार स्मृतिमानन्तो महोदाराधिधैर्यभृत् ।अस्त्रमस्त्रेश्वरं श्रीमद्वैष्णवं शंकरोपमम् ॥२॥अथ योऽसौ शरस्तेन वैष्णवास्त्राभिमन्त्रितः ।मुक्तस्तस्य फलप्रान्तादुल्मुका दिवि निर्ययौ ॥३॥पङ्क्तयः स्फारचक्राणां शतार्कीकृतदिक्तटाः ।गदानामभियान्तीनां शतवंशीकृताम्बराः ॥४॥वज्राणां शतधाराणां तृणराजीकृताम्बराः ।पट्टिशानां सपद्मानां दीनवृक्षीकृताम्बराः ॥५॥शराणां शितधाराणां पुष्पजालीकृताम्बराः ।खङ्गानां श्यामलाङ्गानां पत्रराशीकृताम्बराः ॥६॥अथ राजा द्वितीयोऽपि वैष्णवास्त्रस्य शान्तये ।ददौ वैष्णवमेवास्त्रं शत्रुनिष्ठावपूरकम् ॥७॥ततोऽपि निर्ययुर्नद्यो हेतीनां हतहेतयः ।शरशक्तिगदाप्रासपट्टिशादिपयोमयाः ॥८॥शस्त्रास्त्रसरितां तासां व्योम्नि युद्धमवर्तत ।रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम् ॥९॥शरपातितशूलासिखड्गकुट्टितपट्टिशम् ।मुसलप्रतनाप्रासशूलशातितशक्तिकम् ॥१०॥शराम्बुराशिमथनमत्तमुद्गरमन्दरम् ।गदावदनतो युक्तं दुर्वारास्त्रिनिभासिनि ॥११॥रिष्टारिष्टप्रशमनभ्रमत्कुन्तेन्दुमण्डलम् ।प्रासप्रसरसंरब्धप्रोद्यतान्तकृतान्तकम् ॥१२॥चक्रावकुण्ठितोर्ध्वास्त्रं सर्वायुधक्षयंकरम् ।शब्दस्फुटद्विरिञ्चाण्डं घातभग्नकुलाचलम् ॥१३॥धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।मदस्त्रवारणेनेव वज्राविजरपर्वतम् ॥१४॥शङ्कुशङ्कितसूत्कारकाशिशूलशिलाशतम् ।भुशुण्डीनिर्जितोद्दण्डभिन्दिपालोग्रमण्डलम् ॥१५॥परशूलकराभैकपरशूलैकलम्पितम् ।वहदुच्छिन्नचञ्चूरचारणं शत्रुवारणम् ॥१६॥स्फुटच्चटचटास्फोटरुद्धत्त्रिपथगारयम् ।हेत्यस्त्रीचूर्णसंभारमहाधूमवितानकम् ॥१७॥अन्योन्यशस्त्रसंघट्टाद्भ्रमज्जालोल्लसत्तडित् ।शब्दस्फुटद्विरिञ्चाण्डं धातमग्नकुलाचलम् ॥१८॥धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।मदस्त्रवारणेनैव कालोपायोऽचलात्मनः ॥१९॥अयं कियद्बल इति सिन्धौ तिष्ठति हेलया ।विदूरथोऽस्त्रमाग्नेयं तत्याजाशनिशब्दवत् ॥२०॥ज्वालयामास स रथं सिन्धोः कक्षमिवारसम् ।एतस्मिन्नन्तरे व्योम्नि हेतिनिर्विवरोदरे ॥२१॥ससन्नाह इव प्रावृट्पयोदतटिनीव यः ।अस्त्रे राज्ञोः क्षणं कृत्वा युद्धं परमदारुणम् ॥२२॥अन्योन्यं शममायाते सवीर्ये सुभटाविव ।एतस्मिन्नन्तरे सोऽग्नी रथं कृत्वा तु भस्मसात् ॥२३॥प्राप दग्ध्वा वनं सिन्धुं मृगेन्द्रमिव कन्दरात् ।सिन्धुरभ्यासतोऽग्न्यस्त्रं वारुणास्त्रेण शामयन् ॥२४॥रथं त्यक्त्वावनिं प्राप्य खड्गास्फोटकवानभूत् ।अक्ष्णोर्निमेषमात्रेण रथाश्वानां रिपोः खुरान् ॥२५॥लुलाव करवालेन मृणालानीव लाघवात् ।विदूरथोऽपि विरथो बभूवास्फोटकासिमान् ॥२६॥समायुधौ समोत्साहौ चेरतुर्मण्डलानि तौ ।खड्गौ क्रकचतां यातौ मिथः प्रहरतोस्तयोः ॥२७॥दन्तमालेयमस्येव बले चर्वयतः प्रजाः ।शक्तिमादाय चिक्षेप खङ्गं त्यक्त्वा विदूरथः ॥२८॥सिन्ध्वम्बुघर्घरारावो महोत्पात इवाशनिः ।अविच्छिन्ना समायाता पतिता सास्य वक्षसि ॥२९॥अप्रियस्य यथा भर्तुरनिच्छन्ती स्वकामिनी ।तेन शक्तिप्रहारेण नासौ मरणमाप्तवान् ॥३०॥केवलं रुधिरव्रातं नागो जलमिवात्यजत् ।तद्देशलीला तं दृष्ट्वा भग्नं तम इवेन्दुना ॥३१॥सविकासघनानन्दा पूर्वलीलामुवाच ह ।देवि पश्य नृसिंहेन हतो भर्त्रायमावयोः ॥३२॥शक्तिकोटिनखैर्दैत्यः सिन्धुरुद्घुरकन्धरः ।सरःस्थलस्थनागेन्द्रकरफूत्कृतवारिवत् ॥३३॥पिष्टो रसोऽस्य निर्याति रक्तं चुलचुलारवैः ।हा कष्टं रथमानीतं सिन्धुरारोढुमुद्यतः ॥३४॥सौवर्णं मैरवं शृङ्गं पुष्करावर्तको यथा ।पश्य देवि रथोऽस्यासौ मुद्गरेण विचूर्णितः ॥३५॥भ्रमत्पार्थनिपातेन सौवर्णं नगरं यथा ।प्रवृत्तो रथमारोढुमानीतं पतिरेष मे ॥३६॥कष्टं वज्रमिवेन्द्रेण मुसलं सिन्धुनेक्षितम् ।जवात्पतिः प्रयातो मे सैन्धवं मुसलायुधम् ॥३७॥वञ्चयित्वा विलासेन रथमारुह्य लाघवात् ।हा धिक्कष्टमसौ सिन्धुरार्यपुत्ररथं रयात् ॥३८॥हरिश्वभ्रमिवारूढं प्लवेनोर्ध्वमिव द्रुमम् ।क्रीडित्वा पीडयामास शरवर्षैर्विदूरथम् ॥३९॥छिन्नध्वजं छिन्नरथं छिन्नाश्वं छिन्नसारथिम् ।छिन्नकार्मुकवर्माणं भिन्नसर्वाङ्गमाकुलम् ॥४०॥हृदि स्फोटशिलापट्टदृढे पीवरमूर्धनि ।भित्त्वा वज्रसमैर्बाणैः पातयत्येव भूतले ॥४१॥अथान्यं रथमानीतं कृच्छ्रेण प्राप्य चेतनाम् ।खङ्गेनारोहतोऽस्यांसं छिन्नं भर्तुर्विलोकय ॥४२॥पद्मरागगिरिद्योतमिवर्द्धासृग्विमुञ्चति ।हा हा धिक्कष्टमेतेन सिन्धुना खड्गधारया ॥४३॥जङ्घयोर्मे पतिश्छिन्नः क्रकचेनेव पादपः ।हा हा हतास्मि दग्धास्मि मृतास्म्युपहतास्मि च ॥४४॥मृणाले इव पत्युर्मे लूने द्वे अपि जानुनी ।इत्युक्त्वा सा तदालोक्य भर्तुर्भावभयातुरा ॥४५॥लता परशुकृत्तेव मूर्च्छिता भुवि सापतत् ।विदूरथोऽपि निर्जानुः प्रहरन्नेव विद्विषि ॥४६॥पपात स्यन्दनस्याधश्छिन्नमूल इव द्रुमः ।पतन्नेवैष सूतेन रथेनैवापवाहितः ॥४७॥यदा तदाहतिं तस्य कण्ठेऽदात्सिन्धुरुद्धतः ।अर्धविच्छिन्नकण्ठोऽसावनुयातोऽथ सिन्धुना ॥४८॥स्यन्दनेनाविशत्सद्म पद्मं रविकरो यथा ।सरस्वत्याः प्रभावाढ्यं तत्प्रवेष्टुमसौ गृहम् ।नाशकन्मशको मत्तो महाज्वालोदरं यथा ॥४९॥खङ्गावकृत्तगलगर्तगलत्सवात-रक्तच्छटाछुरितवस्त्रतनुत्रगात्रम् ।तत्याज तं भगवतीमभितो गृहान्तःसूतः प्रवेश्य मृतितल्पतले गतोऽरिः ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० विदूरथमरणवर्णनं नाम पञ्चाशः सर्गः ॥५०॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP