संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७९ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७९ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इत्युक्त्वा राक्षसी प्रश्नान्सा वक्तुमुपचक्रमे ॥उच्यतामिति राज्ञोक्ते तानिमान्शृणु राघव ॥१॥राक्षस्युवाच ।एकस्यानेकसंख्यस्य कस्याणोरम्बुधेरिव ।अन्तर्ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव ॥२॥किमाकाशमनाकाशं न किंचित्किंचिदेव किम् ।कोऽहमेवासि संपन्नः को भवानप्यहं स्थितः ॥३॥गच्छन्न गच्छति च कः कोऽतिष्ठन्नपि तिष्ठति ।कश्चेतनोऽपि पाषाणः कश्चिद्व्योम्नि विचित्रकृत् ॥४॥वह्नितामजहच्चैव कश्च वह्निरदाहकः ।अवह्नेर्जायते वह्निः कस्माद्राजन्निरन्तरम् ॥५॥अचन्द्रार्काग्नितारोऽपि कोऽविनाशः प्रकाशकः ।अनेत्रलभ्यात्कस्माच्च प्रकाशः संप्रवर्तते ॥६॥लतागुल्माङ्कुरादीनां जात्यन्धानां तथैव च ।अन्येषामप्यनक्षाणामालोकः क इवोत्तमः ॥७॥जनकः कोऽम्बरादीनां सत्तायाः कः स्वभावदः ।को जगद्रत्नकोशः स्यात्कस्य कोशो मणेर्जगत् ॥८॥कोऽणुस्तमःप्रकाशः स्यात्कोऽणुरस्ति च नास्ति च ।कोऽणुर्दूरेऽप्यदूरे च कोऽणुरेव महागिरिः ॥९॥निमेष एव कः कल्पः कः कल्पोऽपि निमेषकः ।किं प्रत्यक्षमसद्रूपं किं चेतनमचेतनम् ॥१०॥कश्च वायुरवायुश्च कः शब्दोऽशब्द एव कः ।कः सर्वं न च किंचिच्च कोऽहं नाहं च किं भवेत् ॥११॥किं प्रयत्नशतप्राप्यं लब्ध्वापि बहुजन्मनि ।लब्धं न किंचिद्भवति किंतु सर्वं न लभ्यते ॥१२॥स्वस्थेन जीवितेनोच्चैः केनात्मैवापहारितः ।केनाणुनान्तः क्रियते मेरुस्त्रिभुवनं तृणम् ॥१३॥केनाप्यणुकमात्रेण पूरिता शतयोजनी ।कोऽणुरेव भवन्माति न योजनशतेष्वपि ॥१४॥केनालोकनमात्रेण जगद्वालः प्रनाट्यते ।कस्याणोरुदरे सन्ति किलावनिभृतां घटाः ॥१३॥अणुत्वमजहत्कोऽणुर्मेरोः स्थूलतराकृतिः ।वालाग्रशतभागात्मा कोऽणुरुच्चैः शिलोच्चयः ॥१६॥कोऽणुः प्रकाशतमसां दीपः प्रकटनप्रदः ।कस्याणोरुदरे सन्ति समग्रानुभवाणवः ॥१७॥कोऽणुरत्यन्तनिःस्वादुरपि संस्वदतेऽनिशम् ।केन संत्यजता सर्वमणुना सर्वमाश्रितम् ॥१८॥केनात्माच्छादनाशक्तेनाणुनाच्छादितं जगत् ।जगल्लये न कस्याणोः सद्भूतमपि जीवति ॥१९॥अजातावयवः कोऽणुः सहस्रकरलोचनः ।को निमेषो महाकल्पः कल्पकोटिशतानि च ॥२०॥अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः ।बीजानि निष्कलान्तानि स्फुटान्यनुदितान्यपि ॥२१॥कल्पः कस्य निमेषस्य बीजस्येवान्तरस्थितः ।कः प्रयोजनकर्तृत्वमप्यनाश्रित्य कारकः ॥२२॥दृश्यसंपत्तये द्रष्टा स्वात्मानं दृश्यतां नयन् ।दृश्यं पश्यन्स्वमात्मानं को हि पश्यत्यनेत्रवान् ॥२३॥अन्तर्गलितदृश्यं च क आत्मानमखण्डितम् ।दृश्यासंपत्तये पश्यन्पुरो दृश्यं न पश्यति ॥२४॥आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् ।कटकादीनि हेम्नेव विकीर्णं केन च त्रयम् ॥२५॥कस्मान्न किंचिच्च पृथगूर्म्यादीव महाम्भसः ।कस्येच्छया पृथक्चास्ति वीचितेव महाम्भसः ॥२६॥दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः ।द्वैतमप्यपृथक्कस्माद्द्रवतेव महाम्भसः ॥२७॥आत्मानं दर्शनं दृश्यं सदसच्च जगत्त्रयम् ।कोऽन्तर्बीजमिवान्तस्थं स्थितः कृत्वा त्रिकालगः ॥२८॥भूतं भवद्भविष्यच्च जगद्वृन्दं बृहद्भ्रमम् ।नित्यं समस्य कस्यान्तर्बीजस्यान्तरिव द्रुमः ॥२९॥बीजं द्रुमतयेवाशु द्रुमो बीजतयेव च ।स्वमेकमजहदूपमुदेत्यनुदितोऽपि कः ॥३०॥बिसतन्तुर्महामेरुर्भो राजन्यदपेक्षया ।तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः ॥३१॥केनेदमाततमनेकचिदेव विश्वंकिंसार एवमतिवल्गसि हंसि पासि ।किंदर्शनेन न भवस्यथवा सदैवनूनं भवस्यमलदृग्वदनः स्वशान्त्यै ॥३२॥एषोऽसौ प्रगलतु संशयो ममोच्चै-श्चित्तश्रीमुखमिहिकामलानुलेपः ।यस्याग्रे न गलति संशयः समूलोनैवासौ क्वचिदपि पण्डितोक्तिमेति ॥३३॥एवं मे यदि न विनेष्यथः क्रमोक्तंसंशान्तं लघुतरसंशयं सुबुद्धी ।तद्रक्षोजरठहुताशनेन्धनत्वंनिर्विघ्नं झटिति गमिष्यथः क्षणेन ॥३४॥पश्चात्तां जनपदमण्डलीं समन्ता-द्भावत्कीमुरुजठरा क्षणाद्ग्रसेऽहम् ।एवं ते भवतु सुराजतेति मन्येमूर्खाणामतिरस एव संक्षयाय ॥३५॥इत्युक्त्वा विपुलगभीरमेघनाद-प्रोल्लासप्रकटगिरा निशाचरी सा ।तूष्णीमप्यतिविकटाकृतिस्तदासी-च्छुद्धान्तः शरदमलाभ्रमण्डलीव ॥३६॥इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे क० राक्षसीप्रश्रो नामैकोनाशीतितमः सर्गः ॥७९॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP