संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ११५

उत्पत्तिप्रकरणं - सर्गः ११५

योगवासिष्ठः

श्रीवाल्मीकिरुवाच ।
एवमुक्तो भगवता वसिष्ठेन महात्मना ।
रामः कमलपत्राक्ष उन्मीलित इवाबभौ ॥१॥
विकासितान्तःकरणः शोभामलमुपाययौ ।
आश्वस्तस्तमसि क्षीणे पद्मोऽर्कालोकनादिव ॥२॥
बोधविस्मयसंजातसौम्यस्मितसिताननः ।
दन्तरश्मिसुधाधौतामिमां वाचमुवाच ह ॥३॥
श्रीराम उवाच ।
अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।
अविद्यमाना या विद्या तया सर्वे वशीकृताः ॥४॥
इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रये ।
अविद्ययापि यन्नामासदेव सदिव स्थितम् ॥५॥
अस्याः संसारमायाया नद्यास्त्रिभुवनाङ्गणे ।
रूपं मदवबोधार्थं कथयानुग्रहात्पुनः ॥६॥
अन्यो यत्संशयोऽयं मे महात्मन्हृदि वर्तते ।
लवणोऽसौ महाभागः किं नामापदमाप्तवान् ॥७॥
संश्लिष्टयोराहतयोर्द्वयोर्वा देहदेहिनोः ।
ब्रह्मन्क इव संसारी शुभाशुभफलैकभाक् ॥८॥
लवणस्य तथा दत्त्वा तामापदमनुत्तमाम् ।
किं गतश्चञ्चलारम्भः कश्चासावैन्द्रजालिकः ॥९॥
श्रीवसिष्ठ उवाच ।
काष्ठकुड्योपमो देहो न किंचन इहानघ ।
स्वप्नालोक इवानेन चेतसा परिकल्प्यते ॥१०॥
चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम् ।
विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम् ॥११॥
देही हि कर्मभाग्यो हि नानाकारशरीरधृक् ।
अहंकारमनोजीवनामभिः परिकल्प्यते ॥१२॥
तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव ।
सुखदुःखान्यनन्तानि शरीरस्य न कानिचित् ॥१३॥
अप्रबुद्धं मनो नानासंज्ञाकल्पितकल्पनम् ।
वृत्तीरनुपतच्चित्रा विचित्राकृतितां गतम् ॥१४॥
अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि ।
संभ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन ॥१५॥
अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः ।
तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम् ॥१६॥
संप्रबुद्धस्य मनसस्तमः सर्वं विलीयते ।
कमलस्य यथा हार्दं दिनालोकविकासिनः ॥१७॥
चित्ताविद्यामनोजीववासनेति कृतात्मभिः ।
कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः ॥१८॥
जडो देहो न दुःखार्हो दुःखी देह्यविचारतः ।
अविचारो घनाज्ञानादज्ञानं दुःखकारणम् ॥१९॥
शुभाशुभानां धर्माणां जीवो विषयतां गतः ।
अविवेकैकदोषेण कोशेनेव हि कीटकः ॥२०॥
अविवेकामयोन्नद्धं मनो विविधवृत्तिमत् ।
नानाकारविहारेण परिभ्रमति चक्रवत् ॥२१॥
उदेति रौति हन्त्यत्ति याति वल्गति निन्दति ।
मन एव शरीरेऽस्मिन्न शरीरं कदाचन ॥२२॥
यथा गृहपतिर्गेहे विविधं हि विचेष्टते ।
न गृहं तु जडं राम तथा देहे हि जीवकः ॥२३॥
सर्वेषु सुखदुःखेषु सर्वासु कलनासु च ।
मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् ॥२४॥
अत्र ते श्रृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् ।
लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात् ॥२५॥
मनः कर्मफलं भुङ्कते शुभं वाऽशुभमेव वा ।
यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव ॥२६॥
हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ ।
एकं तेनोपविष्टेन चिन्तितं मनसा चिरम् ॥२७॥
पितामहो मे सुमहान्राजसूयस्य याजकः ।
अहं तस्य कुले जातस्तं यजे मनसा मखम् ॥२८॥
इति संचिन्त्य मनसा कृत्वा संभारमादृतः ।
राजसूयस्य दीक्षायां प्रविवेश महीपतिः ॥२९॥
ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन् ।
देवानामन्त्रयामास ज्वालयामास पावकम् ॥३०॥
यथेच्छं यजमानस्य मनसोपवनान्तरे ।
ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया ॥३१॥
भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् ।
विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः ॥३२॥
एवं स लवणो राजा राजसूयमवाप्तवान् ।
मनसैव हि तुष्टेन युक्तं तस्य फलेन च ॥३३॥
अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः ।
तन्मनः पावनोपाये सत्ये योजय राघव ॥३४॥
पूर्णे देशे सुसंपूर्णः पुमान्नष्टे विनश्यति ।
देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः ॥३५॥
उच्चैर्विवेकवति चेतसि संप्रबुद्धे
दुःखान्यलं विगलितानि विविक्तबुद्धेः ।
भास्वत्करप्रकटिते ननु पद्मखण्डे
संकोचजाड्यतिमिराणि चिरं क्षतानि ॥३६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उत्पत्तिप्रकरणे सुखदुःखभोक्तृत्वोपदेशो नाम पञ्चदशोत्तरशततमः सर्गः ॥११५॥

N/A

References : N/A
Last Updated : September 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP