संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः २१ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः २१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २१ Translation - भाषांतर श्रीदेव्युवाच ।प्रतिभान्ति जगन्त्याशु मृतिमोहादनन्तरम् ।जीवस्योन्मीलनादक्ष्णो रूपाणीवाखिलान्यलम् ॥१॥दिक्कालकलनाकाशधर्मकर्ममयानि च ।परिस्फुरन्त्यनन्तानि कल्पान्तस्थैर्यवन्ति च ॥२॥नानुभूतं न यद्दृष्टं तन्मया कृतमित्यपि ।तत्क्षणात्स्मृतितामेति स्वप्ने स्वमरणं यथा ॥३॥भ्रान्तिरेवमनन्तेयं चिद्व्योमव्योम्नि भासुरा ।अपकुड्या जगन्नाम्नी नगरी कल्पनात्मिका ॥४॥इदं जगदयं सर्गः स्मृतिरेवेति जृम्भते ।दूरकल्पक्षणाभ्यासविपर्यासैकरूपिणी ॥५॥नानुभूतानुभूता च ज्ञप्तिरित्थं द्विरूपिणी ।पूर्वकारणरिक्तैव चिद्रूपैव प्रवर्तते ॥६॥नानुभूतेऽनुभूतत्वसंविदन्तरुदेत्यपि ।स्वप्नभ्रमादावन्यस्मिन्पितरीव पितुः स्मृतिः ॥७॥कदाचित्स्मृतितां त्यक्त्वा प्रतिभामात्रमेव सत् ।भाति प्रथमसर्गेषु रूपेण तदनुक्रमात् ॥८॥दृश्यं त्रिभुवनादीदमनुभूतं स्मृतौ स्थितम् ।केषांचित्तन्वि केषांचिन्नानुभूतं स्मृतौ स्थितम् ॥९॥प्रतिभासत एवेदं केषांचित्सरणं विना ।चिदणूनां प्रजेशत्वं काकतालीयवद्यतः ॥१०॥अत्यन्तविस्मृतं विश्वं मोक्ष इत्यभिधीयते ।ईप्सितानीप्सिते तत्र न स्तः काचन कस्यचित् ॥११॥अत्यन्ताभावसंपत्तिं विनाहन्ताजगत्स्थितेः ।अनुत्पादमयी ह्येषा नोदेत्येव विमुक्तता ॥१२॥रज्ज्वां सर्पभ्रमः सर्पशब्दार्थासंभवं स्थितम् ।अनुत्पादमयं त्यक्त्वा शान्तोऽपि हि न शाम्यति ॥१३॥अर्धशान्तो न शान्तोऽसौ समेत्यर्थतया पुनः ।उदेत्येकपिशाचान्ते पिशाचोऽन्यो ह्यधीमतः ॥१४॥संसारश्चायमाभोगी परमेवेति निश्चयः ।कारणाभावतो भाति यदिहाभातमेव तत् ॥१५॥लीलोवाच ।ब्राह्मणब्राह्मणीरूपे सर्गे कारणसंस्मृतिः ।कथमभ्युत्थिता सास्य स्मरणीयमिदं विना ॥१६॥श्रीदेव्युवाच ।पितामहस्मृतिस्तत्र कारणं तस्य न स्मृतिः ।पूर्वं न संभवत्येव मुक्तत्वात्पूर्वजन्मनः ॥१७॥पूर्वं न संभवत्येव स्मरणीयमिति स्वयम् ।पद्मजादित्वमायाति चैतन्यस्य तथास्थितेः ॥१८॥अभूवमहमित्यन्यः प्रजानाथः प्रजापतेः ।काकतालीयवत्कश्चिद्भवति प्रतिभामयः ॥१९॥एवमभ्युदिते लोके न किंचिन्न कदाचन ।क्वचिदभ्युदितं नाम केवलं चिन्नभः स्थितम् ॥२०॥द्विविधायाः स्मृतेरस्याः कारणं परमं पदम् ।कार्यकारणभावोऽसावेक एव चिदम्बरे ॥२१॥कार्य च कारणं चैव कारणैः सहकारिभिः ।कार्यकारणयोरैक्यात्तदभावान्न शाम्यति ॥२२॥महाचिद्रूपमेव त्वं स्मरणं विद्धि वेदनम् ।कार्यकारणता तेन स शब्दो न च वास्तवः ॥२३॥एवं न किंचिदुत्पन्नं दृश्यं चिज्जगदाद्यपि ।चिदाकाशे चिदाकाशं केवलस्वात्मनि स्थितम् ॥२४॥लीलोवाच ।अहो नु परमा दृष्टिर्दर्शिता देवि मे त्वया ।रूपश्रीर्जागती प्रातः प्रभयेवेक्षणद्युतिः ॥२५॥इदानीमहमेतस्यां यावत्परिणता दृशि ।नाभ्यासेन विना तावद्भिन्धीदं देवि कौतुकम् ॥२६॥यत्रासौ ब्राह्मणो गेहे ब्राह्मण्या सहितोऽभवत् ।तं सर्गं तं गिरिग्रामं नय मां तं विलोकये ॥२७॥श्रीदेव्युवाच ।अचेत्यचिद्रूपमयीं परमां पावनीं दृशम् ।अवलम्ब्येममाकारमवमुच्य भवामला ॥२८॥ततः प्राप्स्यस्यसंदेहं व्योमात्मानं नभःस्थितम् ।भूमिष्ठनरसंकल्पो गगनान्तः पुरं यथा ॥२९॥एवं स्थिते तं पश्यावः सह सर्गमनर्गलम् ।अयं तद्दर्शनद्वारे देहो हि परमार्गलम् ॥३०॥लीलोवाच ।अमुना देवि देहेन जगदन्यदवाप्यते ।न कस्मादत्र मे युक्तिं कथयानुग्रहाग्रहात् ॥३१॥श्रीदेव्युवाच ।जगन्तीमान्यमूर्तानि मूर्तिमन्ति मुधाग्रहात् ।भवद्भिरवबुद्धानि हेमानीवोर्मिकाधिया ॥३२॥हेम्न्यूर्मिकारूपधरेऽप्यूर्मिकात्वं न विद्यते ।यथा तथा जगद्रूपे जगन्नास्ति च ब्रह्मणि ॥३३॥जगदाकाशमेवेदं ब्रह्मैवेह तु दृश्यते ।दृश्यते काचिदप्यत्र धूलिरम्बुनिधाविव ॥३४॥अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् ।अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ॥३५॥ब्रह्मैव पश्यति ब्रह्म नाब्रह्म ब्रह्म पश्यति ।सर्गादिनाम्ना प्रथितः स्वभावोऽस्यैव चेदृशः ॥३६॥न ब्रह्मजगतामस्ति कार्यकारणतोदयः ।कारणानामभावेन सर्वेषां सहकारिणाम् ॥३७॥यावदभ्यासयोगेन न शान्ता भेदधीस्तव ।नूनं तावदतद्रूपा न ब्रह्म परिपश्यसि ॥३८॥तत्र रूढिमुपायाता य इमे त्वस्मदादयः ।अभ्यासाद्ब्रह्मसंपत्तेः पश्यामस्ते हि तत्परम् ॥३९॥संकल्पनगरस्यैव ममाकाशमयं वपुः ।ब्रह्मैव चान्तः पश्यामि देहेनानेन तत्पदम् ॥४०॥विशुद्धज्ञानदेहार्हास्तथैते पद्मजादयः ।ब्रह्मात्मजगदादीनामंशे संस्थानमङ्गने ॥४१॥तवाभ्यासं विना बाले नाकारो ब्रह्मतां गतः ।स्थितः कलनरूपात्मा तेन तन्नानुपश्यसि ॥४२॥यत्र स्वसंकल्पपुरं स्वदेहेन न लभ्यते ।तत्रान्यसंकल्पपुरं देहोऽन्यो लभते कथम् ॥४३॥तस्मादेनं परित्यज्य देहं चिद्व्योमरूपिणी ।यत्पश्यसि तदेवाद्य कुरु कार्यविदांवरे ॥४४॥संकल्पनगरं सत्यं यथासंकल्पितं प्रति ।संदेहं वा विदेहं वा नेतरं प्रति किंचन ॥४५॥आदिसर्गे जगद्भ्रान्तिर्यथेयं स्थितिमागता ।तथा तदाप्रभृत्येवं नियतिः प्रौढिमागता ॥४६॥लीलोवाच ।त्वयोक्तं देवि गच्छावो ब्राह्मणब्राह्मणी जगत् ।सहेतीदमिदं वच्मि कथं गन्तव्यमम्ब हे ॥४७॥इमं देहमिहास्थाप्य शुद्धसत्त्वानुपातिना ।चेतसा तं परं यामि लोकं त्वं कथमेषि तत् ॥४८॥श्रीदेव्युवाच ।संकल्पव्योमवृक्षस्ते यथा सन्नपि खात्मकः ।न कुड्यात्मा न कुड्येन रोध्यते नापि कुड्यहा ॥४९॥शुद्धैकसत्त्वनिर्माणं चिद्रूपस्यैव तत्किल ।प्रतिभानमतस्तस्मात्परस्म्वाद्भिद्यते मनाक् ॥५०॥सोऽयमेतादृशो देहो नैनं संत्यज्य याम्यहम् ।अनेनैव तमाप्नोमि देशं गन्धमिवानिलः ॥५१॥यथा जलं जलेनाग्निरग्निना वायुनानिलः ।मिलत्येवमतो देहो देहैरन्यैर्मनोमयैः ॥५२॥नहि पार्थिवतासंविदेत्य पार्थिवसंविदा ।एकत्वं कल्पनाशैलशैलयोः क्वाहतिर्मिथः ॥५३॥आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः ।आधिभौतिकताबुद्ध्या गृहीतश्चिरभावनात् ॥५४॥यथा स्वप्ने यथा दीर्घकालध्याने यथा भ्रमे ।यथा च सति संकल्पे यथा गन्धर्वपत्तने ॥५५॥वासनातानवं नूनं यदा ते स्थितिमेष्यति ।तदातिवाहिको भावः पुनरेष्यति देहके ॥५५॥लीलोवाच ।आतिवाहिकदेहत्वप्रत्यये घनतां गते ।तामवाप्नोत्ययं देहो दशामाहो विनश्यति ॥५७॥श्रीदेव्युवाच ।यदस्ति नाम तत्रैव नाशानाशक्रमो भवेत् ।वस्तुतो यच्च नास्त्येव नाशः स्यात्तस्य कीदृशः ॥५८॥रज्ज्वां सर्पभ्रमे नष्टे सत्यबोधवशात्सुते ।सर्पो न नष्ट उन्नष्टो वेत्येवं कैव सा कथा ॥५९॥यथा सत्यपरिज्ञानाद्रज्ज्वा सर्पो न दृश्यते ।तथातिवाहिकज्ञानाद्दृश्यते नाधिभौतिकः ॥६०॥कल्पनापि निवर्तेत कल्पिता यदि केनचित् ।सा शिला समपास्तैव या नेहास्ति कदाचन ॥६१॥परं परे परापूर्णमिदं देहादिकं स्थितम् ।इति सत्यं वयं भद्रे पश्यामो नाभिपश्यसि ॥६२॥आदिसर्गे भवेच्चित्त्वं कल्पनाकल्पितं यदा ।तदा ततः प्रभृत्येकसत्त्वं दृश्यमवेक्षते ॥६२॥लीलोवाच ।एकस्मिन्नेव संशान्ते दिक्कालाद्यविभागिनि ।विद्यमाने परे तत्त्वे कलनावसरः कुतः ॥५४॥श्रीदेव्युवाच ।कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि ।सत्यत्वं च यथा स्वप्नसंकल्पनगरादिषु ॥६५॥नास्त्येव सत्यनुभवे तथा नास्त्येव ब्रह्मणि ।कल्पनाव्यतिरिक्तात्मतत्स्वभावादनामयात् ॥६६॥यथा नास्त्यम्बरे पांसुः परे नास्ति तथा कला ।अकलाकलनं शान्तमिदमेकमजं ततम् ॥६७॥यदिदं भासते किंचित्तत्तस्येव निरामयम् ।कचनं काचकस्येव कान्तस्याऽतिमणेरिव ॥६८॥लीलोवाच ।एतावन्तं चिरं कालमेते देवि वयं वद ।भ्रामिताः केन नामापि द्वैताद्वैतविकल्पनैः ॥६९॥श्रीदेव्युवाच ।अविचारेण तरले भ्रान्तासि चिरमाकुला ।अविचारः स्वभावोत्थः स विचाराद्विनश्यति ॥७०॥अविचारो विचारेण निमेषादेव नश्यति ।एषा सत्तैव तेनान्तरविद्यैषा न विद्यते ॥७१॥तस्मान्नैवाविचारोऽस्ति नाविद्यास्ति न बन्धनम् ।न मोक्षोऽस्ति निराबाधं शुद्धबोधमिदं जगत् ॥७२॥एतावन्तं यदाकालं त्वयैतन्न विचारितम् ।तदा न संप्रबुद्धा त्वं भ्रान्तैवाभव आकुला ॥७३॥अद्यप्रभृति बुद्धासि विमुक्तासि विवेकिनी ।वासनातानवं बीजं पतितं तव चेतसि ॥७४॥आदावेव हि नोत्पन्नं दृश्यं संसारनामकम् ।यदा तदा कथं तेन वास्यन्ते वासनापि का ॥७५॥अत्यन्ताभावसंपत्तौ द्रष्टृदृश्यदृशां मनः ।एकध्याने परे रूढे निर्विकल्पसमाधिनि। ॥७५॥वासनाक्षयबीजेऽस्मिन्किंचिदङ्कुरिते हृदि ।क्रमान्नोदयमेष्यन्ति रागद्वेषादिका दृशः ॥७७॥संसारसंभवश्चायं निर्मूलत्वमुपैष्यति ।निर्विकल्पसमाधानं प्रतिष्ठामलमेष्यति ॥७८॥विगतकलनकालिमाकलङ्कागगनकलान्तरनिर्मलाम्बनेन ।सकलकलनकार्यकारणान्तःकतिपयकालवशाद्भविष्यसीति ॥७९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विश्रान्त्युपदेशो नामैकविंशः सर्गः ॥२१॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP