संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ५३ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ५३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ५३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ लब्धवरा देहेनानेनैव महीपतिम् ।पतिमाप्तुं प्रयात्येषा नभोमार्गेण विष्टपम् ॥१॥इति संचिन्त्य सानन्दमुद्दाममकरध्वजा ।पुप्लुवे पेलवाकारा पक्षिणीव नभस्तले ॥२॥कुमारीं तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् ।स्वसंकल्पमहादर्शात्पुरतो निर्गतामिव ॥३॥कुमार्युवाच ।दुहितास्मि सखि ज्ञप्तेः स्वागतं तेऽस्तु सुन्दरि ।प्रतीक्षमाणा त्वामेव स्थितास्मीह नभःपथि ॥४॥लीलोवाच ।देवि भर्तुः समीपं मां नय नीरजलोचने ।महतां दर्शनं यस्मान्न कदाचन निष्फलम् ॥५॥श्रीवसिष्ठ उवाच ।एहि तत्रैव गच्छाव इत्युक्त्वा सा कुमारिका ।पुरस्तस्याः स्थिता व्योम्नि मार्गदर्शनतत्परा ॥६॥ततस्तदनुयाता सा प्राप कोटरमम्बरम् ।निर्मलं करमालाग्रं यथा लक्षणलेखिका ॥७॥मेघमार्गमथोल्लङ्घ्य वातस्कन्धान्तरे गता ।सूर्यमार्गादभिगता तारामार्गमतीत्य च ॥८॥वाय्विन्द्रसुरसिद्धानां लोकानुल्लङ्घ्य लाघवात् ।ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डखर्परम् ॥९॥हिमशैत्यं यथान्तस्थं कुम्भेऽभिन्ने बहिर्भवेत् ।तथा संकल्पसिद्धा सा ब्रह्माण्डान्निर्गता बहिः ॥१०॥स्वचित्तमात्रदेहैषा स्वसंकल्पस्वभावजम् ।अन्तरेवानुभवति किलैवं नाम विभ्रमम् ॥११॥ब्रह्मादिस्थानमाक्रम्य प्राप्य ब्रह्माण्डखर्परम् ।ततो ब्रह्माण्डपारस्था जलाद्यावरणानि च ॥१२॥समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम् ।अदृष्टपारपर्यन्तमतिवेगेन धावता ।सर्वतो गरुडेनापि कल्पकोटिशतैरपि ॥१३॥तत्र ब्रह्माण्डलक्षाणि सन्त्यसंख्यानि भूरिशः ।तान्यन्योन्यमदृष्टानि फलानीव महावने ॥१४॥तत्रैकस्मिन्पुरःसंस्थे विततावरणान्विते ।वेधयित्वा विवेशान्तर्बदरं कृमिको यथा ॥१५॥पुनर्ब्रह्मेन्द्रविष्ण्वादिलोकानुल्लङ्घ्य भास्वरान् ।तन्महीमण्डलं श्रीमत्प्राप तारापथादधः ॥१६॥तत्र तन्मण्डलं प्राप्य तत्पुरं तच्च मण्डपम् ।प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता ॥१७॥एतस्मिन्नन्तरे सा च न ददर्श कुमारिकाम् ।मायामिव परिज्ञाता क्वापि यातां वरानना ॥१८॥मुखमालोक्य सा तस्य स्वभर्तुः शवरूपिणः ।इदं बुद्धवती सत्यं प्रतिभावशतः स्वतः ॥१९॥अयं स भर्ता संग्रामे निहतो मम सिन्धुना ।वीरलोकानिमान्प्राप्य क्षणं शेते यथासुखम् ॥२०॥अहं देव्याः प्रसादेन सशरीरैवमीदृशम् ।इह प्राप्तवती धन्या मत्समा नास्ति काचन ॥२१॥इति संचिन्त्य सा हस्ते गृहीत्वा चारु चामरम् ।वीजयामास चन्द्रेण द्यीरिवावनिमण्डलम् ॥२२॥प्रबुद्धलीलोवाच ।ते भृत्यास्ताश्च वै दास्यः स राजा च प्रबुद्धवान् ।वक्ष्यन्ति वदतां देवि किं कयैव कथं धिया ॥२३॥श्रीदेव्युवाच ।स राजा सा च ते भृत्याः सर्व एव परस्परम् ।चिदाकाशैकतावेशादावयोश्च प्रभावतः ॥२४॥महाचित्प्रतिभासत्वान्महानियतिनिश्चयात् ।अन्योन्यमेवपश्यन्ति मिथः संप्रतिबिम्बितात् ॥२५॥इयं मे सहजा भार्या ममेयं सहजा सखी ।ममेयं सहजा राज्ञी भृत्योऽयं सहजो मम ॥२६॥केवलं त्वमहं सा च यथावृत्तमखण्डितम् ।ज्ञास्याम इदमाश्चर्यं नतु कश्चिदपीतरः ॥२७॥प्रबुद्धलीलोवाच ।अमुनैव शरीरेण किमर्थं न गता पतिम् ।एषा वरेण संप्राप्ता लीला ललितवादिनी ॥२८॥श्रीदेव्युवाच ।अप्रबुद्धधियः सिद्धलोकान्पुण्यवशोदितान् ।न समर्थाः स्वदेहेन प्राप्तुं छाया इवातपान् ॥२९॥आदिसर्गे च नियतिः स्थापितेति प्रबोधिभिः ।यथा सत्यमलीकेन न मिलत्येव किंचन ॥३०॥यावद्वेतालसंकल्पो बालस्य किल विद्यते ।निर्वेतालधियस्तावदुदयस्तस्य कः कथम् ॥३१॥अविवेकज्वरोष्णत्वं विद्यते यावदात्मनि ।तावद्विवेकशीतांशुशैत्यं कुत उदेत्यलम् ॥३२॥अहं पृथ्व्यादिदेहः खे गतिर्नास्ति ममोत्तमा ।इतिनिश्चयवान्योऽन्तः कथं स्यात्सोऽन्यनिश्चयः ॥३३॥अतो ज्ञानविवेकेन पुण्येनाथ वरेण च ।पुण्यदेहेन गच्छन्ति परं लोकमनेन तु ॥३४॥शुष्कपर्णं किलाङ्गारे एतदेवाशु दह्यते ।अयं देहमहंदेहः प्राप्त एव विशीर्यते ॥३५॥एतावदेव भवति वरशापविजृम्भितैः ।यथा संचिन्त्य एवाहं तथा स्मृत इति स्मृतिः ॥३६॥यः सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् ।आत्मन्येव हि यो नास्ति तस्य का कार्यकारिता ॥३७॥यस्त्वेतन्मृत इत्येव मिथ्या समनुभूयते ।प्रागभ्यासस्य पुष्टस्य नामैतत्प्रविजृम्भते ॥३८॥स्वानुभूते जगज्जाले सुगमा संस्मृतिभ्रमाः ।नान्यसंकल्पितो नाम सर्गाद्यभ्यास ईदृशः ॥३९॥अन्तरनुभूयमानाः संसृतयो बाह्यभूतजालानाम् ।अविदितवेद्यदृशामपि दूरे पुंसामिवैन्दवं बिम्बम् ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० संसृतिविदितवेद्यं नाम त्रिपञ्चाशः सर्गः ॥५३॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP