संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ११७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११७ Translation - भाषांतर श्रीराम उवाच ।कीदृश्यो भगवन्योगभूमिकाः सप्तसिद्धिदाः ।समासेनेति मे ब्रूहि सर्वतत्त्वविदांवर ॥१॥श्रीवसिष्ठ उवाच ।अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि ।पदान्तराण्यसंख्यानि भवन्त्यन्यान्यथैतयोः ॥२॥स्वयत्नसाधकरसान्महासत्ताभरोन्नतेः ।एते प्रतिपदं बद्धमूले संफलतः फलम् ॥३॥तत्र सप्तप्रकारा त्वमज्ञानस्य भुवं श्रृणु ।ततः सप्तप्रकारां त्वं श्रोष्यसि ज्ञानभूमिकाम् ॥४॥स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् ।एतत्संक्षेपतः प्रोक्तं तज्ज्ञत्वाज्ञत्वलक्षणम् ॥५॥शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये ।रागद्वेषोदयाभावात्तेषां नाज्ञत्वसंभवः ॥६॥यत्स्वरूपपरिभ्रंशाच्चेत्यार्थे चितिमज्जनम् ।एतस्मादपरो मोहो न भूतो न भविष्यति ॥७॥अर्थादर्थान्तरं चित्ते याति मध्ये हि या स्थितिः ।निरस्तमनना यासौ स्वरूपस्थितिरुच्यते ॥८॥संशान्तसर्वसंकल्पा या शिलान्तरिव स्थितिः ।जाड्यनिद्राविनिर्मुक्ता सा स्वरूपस्थितिः स्मृता ॥९॥अहंतांशे क्षते शान्ते भेदे निःस्पन्दतां गते ।अजडा या प्रकचति तत्स्वरूपमिति स्थितम् ॥१०॥तत्रारोपितमज्ञानं तस्य भूमीरिमाः श्रृणु ।बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ॥११॥जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् ।इति सप्तविधो मोहः पुनरेव परस्परम् ॥१२॥श्लिष्टो भवत्यनेकाख्यः श्रृणु लक्षणमस्य च ।प्रथमे चेतनं यत्स्यादनाख्यं निर्मलं चितः ॥१३॥भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ।बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते ॥१४॥एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संसृतिं श्रृणु ।नवप्रसूतस्य परादयं चाहमिदं मम ॥१५॥इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ।अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ॥१६॥पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुरन् ।अरूढमथ वा रूढं सर्वथा तन्मयात्मकम् ॥१७॥यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते ।द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ॥१८॥अभ्यासात्प्राप्य जाग्रत्त्वं स्वप्नोऽनेकविधो भवेत् ।अल्पकालं मया दृष्टमेवं नो सत्यमित्यपि ॥१९॥निद्राकालानुभूतेऽर्थे निद्रान्ते प्रत्ययो हि यः ।स स्वप्नः कथितस्तस्य महाजाग्रत्स्थितेर्हृदि ॥२०॥चिरसंदर्शनाभावादप्रफुल्लवृहद्वपुः ।स्वप्नो जाग्रत्तया रूढो महाजाग्रत्पदं गतः ॥२१॥अक्षतेवाक्षते देहे स्वप्नजाग्रन्मतं हि तत् ।षडवस्थापरित्यागे जडा जीवस्य या स्थितिः ॥२२॥भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः ।एते तस्यामवस्थायां तृणलोष्टशिलादयः ॥२३॥पदार्थाः संस्थिताः सर्वे परमाणुप्रमाणिनः ।सप्तावस्था इति प्रोक्ता मयाऽज्ञानस्य राघव ॥२४॥एकैका शतशाखात्र नानाविभवरूपिणी ।जाग्रत्स्वप्नश्चिरं रूढो जागृतावेव गच्छति ॥२५॥नानापदार्थभेदेन सविकासं विजृम्भते ।अस्यामप्युदरे सन्ति महाजाग्रद्दशादृशः ॥२६॥तासामप्यन्तरे लोको मोहान्मोहान्तरं व्रजेत् ।अन्तःपातिजलावर्त इव धावति नौर्भ्रमम् ॥२७॥काश्चित्संसृतयो दीर्घ स्वप्नजाग्रत्तया स्थिताः ।काश्चित्पुनः स्वप्नजाग्रज्जाग्रत्स्वप्नास्तथेतराः ॥२८॥अज्ञानभूमिरिति सप्तपदा मयोक्तानानाविकारजगदन्तरभेदहीना ।अस्याः समुत्तरसि चारुविचारणाभि-र्दृष्टे प्रबोधविमले स्वयमात्मनोति ॥२९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूत्पत्तिप्रकरणे अज्ञानभूमिकावर्णनं नाम सप्तदशोत्तरशततमः सर्गः ॥११७॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP