संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८० Translation - भाषांतर श्रीवसिष्ठ उवाच ।महानिशि महारण्ये महाराक्षसकन्यया ।इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ ॥१॥मन्त्र्युवाच ।शृणु तोयदसंकाशे प्रश्नमेतं भिनद्मि ते ।अनुक्रमात्मकं मत्तं गजेन्द्रमिव केसरी। ॥२॥भवत्या परमात्मैष कथितः कमलेक्षणे ।अनयैव वचोभङ्ग्या प्रश्नविद्बोधयोग्यया ॥३॥अनाख्यत्वादगम्यत्वान्मनः षष्ठेन्द्रियस्थितेः ।चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥४॥चिदणोः परमस्यान्तः सदिवासदिवापि वा ।बीजेऽन्तर्द्रुमसत्तेव स्फुरतीदं जगत्स्थितम् ॥५॥सत्किंचिदनुभूतित्वात्सर्वात्मकतया स्वतः ।तदात्मकतया पूर्वं भावाः सत्तां किलागताः ॥६॥आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः ।अतीन्द्रियत्वान्नो किंचित्स एवाणुरनन्तकः ॥७॥सर्वात्मकत्वाद्भुक्ते च तेन किंचिन्न किंचन ।चिदणोः प्रतिभा सा स्यादेकस्यानेकतोदिता ।असत्येव यथा हेम्नः कटकादि तथा परे ॥८॥एषोऽणुः परमाकाशः सूक्ष्मत्वादप्यलक्षितः ।मनःषष्ठेन्द्रियातीतः स्थितः सर्वात्मकोऽपि सन् ॥९॥सर्वात्मकत्वान्नैवासौ शून्यो भवति कर्हिचित् ।यदस्ति न तदस्तीति वक्ता मन्ता इति स्मृतः ॥१०॥कयाचिदपि युक्त्येह सतोऽसत्त्वं न युज्यते ।सर्वात्मा स्वात्मगुप्तेन अपूरेणेव दृश्यते ॥११॥चिन्मात्राणुः स एवेह सर्वं किंचिन्मनःस्थितम् ।न किंचिदिन्द्रियातीत रूपत्वादमलः स्थितः ॥१२॥स एव चैकोऽनेकश्च सर्वसत्त्वात्मवेदनात् ।स एवेदं जगद्धत्ते जगत्कोशस्तथैव हि ॥१३॥इमाश्चित्तमहाम्भोधौ त्रिजगल्लववीचयः ।प्रज्ञास्तस्मिन्कचन्त्यप्सु द्रवत्वाच्चक्रता इव ॥१४॥चित्तेन्द्रियाद्यलभ्यत्वात्सोऽणुः शून्यस्वरूपवत् ।स्वसंवेदनलभ्यत्वादशून्यं व्योमरूप्यपि ॥१३॥सोऽहं भवानेव भवान्संपन्नोऽद्वैतवेदनात् ।स भवान्न भवेन्नाहं जातो बोधबृहद्वपुः ॥१६॥त्वंताहंतात्मकं सर्वं विनिगीर्यावबोधतः ।न त्वं नाहं न सर्वं च सर्वं वा भवति स्वयम् ॥१७॥गच्छन्न गच्छत्येषोऽणुर्योजनौघगतोऽपि सन् ।संवित्त्या योजनौघत्वं तस्याणोरन्तरे स्थितम् ॥१८॥न गच्छत्येष यातोऽपि संप्राप्तोऽपि च नागतः ।स्वसत्ताकाशकोशान्तर्वासित्वाद्देशकालयोः ॥१९॥गम्यं यस्य शरीरस्थं क्व किलासौ प्रयाति हि ।कुचकोटरगः पुत्रः किं मात्रान्यत्र वीक्ष्यते ॥२०॥गम्यो यस्य महादेशो यावत्संभवमक्षयः ।अन्तस्थः सर्वकर्तुर्हिं स कथं क्वेव गच्छति ॥२१॥यथा देशान्तरप्राप्ते कुम्भे वक्त्रसमुद्रिते ।तदाकाशस्य गमनागमने न तथात्मनः ॥२२॥चित्तता स्थाणुता स्वान्तर्यदा स्तोऽनुभवात्मिके ।चेतनस्य जडस्यैव तदासौ द्वयमेव च ॥२३॥यदा चेतनपाषाणसत्तैकात्मैकचिद्वपुः ।तदा चेतन एवासौ पाषाण इव राक्षसि ॥२४॥परमव्योम्न्यनाद्यन्ते चिन्मात्रपरमात्मना ।विचित्रं त्रिजगच्चित्रं तेनेदमकृतं कृतम् ॥२५॥तत्संवित्त्या वह्निसत्ता तेनात्यक्तानलाकृतिः ।सर्वगोऽप्यदहत्येव स जगद्द्रव्यपावकः ॥२६॥प्रज्वलद्भास्वराकारान्निर्मलाद्गगनादपि ।प्रज्वलच्चेतनैकात्मा तस्मादग्निः स जायते ॥२७॥संवेदनाद्यदर्कादिप्रकाशस्य प्रकाशकः ।न नश्यत्यात्मभारूपो महाकल्पाम्बुदैरपि ॥२८॥अनेत्रलभ्योऽनुभवरूपो हृद्गृहदीपकः ।सर्वसत्ताप्रदोऽनन्तः प्रकाशः परमः स्मृतः ॥२९॥प्रवर्ततेऽस्मदालोको मनःषष्ठेन्द्रियातिगात् ।येनान्तरापि वस्तूनां दृष्टा दृश्यचमत्कृतिः ॥३०॥लतागुल्माङ्कुरादीनामनक्षाणां च पोषकः ।उत्सेधवेदनाकारः प्रकाशोऽनुभवात्मकः ॥३१॥कालाकाशक्रियासत्ता जगत्तत्रास्ति वेदने ।स्वामी कर्ता पिता भोक्ता आत्मत्वाच्च न किंचन ॥३२॥अणुत्वमजहत्सोऽणुर्जगद्रत्नसमुद्गकः ।मातृमानप्रमेयात्म जगन्नास्तीति केवले ॥३३॥स एव सर्वजगति सर्वत्र कचति स्फुटम् ।यदा जगत्त्समुद्गेऽस्मिंस्तदासौ परमो मणिः ॥३४॥दुर्बोधत्वात्तमः सोऽणुश्चिन्मात्रत्वात्प्रकाशदृक् ।सोऽस्ति संवित्तिरूपत्वादक्षातीतस्तथा न सन् ॥३५॥दूरे सोऽनक्षलभ्यत्वाच्चिदूपत्वान्न दूरगः ।सर्वसंवेदनाच्छैलो ह्यसावेवाणुरेव सन् ॥३६॥तत्संवेदनमात्रं यत्तदिदं भासते जगत् ।न सत्यमस्ति शैलादि तेनाणावेव मेरुता ॥३७॥निमेषप्रतिभासो हि निमेष इति कथ्यते ।कल्पेति प्रतिभासो हि कल्पशब्देन कथ्यते ॥३८॥कल्पक्रियाविलासो हि निमेषः प्रतिभासते ।बहुयोजनकोटिस्थं मनस्येव महापुरम् ॥३९॥निमेषजठरे कल्पसंभवः समुदेति हि ।महानगरनिर्माणं मुकुरेऽन्तरिवामले ॥४०॥निमेषकल्पशैलादिपूरयोजनकोटयः ।यत्राऽणावेव विद्यन्ते तत्र द्वैतैक्यते कुतः ॥४१॥कृतवान्प्रागिदमहमिति बुद्धावुदेति हि ।क्षणात्सत्यमसत्यं च दृष्टान्तः स्वप्नविभ्रमः ॥४२॥दुःखे कालः सुदीर्घो हि सुखे लघुतरः सदा ।रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य चोदिता ॥४३॥निश्चयो य उदेत्यन्तः सत्यात्मा सत्य एव च ।हेम्नीव कटकादित्वं स एव चिति राजते ॥४४॥न निमेषोऽस्ति नो कल्पो नादूरं न च दूरता ।चिदणुप्रतिभैवैवं स्थितान्यान्यान्यवस्तुवत् ॥४५॥प्रकाशतमसोर्दूरादूरयोः क्षणकल्पयोः ।एकचिद्देहयोरेव न भेदोऽस्ति मनागपि ॥४६॥प्रत्यक्षमक्षसारत्वादप्रत्यक्षं ततोऽतिगम् ।दृश्यत्वेनैष वोदेति चेता द्रष्टैव सद्वपुः ॥४७॥यावत्कटकसंवित्तिस्तावन्नास्तीव हेमता ।यावच्च दृश्यतापत्तिस्तावन्नास्तीव सा कला ॥४८॥कटकत्वेऽकृतेऽदृष्टे सुवर्णत्वमिवाततम् ।केवलं निर्मलं शुद्धं ब्रह्मैव परिदृश्यते ॥४९॥सर्वत्वादेव सद्रूपो दुर्लक्ष्यत्वादसद्वपुः ।चेतनश्चेतनात्मत्वाच्चेत्यासंभवतस्त्वचित् ॥५०॥चिच्चमत्कारमात्रात्मन्यस्मिंश्चित्प्रतिभात्मनि ।जगत्यनिलवृक्षाभे चिच्चेत्यकलने कुतः ॥५१॥यथा तापस्य पीनस्य भासनं मृगतृष्णिका ।एवं पीवरमद्वैतं तथा चिद्भासनं जगत् ॥५२॥अर्कांशुभिः सूक्ष्मतरनिर्माणं यदनामयम् ।अस्तितानास्तिते तत्र कल्पादेरिव कैव धीः ॥५३॥माययांशुकणाङ्के खे यथा कचति काञ्चनम् ।तथा जगदिदं भाति चिच्चेत्यकलने कुतः ॥५४॥स्वप्नगन्धर्वसंकल्पनगरे कुड्यवेदनम् ।न सन्नासद्यथा तद्वद्विद्धि दीर्घभ्रमं जगत् ॥५५॥तथा चैवंविधन्यायभावनाभ्यासनिर्मलात् ।चिदाकाशेन निर्याति यथा भूतार्थदर्शिनः ॥५६॥न कुड्याकाशयोर्भेदो दृश्यसंवेदनादृते ।आब्रह्मजीवकलनाद्यद्रूढं रूढमेव च ॥५७॥प्रतिभासाच्चिदाकाशे सत्त्वशून्यं भवन्ति ताः ।प्रकचन्ति ह्यनिर्भाव्याः प्रभापिण्ड इव प्रभाः ॥५८॥पृथक्तामतिभासस्य स्वचमत्कारयोगतः ।सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत् ॥५९॥बीजमन्तस्थवृक्षत्वं नानाऽनाना यथैकदृक् ।तथाऽसंख्यजगद्ब्रह्म शान्तमाकाशकोशवत् ॥६०॥बीजस्यान्तस्थवृक्षस्य व्योमाद्वैता स्थितिर्यथा ।ब्रह्मणोऽन्तस्थजगतः साक्षित्वाच्चित्स्थितिस्तथा ॥६१॥शान्तं समस्तमजमेकमनादिमध्यंनेहास्ति काचन कलाकलना कथंचित् ।निर्द्वन्द्वशान्तमतिरेकमनेकमच्छ-माभासरूपमजमेकविकासमास्ते ॥६२॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे क० प्रश्नभेदनं नामाशीतितमः सर्गः ॥८०॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP