संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १२२ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः १२२ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १२२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।प्रथमं जातमात्रेण पुंसा किंचिद्विकसितबुद्धिनैवसत्संगमपरेण भवितव्यम् ॥१॥अनवरतप्रवाहपतितोऽयमविद्यानदीनिवहःशास्त्रसज्जनसंपर्कादृते न तरितुं शक्यते ॥२॥तेन विवेकतः पुरुषस्य हेयोपादेयविचार उपजायते ॥३॥तदासौ शुभेच्छाभिधां विवेकभुवमापतितोभवति ॥४॥ततो विवेकवशतो विचारणायाम् ॥५॥सम्यग्ज्ञानेनासम्यग्वासनां त्यजतः संस्मारभा-वनातो मनस्तनुतामेति ॥६॥तेन तनुमानसां नाम विवेकभूमिमवतीर्णो भ-वति ॥७॥यदैव योगिनः सम्यग्ज्ञानोदयस्तदैव सत्त्वा-पत्तिः ॥८॥तद्वशाद्वासना तनुतां गता यदा तदैवासावसं-सक्त इत्युच्यते कर्मफलेन न बध्यत इति ॥९॥अथ तानववशादसत्ये भावनातानवमभ्यस्यति ॥१०॥यावन्न कुर्वन्नपि व्यवहरन्नप्यसत्येषु संसारव-स्तुषु स्थितोऽपि स्वात्मन्येव क्षीणमनस्त्वादभ्या-सवशाद्बाह्यं वस्तु कुर्वन्नपि न पश्यति नालम्बनेनसेवते नाभिध्यायति तनुवासनत्वाच्च केवलं मूढःसुप्तप्रबुद्ध इव कर्तव्यं करोति ॥११॥तनुभावितमनस्कस्तेन योगभूमिकां भावनामधिरूढः ॥१२॥इत्यन्तर्लीनचित्तः कतिचित्संवत्सरानभ्यस्य स-र्वथैव कुर्वन्नपि बाह्यपदार्थान्भावनां त्यजति तुर्यात्माभवति ततो जीवन्मुक्त इत्युच्यते ॥१३॥नाभिनन्दति संप्राप्तं नाप्राप्तमभिशोचति ।केवलं विगताशङ्कं संप्राप्तमनुवर्तते ॥१४॥त्वयापि राघव ज्ञातं ज्ञातव्यमखिलान्तरम् ।ननु ते सर्वकार्येभ्यो वासना तनुतां गता ॥१५॥शरीरातीतवृत्तिस्त्वं शरीरस्थोऽथवा भव ।मागाः शोकं च हर्षं त्वं त्वमात्मा विगतामयः ॥१६॥त्वय्यात्मनि सिते स्वच्छे सर्वगे सर्वदोदिते ।कुतो दुःखसुखे राम कुतो मरणजन्मनी ॥१७॥अबन्धुरपि कस्मात्त्वं बन्धुदुःखानि शोचसि ।अद्वितीये स्थिते ह्यस्मिन्बान्धवाः क इवात्मनि ॥१८॥दृश्यते केवले देहे परमाणुचयः परम् ।देशकालान्यतापत्तेर्नात्मोदेति न लीयते ॥१९॥अविनाशोऽपि कस्मात्त्वं विनश्यामीति शोचसि ।अमृत्युवसतौ स्वच्छे विनाशः क इवात्मनि ॥२०॥घटे कपालतां याते घटाकाशो न नश्यति ।यथा तथा शरीरेऽस्मिन्नष्टेऽपि न विनश्यति ॥२१॥मृगतृष्णातरङ्गिण्यां क्षीणायामातपो यथा ।न नश्यति तथा देहे नष्टे नात्मा विनश्यति ॥२२॥वाञ्छैवोदेति ते कस्माद्भ्रान्तिरन्तर्निरर्थिका ।अद्वितीयो द्वितीयं किं यद्वस्त्वात्माभिवाञ्छतु॥२३॥श्रव्यं स्पृश्यं तथा दृश्यं रस्यं घ्रेयं च राघव ।न किंचिदस्ति जगति व्यतिरिक्तं यदात्मनः ॥२४॥सर्वशक्ताविमास्तस्मिन्नात्मन्येवाखिलाः स्थिताः ।शक्तयो वितते व्यक्ते आकाश इव शून्यता ॥२५॥चित्ताद्राघव रूढेयं त्रिलोकीललनोदिता ।त्रिविधेन क्रमेणेह जन्मना जनितभ्रमा ॥२६॥मनःप्रशमने सिद्धे वासनाक्षयनामनि ।कर्मक्षयाभिधानैव मायेयं प्रविनश्यति ॥२७॥संसारोग्रारघट्टेऽस्मिन्नारूढा यन्त्रवाहिनी ।रज्जुस्तां वासनामेतां छिन्धि राघव यत्नतः ॥२८॥अपरिज्ञायमानैषा महामोहप्रदायिनी ।परिज्ञाता त्वनन्ताख्या सुखदा ब्रह्मदायिनी ॥२९॥आगता ब्रह्मणो भुक्त्वा संसारमिह लीलया ।पुनर्ब्रह्मैव संस्मृत्य ब्रह्मण्येव विलीयते ॥३०॥शिवाद्राघव नीरूपादप्रमेयान्निरामयात् ।सर्वभूतानि जातानि प्रकाशा इव तेजसः ॥३१॥रेखावृन्दं यथा पर्णे वीचिजालं यथा जले ।कटकादि यथा हेम्नि तथोष्णादि यथाऽनले ॥३२॥तदेतद्भावनारूपे तथेदं भुवनत्रयम् ।तस्मिन्नेव स्थितं जातं तस्मादेव तदेव च ॥३३॥स एव सर्वभूतानामात्मा ब्रह्मेति कथ्यते ।तस्मिञ्जाते जगज्ज्ञातं स ज्ञाता भुवनत्रये ॥३४॥शास्त्रसंव्यवहारार्थं तस्यास्य वितताकृतेः ।चिद्ब्रह्मात्मेति नामानि कल्पितानि कृतात्मभिः ॥३५॥विषयेन्द्रियसंयोगे हर्षामर्षविवर्जिता ।सैषा शुद्धानुभूतिर्हि सोऽयमात्मा चिदव्ययः ॥३६॥आकाशातितराच्छाच्छ इदं तस्मिंश्चिदात्मनि ।स्वाभोग एव हि जगत्पृथग्वत्प्रतिबिम्बति ॥३७॥बुद्धिस्तद्व्यतिरेकेण लोभमोहादयो हि तान् ।पात्यसद्व्यतिरेकेण ते च तस्मिंस्तदेव ते। ॥३८॥अदेहस्यैव ते राम निर्विकल्पचिदाकृतेः ।लज्जाभयविषादेभ्यः कुतो मोहः समुत्थितः ॥३९॥अदेहो देहजैरेभिर्लज्जादिभिरसन्मयैः ।किं मूर्ख इव दुर्बुद्धिर्विकल्पैरभिभूयसे ॥४०॥अखण्डचितिरूपस्य देहे खण्डनमागते ।असम्यग्दर्शिनोऽप्यस्ति न नाशः किमु सन्मतेः ॥४१॥आपतेदर्कमार्गेऽपि न निरुद्धगमागमम् ।चित्तं नाम स विज्ञेयः पुरुषो न शरीरकम् ॥४२॥शरीरे सत्यसति वा पुमानेव जगत्त्रये ।ज्ञोऽप्यज्ञोऽपि स्थितो राम नष्टेदेहे न नश्यति ॥४३॥यानीमानि विचित्राणि दुःखानि परिपश्यसि ।तानि देहस्य सर्वाणि नाग्राह्यस्य चिदात्मनः ॥४४॥मनोमार्गादतीतत्वाद्यासौ शून्यमिव स्थिता ।चित्कथं नाम दुःखैर्वा सुरवेर्वा परिगृह्यते ॥४५॥स्वास्पदात्मानमेवासौ विनष्टाद्देहपञ्जरात् ।अभ्यस्तां वासनां यातः षट्पदः खमिवाम्बुजात् ॥४६॥असच्चेदात्मतत्त्वं तदस्मिंस्ते देहपञ्जरे ।नष्टे किं नाम नष्टं स्याद्राम केनानुशोचसि ॥४७॥सत्यं भावय तेन त्वं मा मोहमनुभावय ।निरिच्छस्यात्मनो नेच्छा काचिदप्यनघाकृतेः ॥४८॥साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥४९॥साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।स्वयं जगन्ति दृश्यन्ते सन्मणाविव रश्मयः ॥५०॥अनिच्छमपि संबन्धो यथा दर्पणबिम्बयोः ।तथैवेहात्मजगतोर्भेदाभेदौ व्यवस्थितौ ॥५१॥सूर्यसंनिधिमात्रेण यथोदेति जगत्क्रिया ।चित्सत्तामात्रकेणेदं जगन्निष्पद्यते तथा ॥५२॥पिण्डग्रहो निवृत्तोऽस्या एवं राम जगत्स्थितेः ।आकाशमेषा संपन्ना भवतामपि चेतसि ॥५३॥सत्तामात्रेण दीपस्य यथालोकः स्वभावतः ।चित्तत्त्वस्य स्वभावात्तु तथेयं जागती स्थितिः ॥५४॥पूर्वं मनः समुदितं परमात्मतत्त्वात्तेनाततं जगदिदं स्वविकल्पजालैः ।शून्येन शून्यमपि तेन यथाम्बरेण नीलत्वमुल्लसितचारुतरामिधानम् ॥५५॥संकल्पसंक्षयवशाद्गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति ।स्वच्छं विभाति शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥५६॥कर्मात्मकं प्रथममेव मनोऽभ्युदेति संकल्पतः कमलजप्रकृतीस्तदेत्य ।नानाभिधं जगदिदं हिं मुधा तनोति वेतालदेहकलनामिव मुग्धबालः ॥५७॥असन्मयं सदिव पुरो विलक्ष्यते पुनर्भवत्यथ परिलीयते पुनः ।स्वयं मनश्चिति चितसंस्फुरद्वपुर्महार्णवे जलवलयावली यथा ॥५८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषूत्पत्तिप्रकरणे स्वरूपनिरूपणं नाम द्वाविंशत्युत्तरशततमः सर्गः ॥१२२॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP