संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ११३ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ११३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ११३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एषा हि वासना नित्यमसत्यैव यदुत्थिता ।द्विचन्द्रभ्रान्तिवत्तेन त्यक्तुं राघव युज्यते ॥१॥अविद्या विद्यमानेव नष्टप्रज्ञेषु विद्यते ।नाम्नैवाङ्गीकृताभावात्सम्यक्प्रज्ञेषु सा कुतः ॥२॥मा भवाज्ञो भव प्राज्ञः सम्यग्राम विचारय ।नास्त्येवेन्दुर्द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा ॥३॥नात्र तत्त्वादृते किंचिद्विद्यते वस्त्ववस्तु च ।ऊर्मिमालिनि विस्तीर्णे वारिपूरादृते यथा ॥४॥स्वविकल्पादृते नैतान्भावाभावानसन्मयान् ।नित्येऽसिते तते शुद्धे मा समारोपयात्मनि ॥५॥नासि कर्ता किमेतासु क्रियासु ममता तव ।एकस्मिन्विद्यमाने हि किं केन क्रियते कथम् ॥६॥मा वाऽकर्ता भव प्राज्ञ किमकर्तृतयेहिते ।साध्यं साध्यमुपादेयं तस्मात्स्वस्थो भवानघ ॥७॥कर्ता संस्त्वमसक्तत्वाद्भावाभावे रघूद्वह ।असक्तत्वादकर्तापि कर्तृवत्स्पन्दनं कुतः ॥८॥सत्यं स्याच्चेदुपादेयं मिथ्या स्याद्धेयमेव चेत् ।उपादेयैकसक्तत्वाद्युक्ता सक्तिर्हि कर्मणि ॥९॥यत्रेन्द्रजालमखिलं मायामयमवस्तुकम् ।तत्र कास्था कथं नाम हेयोपादेयदृष्टयः ॥१०॥संसारबीजकणिका यैषा विद्या रघूद्वह ।एषा ह्यविद्यमानैव सतीव स्फारतां गता ॥११॥येयमाभोगिनिःसारा संसारारम्भचक्रिका ।विज्ञेया वासनैषा सा चेतसो मोहदायिनी ॥१२॥चारुवंशलतेवान्तःशून्या निस्सारकोटरा ।सरित्तरङ्गमालेव न व्युच्छिन्नापि नश्वरी ॥१३॥गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते ।मृद्वप्यत्यन्ततीक्ष्णाग्रा निर्झरोर्मिरिवोत्थिता ॥१४॥दृश्यते प्रकराभासा सदर्थे नोपयुज्यते ।तरङ्गिण्यतरङ्गाभा स्वाकारपरिनिष्ठिता ॥१५॥क्वचिद्वक्राः क्वचित्स्पष्टा दीर्घाः खर्वाः स्थिराश्चलाः ।यत्प्रसादोद्भवास्तस्माद्व्यतिरेकमुपागताः ॥१६॥अन्तःशून्यापि सर्वत्र दृश्यते सारसुन्दरी ।न क्वचित्संस्थितापीह सर्वत्रैवोपलक्ष्यते ॥१७॥जडैव चिन्मयीवासावन्यस्पन्दोपजीविनी ।निमेषमप्यतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति ॥१८॥ज्वालावच्छुद्धवर्णापि मषीमलिनकोटरा ।वल्गत्यन्यप्रसादेन दीयते तदवेक्षणात् ॥१९॥आलोके विमले म्लाना तमस्यपि विराजते ।मृगतृष्णेव शुष्काभा नानावर्णविलासिनी ॥२०॥वक्रा विषमयी तन्वी मृद्वी संकटकर्कशा ।ललनाचञ्चला लुब्धा तृष्णा कृष्णेव भोगिनी ॥२१॥स्वयं दीपशिखेवाशु क्षीयते स्नेहसंक्षये ।सिन्दूरधूलिलेखेव विना रागं विराजते ॥२२॥क्षणप्रकाशतरला कृतसंस्था जडाशया ।मुग्धानां त्रासजननी वक्रा विद्युदिवोदिता ॥२३॥यत्नाद्गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते ।लभ्यतेऽपि हि नान्विष्टा विद्युद्वदतिभङ्गुरा ॥२४॥अप्रार्थितैवोपनता रमणीयाप्यनर्थदा ।अकालपुष्पमालेव श्रेयसेनाभिनन्दिता ॥२५॥अत्यन्तविस्मृतैवातिसुखाय भ्रमदायिनी ।दुःस्वप्नकलनेवेयमनर्थायैव तर्किता ॥२६॥प्रतिभासवशादेषा त्रिजगन्ति महान्ति च ।मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च ॥२७॥मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता ।रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता ॥२८॥वियोगिनामथान्येषां कान्ताविभवशालिनाम् ।रात्रिर्वत्सरवद्दीर्घा भवेत्तस्याः प्रसादतः ॥२९॥सुखितस्याल्पतामेति दुःखितस्यैति दीर्घताम् ।कालो यस्याः प्रसादेन विपर्यासैकशीलिनाम् ॥३०॥अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु ।दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः ॥३१॥सनितम्बस्तनी चित्रे न स्त्री स्त्रीधर्मिणी यथा ।तथैवाकारचिन्तेयं कर्तुं योग्या न किंचन ॥३२॥मनोराज्यमिवाकारभासुरा सत्यवर्जिता ।सहस्रशतशाखापि न किंचित्परमार्थतः ॥३३॥अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता ।विडम्बयति तान्मुग्धमृगानेव न मानुषान् ॥३४॥फेनमालेव संजातध्वस्ता विच्छेदवर्जिता ।जडेव चञ्चलाकारा गृह्यमाणा न किंचन ॥३५॥अटत्युड्डामराकारा रजःप्रसरधूसरा ।बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा ॥३६॥धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी ।गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते ॥३७॥धारा जलधरस्येव सुदीर्घा जलनिर्मिता ।असारसंसारदृढा रज्जुस्तृणगणैरिव ॥३८॥तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता ।मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका ॥३९॥जनेन दृश्यते वृद्धितत्परा नच वर्धते ।विषास्वाद इवापातमधुराऽन्ते सुदारुणा ॥४०॥नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति ।मिहिकेवाग्रदृष्टापि गृह्यमाणा न किंचन ॥४१॥पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी ।आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते ॥४२॥द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा ।यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता ॥४३॥अनयोपहते चित्ते दीर्घकालमिवाकुलैः ।जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः ॥४४॥अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः ।उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयधेरिव ॥४५॥मनोज्ञमपि सत्यं च दृश्यते सदसत्तया ।अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत् ॥४६॥पदार्थरथमारूढा भावनैषा बलान्विता ।आक्रामति मनः क्षिप्रं विहगं वागुरा यथा ॥४७॥करुणास्यन्दमानाक्षी स्रवन्क्षीरलवस्तनी ।भवत्युल्लसितानन्दं जननी गृहिणी यथा ॥४८॥विषीकरोति निःस्यन्दसंतर्पितजगत्त्रयम् ।सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं बिम्बमैन्दवम् ॥४९॥उन्मत्तरववेतालनर्तनारम्भसंभ्रमम् ।स्थाणवः संप्रयच्छन्ति मूका अप्येतयान्धया ॥५०॥संध्यादिषु च कालेषु लोष्टपाषाणभित्तयः ।अस्याः प्रसादात्दृश्यन्ते सर्पाजगरदृष्टिभिः ॥५१॥एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने ।दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा ॥५२॥आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा ।क्षणो वर्षमिवाभाति कान्ताविरहिणामिव ॥५३॥न तदस्तीह यन्नाम न करोतीयमुद्धता ।अस्यास्त्वकिंचनायास्तु शक्ततां पश्य राघव ॥५४॥संरोधयेत्प्रयत्नेन संविदेवाशु संविदम् ।सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी ॥५५॥श्रीराम उवाच ।अविद्यमानयैवेदं पेलवांग्या सुतुच्छया ।मिथ्याभावनया नाम चित्रमन्धीकृतं जगत् ॥५६॥अरूपया निराकृत्या चारुचेतनहीनया ।असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत् ॥५७॥आलोकेन विनश्यन्त्या स्फुरन्त्या तमसोन्तरे ।कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत् ॥५८॥कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम् ।देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत् ॥५९॥सुदीनाचारधर्मिण्या नित्यं प्राकृतकान्तया ।अनारतास्तंगतया चित्रमन्धीकृतं जगत् ॥६०॥अनन्तदुःखाकुलया सदैव मृतयानया ।संबोधहीनया यत्र चित्रमन्धीकृतं जगत् ॥६१॥कामकोपघनाङ्गिन्या तमःप्रसरवक्रया ।अचिरेणाशरीरिण्या चित्रमन्धीकृतं जगत् ॥६२॥स्वात्मान्धरूपास्पदया जडया जाड्यजीर्णया ।दुःखदीर्घप्रलापिन्या चित्रमन्धीकृतं जगत् ॥६३॥पुरुषासङ्गसङ्गिन्या रागिण्या क्रिययानया ।विद्रवन्त्या विवक्षासु चित्रमन्धीकृतः पुमान् ॥६४॥पुरुषस्य न या शक्ता सोढुमीक्षितुमप्यलम् ।तया स्त्रियावरणया चित्रमन्धीकृतः पुमान् ॥६५॥न यस्याश्चेतनैवास्ति याप्यनष्टैव नश्यति ।तया स्त्रिया परुषया चित्रमन्धीकृतः पुमान् ॥६६॥अनन्तदुष्प्रसरविलासकारिणीक्षयोदयोन्मुखसुखदुःखभागिनी ।इयं प्रभो विगलति केन वाऽसमामनोगुहानिलयनिबद्धवासना ॥६७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे अविद्यावर्णनं नाम त्रयोदशोत्तरशततमः सर्गः ॥११३॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP