संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ३ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३ Translation - भाषांतर श्रीराम उवाच ।एवमेव मनः शुद्धं पृथ्व्यादिरहितं त्वया ।मनो ब्रह्मेति कथितं सत्यं पृथ्व्यादिवर्जितम् ॥१॥तदत्र प्राक्तनी ब्रह्मन्स्मृतिः कस्मान्न कारणम् ।यथा मम तवान्यस्य भूतानां चेति मे वद ॥२॥श्रीवसिष्ठ उवाच ।पूर्वदेहोऽस्ति यस्याद्य पूर्वकर्मसमन्वितः ।तस्य स्मृतिः संभवति कारणं संसृतिस्थितेः ॥३॥ब्रह्मणः प्राक्तनं कर्म यदा किंचिन्न विद्यते ।प्राक्तनी संस्मृतिस्तस्य तदोदेति कुतः कथम् ॥४॥तस्मादकारण भाति वा स्वचित्तैककारणम् ।स्वकारणादनन्यात्मा स्वयंभूः स्वयमात्मवान् ॥५॥आतिवाहिक एवासौ देहोऽस्त्यस्य स्वयंभुवः ।न त्वाधिभौतिको राम देहोऽजस्योपपद्यते ॥६॥श्रीराम उवाच ।आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः ।सर्वासां भूतजातीनां ब्रह्मणोऽस्त्येक एव किम् ॥७॥श्रीवसिष्ठ उवाच ।सर्वेषामेव देहौ द्वौ भूतानां कारणात्मनाम् ।अजस्य कारणाभावादेक एवातिवाहिकः ॥८॥सर्वासां भूतजातीनामेकोऽजः कारणं परम् ।अजस्य कारणं नास्ति तेनासावेकदेहवान् ॥९॥नास्त्येव भौतिको देहः प्रथमस्य प्रजापतेः ।आकाशात्मा च भात्येष आतिवाहिकदेहवान् ॥१०॥चित्तमात्रशरीरोऽसौ न पृथ्व्यादिक्रमात्मकः ।आद्यः प्रजापतिर्व्योमवपुः प्रतनुते प्रजाः ॥११॥ताश्च चिद्व्योमरूपिण्यो विनान्यैः कारणान्तरैः ।यद्यतस्तत्तदेवति सर्वैरेवानुभूयते ॥१२॥निर्वाणमात्रं पुरुषः परो बोधः स एव च ।चित्तमात्रं तदेवास्ते नायाति वसुधादिताम् ॥१३॥सर्वेषां भूतजातानां संसारव्यवहारिणाम् ।प्रथमोऽसौ प्रतिस्पन्दश्चित्तदेहः स्वतोदयः ॥१४॥अस्मात्पूर्वात्प्रतिस्पन्दादनन्यैतत्स्वरूपिणी ।इयं प्रविसृता सृष्टिः स्पन्दसृष्टिरिवानिलात् ॥१५॥प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृक् ।विभात्येवमयं सर्गः सत्यानुभववान्स्थितः ॥१६॥दृष्टान्तोऽत्र भवत्स्वप्नपुरस्त्रीसुरतं यथा ।असदप्यर्थसंपत्त्या सत्यानुभवभासुरम् ॥१७॥अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः ।सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ॥१८॥संवित्सकल्परूपत्वान्नोदेति समुदेति च ।स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति ॥१९॥ब्रह्मा संकल्पपुरुषः पृथ्व्यादिरहिताकृतिः ।केवलं चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ॥२०॥संकल्प एष कचति यथा नाम स्वयंभुवः ।व्योमात्मैष तथा भाति भवत्संकल्पशैलवत् ॥२१॥आतिवाहिकमेवान्तर्विस्मृत्या दृढरूपया ।आधिभौतिकबोधेन मुधा भाति पिशाचवत् ॥२२॥इदं प्रथमतोद्योगसंप्रबुद्धं महाचितेः ।नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः ॥२३॥आधिभौतिकजातेन नास्योदेति पिशाचिका ।असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ॥२४॥मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः ।मनोमात्रमतो विश्वं यद्यज्जातं तदेव हि ॥२५॥अजस्य सहकारीणि कारणानि न सन्ति यत् ।तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित् ॥२६॥कारणात्कार्यवैचित्र्यं तेन नात्रास्ति किंचन ।यादृशं कारणं शुद्धं कार्य तादृगिति स्थितम् ॥२७॥कार्यकारणता ह्यत्र न किंचिदुपपद्यते ।यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम् ॥२८॥मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् ।अनन्यादात्मनः शुद्धाद्द्रवत्वमिव वारिणः ॥२९॥मनसा तन्यते सर्वमसदेवेदमाततम् ।यथा संकल्पनगरं यथा गन्धर्वपत्तनम् ॥३०॥आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता ।ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्ति तत्र ते ॥३१॥आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।आधिभौतिकदेहस्य वाचो वात्र कुतः कथम् ॥३२॥मनोनाम्नो मनुष्यस्य विरिञ्च्याकारधारिणः ।मनोराज्यं जगदिति सत्यरूपमिव स्थितम् ॥३३॥मन एव विरिञ्चित्वं तद्धि संकल्पनात्मकम् ।स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ॥३४॥विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ॥३५॥पद्माक्षे पद्मिनीवान्तर्मनो दृद्यस्ति दृश्यता ।मनोदृश्यदृशौ भिन्ने न कदाचन केनचित् ॥३६॥यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः ।स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः ॥३७॥तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका ॥३८॥यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥३९॥सच्चेन्न शाम्यति कदाचन दृश्यदुःखंदृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् ।दृश्ये त्वसंभवति बोद्धरि बोद्धृभावःशाम्येत्स्थितोऽपि हि तदस्य विमोक्षमाहुः ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम तृतीयः सर्गः ॥३॥ N/A References : N/A Last Updated : September 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP