संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ३४

उत्पत्तिप्रकरणम् - सर्गः ३४

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
अथ राज्ञां युयुत्सूनां भटानां मन्त्रिणामपि ।
नभसः प्रेक्षकाणां च तत्रेमाः प्रोदगुर्गिरः ॥१॥
चलत्पद्मं सर इव वहद्विहगमेव च ।
नभः शूरशिरःकीर्णं भाति तारकिताकृति ॥२॥
पश्य रक्तपृषत्पूरसिन्दूरारुणमारुतैः ।
सांध्या इव विभान्त्येते मध्याह्नेऽम्बुदभानवः ॥३॥
किमिदं भगवन्व्योम पलालभरितं स्थितम् ।
नेदं पलालं वीराणामेते शरभराम्बुदाः ॥४॥
यावन्तो भुवि सिच्यन्ते रुधिरे रणरेणवः ।
तावन्त्यब्दसहस्राणि भटानामास्पदं दिवि ॥५॥
मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
अमी वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥६॥
वीरालिङ्गनलोलानां नितम्बे सुरयोषिताम् ।
मेखलाः शिथिलीकर्तुं प्रवृत्तः कुसुमायुधः ॥७॥
लसद्भुजलतालोला रक्तपल्लवपाणयः ।
मञ्जरीमत्तनयना मध्वामोदसुगन्धयः ॥८॥
गायन्त्यो मधुरालापैर्नन्दनोद्यानदेवताः ।
तवागमनमाशङ्क्य प्रवृत्ताः परिनर्तितुम् ॥९॥
प्रत्यनीकं भिनत्त्यन्तः कुठारैः कठिनैरियम् ।
सेना ग्राम्येव वनिता दयितं दृष्टिचेष्टितैः ॥१०॥
हा पितुर्मम भल्लेन शिरो ज्वलितकुण्डलम् ।
सूर्यस्य निकटं नीतं कालेनेवाष्टमो ग्रहः ॥११॥
आपादशृङ्खलाप्रोतभ्रमत्स्थूलोपलद्वयम् ।
भ्रामयंश्चित्रदण्डाख्यं चक्रमूर्ध्वभुजो जवात् ॥१२॥
योधो यम इवाभाति याम्यादायाति दिक्तटात् ।
सर्वतः संहरन्सेनामेहि यामो यथागतम् ॥१३॥
सद्यश्छिन्नशिरश्वभ्रमज्जत्कङ्ककुलाकुलाः ।
कबन्धाः परिनृत्यन्ति तालोत्ताला रणाङ्गणे ॥१४॥
गीर्वाणगणगोष्ठीषु प्रवृत्ताः संकथा मिथः ।
कदा लोकान्तरं धीराः कथं यास्यन्ति के कुतः ॥१५॥
निगिरत्यागताः सेनाः स्रवन्तीरिव सागरः ।
समत्स्यमकरव्यूहा अहो नु विषमो भटः ॥१६॥
कटेषु करिणां कीर्णा धारानाराचराजयः ।
पतिता इव संपूर्णाः शृङ्गसंघेषु वृष्टयः ॥१७॥
हा कुन्तेन शिरो नीतं ममेत्येव विवक्षतः ।
शिरसाऽजीवमित्येवं खे खगेनेव वाशितम् ॥१८॥
यन्त्रपाषाणवर्षेण यैषास्मान्परिषिञ्चति ।
सेनानुशृङ्खलाजालवलना क्रियतां बलात् ॥१९॥
वलीपलितनिर्मुक्तं पूर्वभार्याप्सराः सती ।
अङ्गीकरोति भर्तारं परिज्ञाय रणे हतम् ॥२०॥
आदिवं रचिताकाराः कुन्तकाननकान्तयः ।
वीराणां स्वर्गमारोढुमिव सोपानपङ्क्तयः ॥२१॥
कान्तकाञ्चनकान्ताङ्गे भटस्योरसि कामिनी ।
दृष्टा देवपुरन्ध्रीयं भर्तुरन्वेषणान्विता ॥२२॥
हा हतं सैन्यमस्माकं भटैऽरुद्धतमुष्टिभिः ।
महाप्रलयकल्लोलैः सुरशैलस्थलं यथा ॥२३॥
युध्यध्वमग्रतो मूढा नयतार्धमृतान्नरान् ।
निजान्पादप्रहारेण मैतान्दारयताधमाः ॥२४॥
धम्मिल्लवलनाव्यग्रे घनोत्कण्ठेऽप्सरोगणे ।
भटो दिव्यशरीरेण पार्श्वप्राप्तो निरीक्ष्यताम् ॥२५॥
फुल्लहेमारविन्दासु च्छायाशीतजलानिलैः ।
स्वर्गनद्यास्तटीष्वेनं दूरायातं विनोदय ॥२६॥
विविधायुधसंघट्टखण्डितोग्रास्थिकोटयः ।
खे कवन्त्यः कणत्कारैः प्रसृतास्तारका इव ॥२७॥
व्योम्नि जीवनदीवाहे वहत्सायकवारिणि ।
चक्रावर्तिनि गच्छन्ति गिरयोऽप्यणुपङ्कताम् ॥२८॥
भ्रमद्भिर्ग्रहमार्गेषु शिरोभिर्वीरभूभृताम् ।
आयुधांशुलतानाललग्नासिदलकण्टकैः ॥२९॥
केतुपट्टंमृणालाङ्गदलैर्लब्धशिलीमुखैः ।
वहद्वातचलत्पद्मं नभः पद्मसरः कृतम् ॥३०॥
मृतमातङ्गसंघाते गिराविव पिपीलिकाः ।
भीरवः परिलीयन्ते स्त्रियः पुंवक्षसीव च ॥३१॥
अपूर्वोत्तमसौन्दर्यकान्तसंगमशंसिनः ।
वान्ति विद्याधरस्त्रीणामलकोल्लासिनोऽनिलाः ॥३२॥
छत्रेषूड्डीयमानेषु स्थितेषु व्योम्नि चन्द्रता ।
इन्दुनेव यशोमूर्त्या कृता शुभ्रातपत्रता ॥३३॥
भटो मरणमूर्च्छान्ते निमेषेणामरं वपुः ।
स्वकर्मशिल्पिरचितं प्राप्तः स्वप्नपुरं यथा ॥३४॥
शूलशक्त्यृष्टिचक्राणां वृष्टयो मुक्ततुष्टयः ।
व्योमाब्धौ मत्स्यमकरसंकुलावयवाः स्थिताः ॥३५॥
शरोत्कृत्तसितच्छत्रकलहंसैर्नभःस्थलम् ।
भाति संचितपूर्णेन्दुबिम्बलक्षैरिवावृतम् ॥३६॥
क्रियते गगनोड्डीनैश्चामरैश्चारुघर्घरैः ।
वातावधूतसंरोधतरङ्गनिकरद्युतिः ॥३७॥
दृश्यन्ते हेतिदलिताश्छत्रचामरकेतवः ।
आकाशक्षेत्रविक्षिप्ता यशःशालिलता इव ॥३८॥
वहद्भिर्व्योम्नि सक्षेम पश्य नीता क्षयं शरै ।
शक्तिवृष्टिरुपायान्ती सस्यश्रीः शलभैरिव ॥३९॥
एषा प्रसृतदोर्दण्डभटखड्गच्छटात्कृतिः ।
कठिनात्कंकटाज्जाता मृत्योरेवोग्रहुंकृतिः ॥४०॥
हेतिकल्पानिलक्षुण्णा दन्तनिर्झरवारयः ।
जनताक्षयकालेऽस्मिन्भग्ना नागा नगा इव ॥४१॥
सचक्रनाथसूताश्वं व्यूढं रक्तमहाहृदे ।
हाहाभिभूतगतिकं चेष्टते रथपत्त्नम् ॥४२॥
करकंकटकुट्यङ्कखड्गसंघट्टटांकृतैः ।
कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ॥४३॥
नरेभखरवाजिभ्यो ये च्युता रक्तनिर्झराः ।
पश्य तद्बिन्दुसिक्तेन वायुनारुणिता दिशः ॥४४॥
शस्त्रांशुजलदे व्योम्नि कालीचिकुरमेचके ।
शरकोरकभारस्रङ्मेघे विद्युदिवोदिता ॥४५॥
अनन्तरक्तसंसक्तसन्नावनितलायुधैः ।
भुवनं भात्यभिज्वालमग्निलोक इवाकुलम् ॥४६॥
भुशुण्डीशक्तिशूलासिमुसलप्रासवृष्टयः ।
अन्योन्यच्छेदभेदाभ्यां करप्रकरतोऽपतन् ॥४७॥
अक्षोभैकप्रहरणाद्यातुधान्योऽन्यचेष्टितम् ।
संरम्भावेक्षणप्रज्ञं रणं स्वप्नमिव स्थितम् ॥४८॥
अनन्यशब्दाविरतहताहतिरणज्झणैः ।
गायतीव क्षतक्षोभमुदितो रणभैरवः ॥४९॥
अन्योन्यरणहेत्युग्रचूर्णपूर्णो रणार्णवः ।
वालुकामय एवाभूच्छिन्नच्छत्रतरङ्गकः ॥५०॥
सरभसरसवद्विसारितूर्य-
प्रतिरवपूरितलोकपाललोकः ।
रणगिरिरयमुग्रपक्षदक्ष-
प्रतिसृतिवृत्त इवाम्बरे युगान्ते ॥५१॥
हा हा धिक्प्रविकटकङ्कटाननोद्य-
त्प्रोड्डीनप्रकटतडिच्छटाप्रतप्ताः ।
क्रेङ्कारस्फुरितगुणेरिता रणन्तो
नाराचाः शिखरिशिलागणं वहन्ति ॥५२॥ ।
छिन्नेच्छाच्छमिति न यावदङ्गभङ्गं
कुर्वन्तो ज्वलदनलोज्ज्वलाः पृषत्काः ।
तावद्द्राग्द्रुतमित एहि मित्र यामो
यामोऽयं प्रवहति वासरश्चतुर्थः ॥५३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने रणप्रेक्षकजनोक्तिवर्णनं नाम चतुस्त्रिंशः सर्गः ॥३४॥

N/A

References : N/A
Last Updated : September 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP