संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः १४

उत्पत्तिप्रकरणम् - सर्गः १४

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
इत्थं जगदहंतादिदृश्यजातं न किंचन ।
अजातत्वाच्च नास्त्वेव यच्चास्ति परमेव तत् ॥१॥
परमाकाशमेवादौ जीवतां चेतति स्वयम् ।
निःस्पन्दाम्भोधिकुहरे सलिलं स्पन्दतामिव ॥२॥
आकाशरूपमजहदेवं वेत्तीव हृद्यताम् ।
स्वप्नसंकल्पशैलादाविव चिद्वृत्तिरान्तरी ॥३॥
पृथ्व्यादिरहितो देहो यो विंराडात्मको महान् ।
आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥४॥
अक्षयः स्वप्नशैलाभः स्थिरस्वप्नपुरोपमः ।
चित्रकृत्स्थिरचित्तस्थचित्रसैन्यसमाकृतिः ॥५॥
अनिखातमहास्तम्भपुत्रिकौघसमोपमः ।
ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे शालभञ्जिका ॥६॥
आद्यः प्रजापतिः एवं स्वयंभूरिति विश्रुतः ।
प्राक्तनानां स्वकार्याणामभावादप्यकारणः ॥७॥
महाप्रलयपर्यन्तेष्वाद्यकालपितामहाः ।
मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥८॥
सोऽकुड्य एव कुड्यात्मा दृश्यादृश्यः स्वयंस्थितः ।
न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च ॥९॥
प्रतिशब्दपदार्थानां सर्वेषामेष एव सः ।
तस्मादुदेति जीवाली दीपाली दीपकादिव ॥१०॥
संकल्प एव संकल्पात्किलैति क्ष्मादिवर्जितः ।
आदिमादिव निःशून्यः स्वप्नात्स्वप्नान्तरं यथा ॥११॥
अस्मादेकप्रतिस्पन्दाज्जीवाः संप्रसरन्ति ये ।
सहकारिकारणानामभावाच्च स एव ते ॥१२॥
सहकारिकारणानामभावे कार्यकारणम् ।
एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः ॥१३॥
ब्रह्मवाद्यो विराडात्मा विराडात्मेव सर्गता ।
जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः ॥१४॥
श्रीराम उवाच ।
किं स्यात्परिमितो जीवो राशिराहो अनन्तकः ।
आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः ॥१५॥
धाराः पयोमुच इव शीकरा इव वारिधेः ।
कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः ॥१६॥
इति मे भगवन्ब्रूहि जीवजालविनिर्णयम् ।
ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु ॥१७॥
श्रीवसिष्ठ उवाच ।
एक एव न जीवोऽस्ति राशीनां संभवः कुतः ।
शशशृङ्गं समुड्डीय प्रयातीव हि ते वचः ॥१८॥
न जीवोऽस्ति न जीवानां राशयः सन्ति राघव ।
न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन ॥१९॥
जीवशब्दार्थकलनाः समस्तकलनान्विताः ।
नेह काश्चन सन्तीति निश्चयोऽस्तु तवाचलः ॥२०॥
शुद्धचिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् ।
तद्यथा सर्वशक्तित्वाद्विन्दते याः स्वयं कलाः ॥२१॥
चिन्मात्रानुक्रमेणैव संप्रफुल्ललतामिव ।
ननु मूर्ताममूर्ता वा तामेवाशु प्रपश्यति ॥२२॥
जीवो बुद्धिः क्रियास्पन्दो मनोद्वित्वैक्यमित्यपि ।
स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ॥२३॥
साऽबुद्धैव भवत्येवं भवेद्ब्रह्मैव बोधतः ।
अबोधः प्रेक्षया याति नाशं न तु प्रबुध्यते ॥२४॥
यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।
न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि ॥२५॥
एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।
सर्वशक्तिरनाद्यन्तो महाचित्साररूपवान् ॥२६॥
सर्वानणुतया त्वस्य न क्वचिद्भेदकल्पना ।
विद्यते या हि कलना सा तदेवानुभूतितः ॥२७॥
श्रीराम उवाच ।
एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः ।
जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥२८॥
श्रीवसिष्ठ उवाच ।
महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् ।
स्थितं तथेच्छमेवेह निर्विभागं निरन्तरम् ॥२९॥
यदेवेच्छति तत्तस्य भवत्याशु महात्मनः ।
पूर्वं तेनेष्टमिच्छादि ततो द्वित्वमुदेति यत् ॥३०॥
पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।
अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः ॥३१॥
तं विनानुदये त्वासां प्रधानेच्छैव रोहति ।
शक्त्या ह्यजातया ब्राह्म्या नियमोऽयं प्रकल्पितः ॥३२॥
यस्या जीवाभिधानायाः शक्त्यपेक्षा फलत्यसौ ।
प्रधानशक्तिनियमानुष्ठानेन विना न तु ॥३३॥
प्रधानशक्तिनियमः सुप्रतिष्ठो न चेद्भवेत् ।
तत्फलं शक्त्यधीनत्वान्नेहितानां क्वचिद्भवेत् ॥३४॥
एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः ।
जीवकोटि महाकोटि भवत्यथ न किंचन ॥३५॥
चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् ।
तदसंवेदनाद्रूपं समायाति समं पुनः ॥३६॥
एवं कनिष्ठजीवानां ज्येष्ठजीवक्रमाक्रमैः ।
समुदेत्यात्मजीवत्वं ताम्राणामिव हेमता ॥३७॥
अत्रान्तरे महाकाश इत्थमेष गणोऽप्यसन् ।
स्वात्मैव सदिवोदेति चिच्चमत्करणात्मकः ॥३८॥
स्वयमेव चमत्कारो यः समापद्यते चितः ।
भविष्यन्नामदेहादि तदहंभावनं विदुः ॥३९॥
चितो यस्माच्चिदालेहस्तन्मयत्वादनन्तकः ।
स एष भुवनाभोग इति तस्यां प्रबिम्बति ॥४०॥
परिणामविकारादिशब्दैः सैव चिदव्यया ।
तादृग्रूपादभेद्यापि स्वशक्त्यैव विबुध्यते ॥४१॥
अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः ।
चेत्यस्य च प्रकाशस्य जगदित्येव तत्स्थितम् ॥४२॥
आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः ।
सा स्वभावत एवैतामहंतां परिपश्यति ॥४३॥
आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् ।
जगदन्तमहंताणुं तदैषा संप्रपश्यति ॥४४॥
चमत्कारकरी चारु यच्चमत्कुरुते चितिः ।
स्वयं स्वात्मनि तस्यैव जगन्नाम कृतं ततः ॥४५॥
चितश्चेत्यमहंकारः सैव राघव कल्पना ।
तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते ॥४६॥
जीवहेत्वादिसंत्यागे त्वं चाहं चेति संत्यज ।
शेषः सदसतोर्मध्ये भवत्यर्थात्मको भवेत् ॥४७॥
चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।
अभिन्ना दृश्यते व्योम्नः सत्तासत्ते न विद्महे ॥४८॥
विश्वं खं जगदीहाख्यं खमस्ति विबुधालयः ।
साकारश्चिच्चमत्काररूपत्वान्नान्यदस्ति हि ॥४९॥
यो यद्विलासस्तस्मात्स न कदाचन भिद्यते ।
अपि सावयवं तस्मात्कैवानवयवे कथा ॥५०॥
चितेर्नित्यमचेत्याया निर्नाम्न्या वितताकृतेः ।
यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ॥५१॥
मनो बुद्धिरहंकारो भूतानि गिरयो दिशः ।
इति या यास्तु रचनाश्चितस्तत्त्वाज्जगत्स्थितेः ॥५२॥
चितेश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि ।
अजगत्त्वादचिच्चित्स्याद्भानाद्भेदो जगत्कुतः ॥५३॥
चितेर्मरीचिबीजस्य निजा यान्तश्चमत्कृतिः ।
सा चैषा जीवतन्मात्रमात्रं जगदिति स्थिता ॥५४॥
चित्तात्स्वशक्तिकचनं यदहंभावनं चितः ।
जीवः स्पन्दनकर्मात्मा भविष्यदभिधो ह्यसौ ॥५५॥
यच्चिच्चित्त्वेन कचनं स्वसंपाद्याभिधात्मकम् ।
स्वविकारैर्व्यवच्छेद्यं भिद्यते नो न विद्यते ॥५६॥
चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः ।
स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः ॥५७॥
जीवश्चित्तपरिस्पन्दः पुंसां चित्तं स एव च ।
मनस्त्विन्द्रियरूपं सत्सत्तां नानेव गच्छति ॥५८॥
शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।
कार्यकारणकादित्वं तस्मादन्यन्न विद्यते ॥५९॥
अच्छेद्योऽहमदाह्योऽहमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽहमिति स्थितम् ॥६०॥
विवदन्ते तथा ह्यत्र विवदन्तो यथा भ्रमैः ।
भ्रमयन्तो वयं त्वेते जाता विगतविभ्रमाः ॥६१॥
दृश्ये मूर्ते ज्ञसंरूढे विकारादि पृथग्भवेत् ।
नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥६२॥
चित्तरौ चेत्यरसतः शक्तिः कालादिनामिकाम् ।
तनोत्याकाशविशदां चिन्मधुश्रीः स्वमञ्जरीम् ॥६३॥
स्वयं विचित्रं स्फुरति चिदण्डकमनाहतम् ।
स्वयं विलक्षणस्पन्दं चिद्वायुरण्डजात्मकः ॥६४॥
स्वयं विचित्रं कचनं चिद्वारि न निखातगम् ।
स्वयं विचित्रधातुत्वं श्रेष्ठाङ्गमपि निर्मितम् ॥६५॥
स्वविचित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ।
स्वयं चिदेव प्रकटश्चिदालोको महात्मकः ॥६६॥
स्वयमस्तं गते बाह्ये स्वज्ञानादुदिता चितिः ।
स्वयं जडेषु जाड्येन पदं सौषुप्तमागता ॥६७॥
स्वयं स्पन्दितयास्पन्दिचित्त्वाच्चिति महानभ ।
चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च ॥६८॥
चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च ।
चिदालोकमहारूपं जगदस्ति च नास्ति च ॥६९॥
चिन्मारुतपरिस्पन्दो जगदस्ति च नास्ति च ।
चिद्धनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च ॥७०॥
चिदर्कालोकदिवसो जगदस्ति च नास्ति च ।
चित्कज्जलरजस्तैलपरमाणुर्जगत्क्रमः ॥७१॥
चिदग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता ।
जगच्चिच्छैलजठरं चिज्जलद्रवता जगत् ॥७२॥
जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ।
जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् ॥७३॥
जगच्चित्सर्षपस्नेहो वीचिश्चित्सरितो जगत् ।
जगच्चित्क्षौद्रमाधुर्यं जगच्चित्कनकाङ्गदम् ॥७४॥
जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् ।
चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः ॥७५॥
अत्र भेदविकारादि नखे मलमिव स्थितम् ।
इतीदं सन्मयत्वेन सदसद्भुवनत्रयम् ॥७६॥
अविकल्पतदात्मत्वात्सत्तासत्तैकतैव च ।
अवयवावयविता शब्दार्थौ शशशृङ्गवत् ॥७७॥
अनुभूत्यपलापाय कल्पितो यैर्धिगस्तु तान् ।
न विद्यते जगद्यत्र साद्र्यब्ध्युर्वीनदीश्वरम् ॥७८॥
चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमः ।
शिलाहृदयपीनापि स्वाकाशे विशदैव चित् ॥७९॥
धत्तेऽन्तरखिलं शान्तं संनिवेशं यथा शिला ।
पदार्थनिकराकाशे त्वयमाकाशजो मलः ॥८०॥
सत्तासत्तात्मतात्वत्तामत्ताश्लेषा न सन्ति ते ।
पल्लवान्तरलेखौघसंनिवेशवदाततम् ॥८१॥
अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः ।
समस्तकारणौघानां कारणादि पितामहः ॥८२॥
स्वभावतो कारणात्म चित्तं चिद्ध्यनुभूतितः ।
न चासत्त्वमचेत्यायाश्चितो वाचापि सिद्ध्यति ॥८३॥
यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरः ॥८४॥
गगन इव सुशून्यभेदमस्ति
त्रिभुवनमङ्ग महाचितोऽन्तरस्याः ।
परमपदमयं समस्तदृश्यं
त्विदमिति निश्चयवान्भवानुभूतेः ॥८५॥
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥८६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः ॥१४॥

N/A

References : N/A
Last Updated : September 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP