संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७८ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७८ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ सा राक्षसी रक्षःकुलकाननमञ्जरी ।तमस्येवाभ्रलेखेव गम्भीरं विननाद ह ॥१॥नादान्ते समुवाचेदं हुंकारापरुषं वचः ।गर्जितानन्तरं जातकरकाशनिशब्दवत् ॥२॥भो भो घोराटवीव्योमपदवीशशिभास्करौ ।महामायातमःपीठशिलाकोटरकीटकौ ॥३॥कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ ।मद्ग्रासपदमापन्नौ क्षणान्मरणकोचितौ ॥४॥राजोवाच ।भो भो भूतक किं स्यास्त्वं क्व तिष्ठसि च देहकम् ।दर्शयास्यास्तव गिरः को बिभेत्यलिनीध्वनेः ॥५॥सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः ।त्यज संरम्भमारम्भं स्वसामर्थ्य प्रदर्शय ॥६॥किं प्रार्थयसि मे ब्रूहि ददामि तव सुव्रत ।किं वा संरम्भशब्दाभ्यां भीषयास्मान्बिभेषि किम् ॥७॥क्षिप्रमाकारशब्दाभ्यां मायया सन्मुखीभव ।न किंचिद्दीर्घसूत्राणां सिद्ध्यत्यात्मक्षयादृते ॥८॥राज्ञेत्युक्ते रम्यमुक्तमिति संचिन्त्य सा तयोः ।प्रकाशायाप्य धैर्याय ननाद च जहास च ॥९॥ततो ददृशतुस्तां तौ शब्दपूरितदिग्गणाम् ।साट्टहासप्रभापिण्डपूरप्रकटिताकृतिम् ॥१०॥कल्पाभ्राशनिकाषेण घृष्टामद्रितटीमिव ।स्वनेत्रविद्युद्वलयबलाकोज्ज्वलिताम्बराम् ॥११॥तिमिरैकार्णवौर्वाग्निज्वालाविवलनामिव ।गर्जद्धनघटाटोपपीवरासितकन्धराम् ॥१२॥रणद्दशनसरम्भहाहाहतनिशाचराम् ।रोदसीकज्जलस्तम्भां लीलयोल्लसितां पुनः ॥१३॥ऊर्ध्वकेशीं शिरालाङ्गीं कपिलाक्षीं तमोमयीम् ।यक्षरक्षःपिशाचानामप्यनर्थभयप्रदाम् ॥१४॥देहरन्ध्रविशच्छ्वासवातभांकारभीषणाम् ।मुसलोलूखलालातहलशूर्पकशेखराम् ॥१५॥स्फुरन्तीमिव कल्पान्ते वैदूर्यशिखरस्थलीम् ।हासघट्टितविश्वेशां कालरात्रिमिवोदिताम् ॥१६॥शरद्व्योमाटवीं साभ्रां कृतदेहामिवागताम् ।शरीरिणीं महाभ्राढ्यां यामिनीमिव मांसलाम् ॥१७॥शरीरसंनिवेशेन पङ्कपीठमिवोत्थिताम् ।तनुं चन्द्रार्कयुद्धाय तमसेव समाश्रिताम् ॥१८॥इन्द्रनीलमहाशुभ्रलम्बाभ्रयुगलोपमौ ।उलूखलादिहारौघौ दधानामसितौ स्तनौ ॥१९॥लग्नामङ्गारकाष्ठेन समानां च महातनुम् ।द्रुमाभास्पन्दसशिरलसद्भुजलतातनुम् ॥२०॥तामवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ ।न तदस्ति विमोहाय यद्विविक्तस्य चेतसः ॥२१॥मन्त्र्युवाच ।महाराक्षसि संरम्भो महात्मा किमयं तव ।लघवो ह्यथवा कार्ये लघावप्यतिसंभ्रमाः ॥२२॥त्यज संरम्भमारम्भो नायं तव विराजते ।विषये हि प्रवर्तन्ते धीमन्तः स्वार्थसाधकाः ॥२३॥त्वादृशानां सहस्राणि मशकानामिवाबले ।अस्माकं धीरतावात्याव्यूढानि तृणपर्णवत् ॥२४॥संरम्भद्वारमुत्सृज्य समतास्वच्छया धिया ।युक्ता च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ॥२५॥स्वेनेव व्यवहारेण कार्यं सिद्ध्यतु वा न वा ।महानियतिरित्येव भ्रमस्यावसरो हि कः ॥२६॥कथयाभिमतं किं ते किमर्थयसि चार्थिनी ।अर्थी स्वप्नेऽपि नास्माकमप्राप्तार्थः पुरो गतः ॥२७॥इत्युक्ता सा तदा तेन चिन्तयामास राक्षसी ।अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः ॥२८॥न सामान्याविमौ मन्ये विचित्रेयं चमत्कृतिः ।वचोवक्रेक्षणेनैव वदत्यन्तर्विनिश्चयम् ॥२९॥वचोवक्रेक्षणद्वारैर्धीमतामाशया मिथः ।एकीभवन्ति सरितां पयांसि वलनैरिव ॥३०॥आभ्यां प्रायः परिज्ञातो मम भावोऽनयोर्मया ।न विनाश्यौ मया चेमौ स्वयमेवाविनाशिनौ ॥३१॥मन्ये भवेतामात्मज्ञौ नात्मज्ञानादृते मतिः ।प्रमृष्टसदसद्भावाद्भवत्यस्तभया मृतौ ॥३२॥तदेतौ परिपृच्छामि किंचित्संदेहमुत्थितम् ।प्राज्ञं प्राप्य न पृच्छन्ति ये केचित्ते नराधमाः ॥३३॥इति संचिन्त्य पृच्छायै तन्वानावसरं ततः ।अकालकल्पाभ्ररवं हासं संयम्य साब्रवीत् ॥३४॥कौ भवन्तौ नरौ धीरौ कथ्यतामिति मेऽनघौ ।जायते दर्शनादेव मैत्री विशदचेतसाम् ॥३५॥मन्त्र्युवाच ।अयं राजा किरातानामस्याहं मन्त्रितां गतः ।उद्यतौ रात्रिचर्येण त्वादृग्जनविनिग्रहे ॥३६॥राज्ञो रात्रिंदिवं धर्मो दुष्टभूतविनिग्रहः ।स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम् ॥३७॥राक्षस्युवाच ।राजंस्त्वमसि दुर्मन्त्री दुर्मन्त्री न नृपो भवेत् ।सद्रूपस्य भवेन्मन्त्री राजा सन्मन्त्रिणो भवेत् ॥३८॥राजा चादौ विवेकेन योजनीयः सुमन्त्रिणा ।तेनार्यतामुपायाति यथा राजा तथा प्रजाः ॥३९॥समस्तगुणजालानामध्यात्मज्ञानमुत्तमम् ।तद्विद्राजा भवेद्राजा तद्विन्मन्त्री च मन्त्रवित् ॥४०॥प्रभुत्वं समदृष्टित्वं तच्च स्याद्राजविद्यया ।तामेव यो न जानाति नासौ मन्त्री न सोऽधिपः ॥४१॥भवन्तौ तद्विदौ साधू यदि तच्छ्रेय आप्नुथः ।नो चेदनर्थदौ स्वस्याः प्रकृतेरद्म्यहं युवाम् ॥४२॥एकोपायेन मत्पार्श्वाद्वालकावुत्तरिष्यथः ।मत्प्रश्नपञ्जरं सारं चेद्विचारयथो धिया ॥४३॥प्रश्नानिमान्कथय पार्थिव वा च मन्त्रिंस्तत्रार्थिनी भृशमहं परिपूरयार्थम् ।अङ्गीकृतार्थमददत्क इवास्ति लोके दोषेण संक्षयकरेण न युज्यते यः ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० राक्षसीवर्णनं नामाष्टस्रप्ततितमः सर्गः ॥७८॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP