संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८२ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८२ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति राजमुखाच्छुत्वा कर्कटी वनमर्कटी ।अवबुद्धपदान्तं स्वं जहौ मत्सरचापलम् ॥१॥अन्तःशीतलतामेत्य विश्रान्तिमपतापताम् ।प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती ॥२॥तथा राजगिरा तस्या आनन्द उदभूद्भृशम् ।गर्भेऽन्तः खे बलाकाया रवेणेव पयोमुचः ॥३॥राक्षस्युवाच ।अहो बत पवित्रेयं भवतोर्भाति शेमुषी ।अनस्तमितसारेण प्रबोधार्केण भासिता ॥४॥शीता समरसा शुद्धा ज्योत्स्नेव शशिमण्डलात् ।विवेककणिकां श्रुत्वा भवतो हृदयादियम् ॥५॥विवेकिनो जगत्पूज्याः सेव्या मन्ये भवादृशाः ।सत्सङ्गात्सविकासास्मि चन्द्रेणेव कुमुद्वती ॥६॥सौरभं कुसुमासङ्गादेव सत्सङ्गमाच्छुभम् ।वर्तते ह्यर्कसंपर्काद्विकासोऽम्बुरुहामिव ॥७॥महतामेव संपर्कात्पुनर्दुःखं न बाधते ।को हि दीपशिखाहस्तस्तमसा परिभूयते ॥८॥मयेमौ जङ्गलप्राप्तौ भवन्तौ भूमिभास्करौ ।पूजनीयावतः शीघ्रमीहितं कथ्यतां शुभम् ॥९॥राजोवाच ।अस्मिन् जनपदे रक्षःकुलकाननमञ्जरि ।जनस्य बाधतेऽत्यन्तं सदा हृदयशूलनम् ॥१०॥यतः सर्वैव जनता तप्ता दृढविषूचिका ।मण्डले ननु तेनाहं निर्गतो रात्रिचर्यया ॥११॥शूलादि हृदये नृणां न शाम्यति यदौषधैः ।ततोऽहं त्वद्विधप्रोक्तमन्त्रार्थेन विनिर्गतः ॥१२॥त्वादृशस्य च लोकस्य मुग्धलोकाभिघातिनः ।निग्रहार्थं प्रवृत्तिर्मे सा च संपत्तिमेत्यलम् ॥१३॥एतावदेव च शुभे त्वयाङ्गीक्रियतां वचः ।भूयो भवत्या प्राणा हि हिंसनीया न कस्यचित् ॥१४॥राक्षस्युवाच ।बाढमेवं करोम्यद्यप्रभृत्यवितथं प्रभो ।सत्यमेव न किंचिद्धि हिंसनीयं मयाधुना ॥१५॥राजोवाच ।यद्येवं फुल्लपद्माक्षि परदेहैकभोजने ।किं स्याच्छरीरवृत्त्यै ते स्थिताया मत्समीहिते ॥१६॥राक्षस्युवाच ।षड्भिर्मासैर्गिरौ राजन्प्रबुद्धायाः समाधितः ।जाता भोजनसंकल्पाद्भोजनेच्छेयमद्य मे ॥१७॥इदानीं शिखरं गत्वा तदेव ध्याननिश्चला ।यावदिच्छं सुखेनासे सजीवा शालभञ्जिका ॥१८॥आमृतीं धारणां बद्ध्वा धारयामि शरीरकम् ।यथेच्छमथ कालेन त्यक्ष्यामीति मतिर्मम ॥१९॥आशरीरपरित्यागमिदानीं न मया नृप ।हिंसनीयाः परप्राणास्तेनेदं मद्वचः शृणु ॥२०॥हिमवान्नाम शैलोऽस्ति शरच्चन्द्रांशुनिर्मलः ।य उत्तराशाहृदये स्पृष्टपूर्वापरार्णवः ॥२१॥तत्राहं निवसाम्यग्रे हेमशृङ्गदरीगृहे ।आयसी मेघलेखेव कर्कटीनाम राक्षसी ॥२२॥तपसोपार्जितो ब्रह्मा जनतामारणेच्छया ।विषूचिका प्राणहरा स्यां सूच्यात्मेति भो मया ॥२३॥तस्मात्संप्राप्तवरया बहून्वर्षगणान्मया ।भुक्ता विषूचिकात्वेन जनता जीवबाधनैः ॥२४॥त्वया न गुणिनो हिंस्या इति मे ब्रह्मणा ततः ।नियमार्थं महामन्त्रस्तदायत्तास्मि संस्थिता ॥२५॥सोऽयं प्रगृह्यतां तेन सर्वं हृदयशूलनम् ।शममेष्यति लोकेऽस्मात्का कथा मत्कृते भ्रमे ॥२६॥विततैवास्मि हिंसायां यत्पुरा हिंसितं मया ।जनस्य हृदयं तेन नाड्यो वैधुर्यमागताः ॥२७॥हिंसित्वा रक्तमांसानि संत्यक्ता ये महाजनाः ।तेभ्यो विधुरनाडीभ्यो ये जातास्तेऽपि तादृशाः ॥२८॥राजन्विषूचिकामन्त्रः सोऽयं संपन्न एव ते ।नहि सत्त्ववतामस्ति दुःसाध्यमिह किंचन ॥२९॥अतो दुर्नाडिकोशेषु शूलानां परिशान्तये ।मन्त्रो यो ब्रह्मणा प्रोक्तो राजञ्शीघ्रं गृहाण तम् ॥३०॥आगच्छ निकटं नद्या गच्छामस्तत्र भूमिप ।स्वाचान्ताभ्यां संयताभ्यां भवद्भ्यां सुमता ददे ॥३१॥श्रीवसिष्ठ उवाच ।इति तस्यां तदा रात्र्यां राक्षसीमन्त्रिभूभृतः ।जग्मुस्ते सरितस्तीरं मिथः संजातसौहृदाः ॥३२॥अन्वयव्यतिरेकेण राक्षस्याः सौहृदं तदा ।ज्ञात्वा स्थितौ तौ स्वाचान्तावुभावन्तेनिवासिनौ॥३३॥तया ब्रह्मोपदिष्टोऽसौ ततस्ताभ्यां यथाक्रमम् ।स्नेहाद्विषूचिकामन्त्रः प्रदत्तो जपसिद्धिदः ॥३४॥ततः संजातसौहार्दौ तौ विसृज्य निशाचरी ।यदा गन्तुं प्रवृत्तासौ तदा राजाब्रवीद्वचः ॥३५॥राजोवाच ।गुरुस्त्वं नौ महादेहे वयस्या च सुनिर्वृता ।निमन्त्रयावहे यत्नाद्ग्रासाय तव सुन्दरि ॥३६॥न चास्मत्प्रणयं प्रीता वितथीकर्तुमर्हसि ।सौहार्दं सुजनानां हि दर्शनादेव वर्धते ॥३७॥लघुसौभाग्यसंयुक्तं कृत्वाकारं मनोरमम् ।आगच्छास्मद्गृहं भद्रे तत्र तिष्ठ यथासुखम् ॥३८॥राक्षस्युवाच ।मुग्धस्त्रीरूपधारिण्यै दातुं शक्तोऽसि भोजनम् ।संतर्पयसि मां केन राक्षसाकारधारिणीम् ॥३९॥रक्षोन्नमेव संतुष्ट्यै न सामान्यजनाशनम् ।पूर्वसिद्धस्वभावोऽयमादेहं न निवर्तते ॥४०॥राजोवाच ।हेमस्रग्दामवलिता दिनानि कतिचिद्गृहे ।मम स्त्रीरूपिणी तिष्ठ यावदिच्छमनिन्दिते ॥४१॥ततो दुष्कृतिनश्चौरान्वध्याञ्छतसहस्रशः ।मण्डलेभ्यः समानीय ददे तुभ्यं सुभोजनम् ॥४२॥कान्तारूपं परित्यज्य गृहीत्वा राक्षसं वपुः ।आदाय वध्याञ्छतशः पुरुषांस्तान्सुसंचितान् ॥४३॥नयस्व हिमवच्छृंङ्गं तत्र भुङ्क्ष्व यथासुखम् ।महाशनानामेकान्ते भोजनं हि सुखायते ॥४४॥तृप्ता निद्रां मनाक्कृत्वा भव भूयः समाधिभाक् ।समाधिविरता भूयोऽप्यागत्य पुनरन्यदा ॥४५॥नेष्यस्यन्यान्वध्यजनान् हिंसा नैषां च धर्मतः ।स्वधर्मेण च हित्वैव महाकरुणया समा ॥४६॥त्वं समेष्यसि चावश्यं मां समाधिविरागिणी ।असतामपि संरूढं सौहार्दं न निवर्तते ॥४७॥राक्षस्युवाच ।युक्तमुक्तं त्वया राजन्करोम्येवमहं सखे ।सौहार्देन प्रवृत्तस्य को वाक्यं नाभिनन्दति ॥४८॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा राक्षसी तत्र संपन्ना सुविलासिनी ।हारकेयूरकटकपट्टस्रग्दामधारिणी ॥४९॥राजन्नागच्छ गच्छाम इत्युक्त्वा भूपमन्त्रिणौ ।अग्रे गन्तुं प्रवृत्तौ तौ रात्रावनुससार सा ॥५०॥अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः ।कथयैकगृहे रम्ये क्षपयामासुरादृताः ॥५१॥प्रभातेऽन्तःपुरे तस्थौ पुरन्ध्रीजनलीलया ।राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः ॥५२॥ततो दिवसषट्केन संचितानि महीभृता ।नृपः परपुरेभ्योऽपि स्वमण्डलगणात्तथा ॥५३॥त्रीणि वध्यसहस्राणि तानि तस्यै तदा ददौ ।सा बभूव निशा काले सैवोग्रा कृष्णराक्षसी ॥५४॥तानि वध्यसहस्राणि जग्राह भुजमण्डले ।धारानिकरजालानि मेघमालेव कोटरे ॥५५॥ययौ राजानमापृच्छ्य तदेव हिमवच्छिरः ।दरिद्रा लब्धहेमेव ग्रहेषूग्रशरीरिणी ॥५६॥तत्र तृप्ता भृशं भुक्त्वा सुखं सुप्त्वा दिनत्रयम् ।आसीत्प्रबोधसुस्वस्था सा समाधिमतिः पुनः ॥५७॥पञ्चभिर्वा चतुर्भिर्वा वर्षैः सा संप्रबुध्यते ।तत्ततो मण्डलं याति तेन राजसभाजने ॥५८॥तत्र विश्रम्भगर्भाभिः कथाभिः कंचिदेव सा ।स्थित्वा कालं गृहीत्वा तान्वध्यान्स्वास्पदमेत्यथ॥५९॥जीवन्मुक्ततयैवमेव विपिने साद्यापि रक्षोङ्गनातस्मिन्नेव गिरौ स्थिता विचलितध्यानैकतानाशया ।तस्मिन्राजनि शान्तिमागतवति त्यक्तैषणेनात्मनातद्राष्ट्राधिपसौहृदैः स्वकवलानास्वादयन्ती चिरं ॥६०॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे कर्क० राक्षसीसौहार्दं नाम द्वयशीतितमः सर्गः ॥८२॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP